सा
तथोक्ता
तु
वैदेही
निर्भया
शोककर्शितता ।
तृणमन्तरतः
कृत्वा
रावणं
प्रत्यभाषत ॥ १ ॥
राजा
दशरथो
नाम
धर्मसेतुरिवाचलः ।
सत्यसन्धः
परिज्ञातो
यस्य
पुत्रः
स
राघवः ॥ २ ॥
रामो
नाम
स
धर्मात्मा
त्रिषु
लोकेषु
विश्रुतः ।
दीर्घबाहुर्विशालाक्षो
दैवतं
हि
पतिर्मम ॥ ३ ॥
इक्ष्वाकूणां
कुले
जातः
सिंहस्कन्धो
महाद्युतिः ।
लक्ष्मणेन
सह
भ्रात्रा
यस्ते
प्राणान्
हरिष्यति ॥ ४ ॥
प्रत्यक्षं
यद्यहं
तस्य
त्वया
स्यां
धर्षिता
बलात् ।
शयिता
त्वं
हतः
सङ्ख्ये
जनस्थाने
यथा
खरः ॥ ५ ॥
य
एते
राक्षसाः
प्रोक्ता
घोररूपा
महाबलाः ।
राघवे
निर्विषाः
सर्वे
सुपर्णे
पन्नगा
यथा ॥ ६ ॥
तस्य
ज्याविप्रमुक्तास्ते
शराः
काञ्चनभूषणाः ।
शरीरं
विधमिष्यन्ति
गङ्गा
कूलमिवोर्मयः ॥ ७ ॥
असुरैर्वा
सुरैर्वा
त्वं
यद्यवध्योऽसि
रावण ।
उत्पाद्य
सुमहद्वैरं
जीवंस्तस्य
न
मोक्ष्यसे ॥ ८ ॥
स
ते
जीवितशेषस्य
राघवोन्तकरो
बली ।
पशोर्यूपगतस्येव
जीवितं
तव
दुर्लभम् ॥ ९ ॥
यदि
पश्येत्
स
रामस्त्वां
रोषदीप्तेन
चक्षुषा ।
रक्षस्त्वमद्य
निर्दग्धो
गच्छेः
सद्यः
पराभवम् ॥ १० ॥
यश्चन्द्रं
नभसो
भूमौ
पातयेन्नाशयेत
वा ।
सागरं
शोषयेद्वापि
स
सीतां
मोचयेदिह ॥ ११ ॥
गतायुस्त्वं
गतश्रीको
गतसत्त्वो
गतेन्द्रियः ।
लङ्का
वैधव्यसंयुक्ता
त्वत्कृतेन
भविष्यति ॥ १२ ॥
न
ते
पापमिदं
कर्म
सुखोदर्कं
भविष्यति ।
याऽहं
नीता
विनाभावं
पतिपार्श्वात्त्वया
वने ॥ १३ ॥
स
हि
दैवतसंयुक्तो
मम
भर्ता
महाद्युतिः ।
निर्भयो
वीर्यमाश्रित्य
शून्यो
वसति
दण्डके ॥ १४ ॥
स
ते
दर्पं
बलं
वीर्यमुत्सेकं
च
तथाविधम् ।
अपनेष्यति
गात्रेभ्यः
शरवर्षेण
संयुगे ॥ १५ ॥
यदा
विनाशो
भूतानां
दृश्यते
कालचोदितः ।
तदा
कार्ये
प्रमाद्यन्ति
नराः
कालवशं
गताः ॥ १६ ॥
मां
प्रधृष्य
स
ते
कालः
प्राप्तोऽयं
राक्षसाधम ।
आत्मनो
राक्षसानां
च
वधायान्तःपुरस्य
च ॥ १७ ॥
न
शक्या
यज्ञमध्यस्था
वेदिः
स्रुग्भाण्डमण्डिता ।
द्विजातिमन्त्रपूता
च
चण्डालेनावमर्दितुम् ॥ १८ ॥
तथाहं
धर्मनित्यस्य
धर्मपत्नी
पतिव्रता ।
त्वया
स्प्रष्टुं
न
शक्याऽस्मि
राक्षसाधम
पापिना ॥ १९ ॥
क्रीडन्ती
राजहंसेन
पद्मषण्डेषु
नित्यदा ।
हंसी
सा
तृमषण्डस्थं
कथं
पश्येत
मदगुकम् ॥ २० ॥
नेदं
शरीरं
रक्ष्यं
मे
जीवितं
वापि
राक्षस ।
न
तु
शक्ष्याम्युपक्रोशं
पृथिव्यां
दातुमात्मनः ॥ २१ ॥
एवमुक्त्वा
तु
वैदेही
क्रोधात्
सुपरुषं
वचः ।
रावणं
मैथिली
तत्र
पुनर्नोवाच
किञ्चन ॥ २२ ॥
सीताया
वचनं
श्रुत्वा
परुषं
रोमहर्षणम् ।
प्रत्युवाच
ततः
सीतां
भयसन्दर्शनं
वचः ॥ २३ ॥
शृणु
मैथिलि
मद्वाक्यं
मासान्
द्वादश
भामिनि ।
कालेनानेन
नाभ्येषि
यदि
मां
चारुहासिनि ॥ २४ ॥
ततस्त्वां
प्रातराशार्थं
सूदाश्छेत्स्यन्ति
लेशशः ।
इत्युक्त्वा
परुषं
वाक्यं
रावणः
शत्रुरावणः ॥ २५ ॥
राक्षसीश्च
ततः
क्रुद्ध
इदं
वचनमब्रवीत् ।
शीघ्रमेव
हि
राक्षस्यो
विकृता
घोरदर्शनाः ॥ २६ ॥
दर्पमस्या
विनेष्यध्वं
मांसशोणितभोजनाः ।
वचनादेव
तास्तस्य
सुघोरा
राक्षसीगणाः ॥ २७ ॥
कृतप्राञ्जलयो
भूत्वा
मैथिलीं
पर्यवारयन् ।
स
ताः
प्रोवाच
राजा
तु
रावणो
घोरदर्शनः ॥ २८ ॥
प्रचाल्य
चरुणोत्कर्षैर्दारयन्निव
मेदिनीम् ।
अशोकवनिकामध्ये
मैथिली
नीयतामियम् ॥ २९ ॥
तत्रेयं
रक्ष्यतां
गूढं
युष्माभिः
परिवारिता ।
तत्रैवान्तर्जनैर्घोरैः
पुनः
सान्त्वैश्च
मैथिलीम् ॥ ३० ॥
आनयध्वं
वशं
सर्वा
वन्यां
गजवधूमिव ।
इति
प्रतिसमादिष्टा
राक्षस्यो
रावणेन
ताः ॥ ३१ ॥
अशोकवनिकां
जग्मुर्मैथिलीं
प्रतिगृह्य
तु ।
सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् ॥ ३२ ॥
सर्वकालमदैश्चापि
द्विजैः
समुपसेविताम् ।
सा
तु
शोकपरीताङ्गी
मैथिली
जनकात्मजा ॥ ३३ ॥
राक्षसीवशमापन्ना
व्याघ्रीणां
हरिणी
यथा ।
शोकेन
महता
ग्रस्ता
मैथिली
जनकात्मजा ॥ ३४ ॥
न
शर्म
लभते
भीरुः
पाशबद्धा
मृगी
यथा ।
न
विन्दते
तत्र
तु
शर्म
मैथिली
विरूपनेत्राभिरतीव
तर्जिता ॥ ३५ ॥
पतिं
स्मरन्ती
दयितं
च
दैवतं
विचेतनाऽभूद्भयशोकपीडिता ॥ ३६ ॥