राक्षसं
मृगरूपेण
चरन्तं
कामरूपिणम् ।
निहत्य
रामो
मारीचं
तूर्णं
पथि
निवर्तते ॥ १ ॥
तस्य
सन्त्वरमाणस्य
द्रष्टुकामस्य
मौथिलीम् ।
क्रूरस्वनोऽथ
गोमायुर्विननादास्य
पृष्ठतः ॥ २ ॥
स
तस्य
स्वरमाज्ञाय
दारुणं
रोमहर्षणम् ।
चिन्तयामास
गोमायोः
स्वरेण
परिशङ्कितः ॥ ३ ॥
अशुभं
बत
मन्येऽहं
गोमायुर्वाश्यते
यथा ।
स्वस्ति
स्यादपि
वैदेह्या
राक्षसैर्भक्षणं
विना ॥ ४ ॥
मारीचेन
तु
विज्ञाय
स्वरमालम्ब्य
मामकम् ।
विक्रुष्टं
मृगरुपेण
लक्ष्मणः
शृणुयाद्यदि ॥ ५ ॥
स
सौमित्रिः
स्वरं
श्रुत्वा
तां
च
हित्वा
च
मैथिलम् ।
तयैव
प्रहितः
क्षिप्रं
मत्सकाशमिहैष्यति ॥ ६ ॥
राक्षसैः
सहितैर्नूनं
सीताया
ईप्सितो
वधः ।
काञ्चनश्च
मृगो
भूत्वा
व्यपनीयाश्रमात्तु
माम् ॥ ७ ॥
दूरं
नीत्वा
तु
मारीचो
राक्षसोऽभूच्छराहतः ।
हा
लक्ष्मण
हतोऽस्मीति
यद्वाक्यं
व्याजहार
च ॥ ८ ॥
अपि
स्वस्ति
भवेत्ताभ्यां
रहिताभ्यां
महावने ।
जनस्थाननिमित्तं
हि
कृतवैरोऽस्मि
राक्षसैः ॥ ९ ॥
निमित्तानि
च
घोराणि
दृश्यन्तेऽद्य
बहूनि
च ।
इत्येवं
चिन्तयन्
रामः
श्रुत्वा
गोमायुनिःस्वनम् ॥ १० ॥
आत्मनश्चापनयनान्मृगरूपेण
रक्षसा ।
आजगम
जनस्थानं
राघवः
परिशङ्कितः ॥ ११ ॥
तं
दीनमनसो
दीनमासेदुर्मृगपक्षिणः ।
सव्यं
कृत्वा
महात्मानं
घोरांश्च
ससृजुः
स्वरान् ॥ १२ ॥
तानि
दृष्ट्वा
निमित्तानि
महाघोराणि
राघवः ।
न्यवर्तताथ
त्वरितो
जवेनाश्रममात्मनः ॥ १३ ॥
आजगाम
जनस्थानं
चिन्तयन्नेव
राघवः ।
ततो
लक्ष्मणमायान्तं
ददर्श
विगतप्रभम् ॥ १४ ॥
ततोऽविदूरे
रामेण
समीयाय
स
लक्ष्मणः ।
विषण्णः
सुविषण्णेन
दुःखितो
दुःखभागिना ॥ १५ ॥
सञ्जगर्हेऽथ
तं
भ्राता
ज्येष्ठो
लक्ष्मणमागतम् ।
विहाय
सीतां
विजने
वने
राक्षससेविते ॥ १६ ॥
गृहीत्वा
च
करं
सव्यं
लक्ष्मणं
रघुनन्दनः ।
उवाच
मधुरोदर्कमिदं
परुषमार्तिमत् ॥ १७ ॥
अहो
लक्ष्मण
गह्यं
ते
कृतं
यस्त्वं
विहाय
ताम् ।
सीतामिहागतः
सौम्य
कञ्चित्
स्वस्ति
भवेदिह ॥ १८ ॥
न
मेऽस्ति
संशयो
वीर
सर्वथा
जनकात्मजा ।
विनष्टा
भक्षिता
वापि
राक्षसैर्वनचारिभिः ॥ १९ ॥
अशुभान्येव
भूयिष्ठं
यथा
प्रादुर्भवन्ति
मे ।
अपि
लक्ष्मण
सीतायाः
सामग्य्रं
प्राप्नुयावहे ॥ २० ॥
जीवन्त्याः
पुरुषव्याघ्र
सुताया
जनकस्य
वै ।
यथा
वै
मृगसङ्घाश्च
गोमायुश्चैव
भैरवम् ॥ २१ ॥
वाश्यन्ते
शकुनाश्चापि
प्रदीप्तामभितो
दिशम् ।
अपि
स्वस्ति
भवेत्तस्या
राजपुत्र्या
महाबल ॥ २२ ॥
इदं
हि
रक्षो
मृगसन्निकाशं
प्रलोभ्य
मां
दूरमनुप्रयान्तम् ।
हतं
कथञ्चिन्महता
श्रमेण
स
राक्षसोऽभून्म्रियमाण
एव ॥ २३ ॥
मनश्च
मे
दीनमिहाप्रहृष्टं
चक्षुश्च
सव्यं
कुरुते
विकारम् ।
असंशयं
लक्ष्मण
नास्ति
सीता
हृता
मृता
वा
पथि
वर्तते
वा ॥ २४ ॥