अथाश्रमादुपावृत्तमन्तरा
रघुनन्दनः ।
परिपप्रच्छ
सौमित्रिं
रामो
दुःखार्दितं
पुनः ॥ १ ॥
तमुवाच
किमर्थं
त्वमागतोऽपास्य
मैथिलीम् ।
यदा
सा
तव
विश्वासाद्वने
विरहिता
मया ॥ २ ॥
दृष्ट्वैवाभ्यागतं
त्वां
मे
मैथिलीं
त्यज्य
लक्ष्मण ।
शङ्कमानं
महत्पापं
यत्सत्यं
व्यथितं
मनः ॥ ३ ॥
स्फुरते
नयनं
सव्यं
बाहुश्च
हुदयं
च
मे ।
दृष्ट्वा
लक्ष्मण
दूरे
त्वां
सीताविरहितं
पथि ॥ ४ ॥
एवमुक्तस्तु
सौमित्रिर्लक्ष्मणः
शुभलक्ष्मणः ।
भूयो
दुःखसमाविष्टो
दुःखितं
राममब्रवीत् ॥ ५ ॥
न
स्वयं
कामकारेण
तां
त्यक्वाहमिहागतः ।
प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः ॥ ६ ॥
आर्येणेव
पराक्रुष्टं
हा
सीते
लक्ष्मणेति
च ।
परित्राहीति
यद्वाक्यं
मैथिल्यास्तच्छ्रुतिं
गतम् ॥ ७ ॥
सा
तमार्तस्वरं
श्रुत्वा
तव
स्नेहेन
मैथिली ।
गच्छ
गच्छेति
मामाह
रुदन्ती
भयविह्वला ॥ ८ ॥
प्रचोद्यमानेन
मया
गच्छेति
बहुशस्तया ।
प्रत्यक्ता
मैथिली
वाक्यमिदं
त्वत्प्रत्ययान्वितम् ॥ ९ ॥
न
तत्पश्याम्यहं
रक्षो
यदस्य
भयमावहेत् ।
निर्वृता
भव
नास्त्येतत्केनाप्येवमुदाहृतम् ॥ १० ॥
विगर्हितं
च
नीचं
च
कथमार्योऽभिधास्यति ।
त्राहीति
वचनं
सीते
यस्त्रायेत्त्रिदशानपि ॥ ११ ॥
किन्निमित्तं
तु
केनापि
भ्रातुरालम्ब्य
मे
स्वरम् ।
राक्षसेनेरितं
वाक्यं
त्राहि
त्राहीति
शोभने ॥ १२ ॥
विस्वरं
व्याहृतं
वाक्यं
लक्ष्मण
त्राहि
मामिति ।
न
भवत्या
व्यथा
कार्या
कुनारीजनसेविता ॥ १३ ॥
न
सोऽस्ति
त्रिषु
लोकेषु
पुमान्वै
राघवं
रणे ।
जातो
वा
जायमानो
वा
संयुगे
यः
पराजयेत् ॥ १४ ॥
न
जय्यो
राघवो
युद्धे
देवैः
शक्रपुरोगमैः ।
एवमुक्ता
तु
वैदेही
परिमोहितचेतना ॥ १५ ॥
उवाचाश्रूणि
मुञ्चन्ती
दारुणं
मामिदं
वचः ।
भावो
मयि
तावात्यर्थं
पाप
एव
निवेशितः ॥ १६ ॥
विनष्टे
भ्रातरि
प्राप्तुं
न
च
त्वं
मामवाप्स्यसि ।
सङ्केताद्भरतेन
त्वं
रामं
समनुगच्छसि ॥ १७ ॥
क्रोशन्तं
हि
यथात्यर्थं
नैवमभ्यवपद्यसे ।
रिपुः
प्रच्छन्नचारी
त्वं
मदर्थमनुगच्छसि ॥ १८ ॥
राघवस्यान्तरप्रेप्सुस्तथैनं
नाभिपद्यसे ।
एवमुक्तो
हि
वैदेह्या
संरब्धो
रक्तलोचनः ॥ १९ ॥
क्रोधात्प्रस्फुरमाणोष्ठ
आश्रमादभिनिर्गतः ।
एवं
ब्रुवाणं
सौमित्रिं
रामः
सन्तापमोहितः ॥ २० ॥
अब्रवीद्दुष्कृतं
सौम्य
तां
विना
यत्त्वमागतः ।
जानन्नपि
समर्थं
मां
रक्षसां
विनिवारणे ॥ २१ ॥
अनेन
क्रोधवाक्येन
मैथिल्या
निस्सृतो
भवान् ।
नहि
ते
परितुष्यामि
त्यक्त्वा
यद्यासि
मैथिलीम् ॥ २२ ॥
क्रुद्धायाः
परुषं
श्रुत्वा
स्त्रियाश्च
त्वमिहागतः ।
सर्वथा
त्वपनीतं
ते
सीतया
यत्प्रचोदितः ॥ २३ ॥
क्रोधस्य
वशमापन्नो
नाकरोः
शासनं
मम ।
असौ
हि
राक्षसः
शेते
शरेणाभिहतो
मया ॥ २४ ॥
मृगरूपेण
येनाहमाश्रमादपवाहितः ।
विकृष्य
चापं
परिधाय
सायकं
सलीलबाणेन
च
ताडितो
मया ॥ २५ ॥
मार्गीं
तनुं
त्यज्य
सविक्लवस्वरो
बभूव
केयूरधरः
स
राक्षसः ।
शराहतेनैव
तदार्तया
गिरा
स्वरं
ममालम्ब्य
सुदूरसंश्रवम् ॥ २६ ॥
उदाहृतं
तद्वचनं
सुदारुणं
त्वमागतो
येन
विहाय
मैथिलीम् ॥ २७ ॥