भृशमाव्रजमानस्य
तस्याधो
वामलोचनम् ।
प्रास्फुरच्चास्खलद्रामो
वेपथुश्चाप्यजायत् ॥ १ ॥
उपालक्ष्य
निमित्तानि
सोऽशुभानि
मुहुर्मुहुः ।
अपि
क्षेमं
नु
सीताया
इति
वै
व्याजहार
च ॥ २ ॥
त्वरमाणो
जगामाथ
सीतादर्शनलालसः ।
शून्यमावसथं
दृष्ट्वा
बभूवोद्विग्नमानसः ॥ ३ ॥
उद्भ्रमन्निव
वेगेन
विक्षिपन्
रघुनन्दनः ।
तत्र
तत्रोटजस्थानमभिवीक्ष्य
समन्ततः ॥ ४ ॥
ददर्श
पर्णशालां
च
रहितां
सीतया
तदा ।
श्रिया
विरहितां
ध्वस्तां
हेमन्ते
पद्मिनीमीव ॥ ५ ॥
रुदन्तमिव
वृक्षैश्च
म्लानपुष्पमृगद्विजम् ।
श्रिया
विहीनं
विध्वस्तं
सन्त्यक्तवनदेवतम् ॥ ६ ॥
विप्रकीर्णाजिनकुशं
विप्रविद्धबृसीकटम् ।
दृष्ट्वा
शून्यं
निजस्थानं
विललाप
पुनःपुनः ॥ ७ ॥
हृता
मृता
वा
नष्टा
वा
भक्षिता
वा
भविष्यति ।
निलीनाप्यथवा
भीरुरथवा
वनमाश्रिता ॥ ८ ॥
गता
विचेतुं
पुष्पाणि
फलान्यपि
च
वा
पुनः ।
अथवा
पद्मिनीं
याता
जलार्थं
वा
नदीं
गता ॥ ९ ॥
यत्नान्मृगयमाणस्तु
नाससाद
वने
प्रियाम् ।
शोकरक्तेक्षणः
शोकादुन्मत्त
इव
लक्ष्यते ॥ १० ॥
वृक्षाद्वृक्षं
प्रधावन्
स
गिरेश्चाद्रिं
नदान्नदीम् ।
बभूव
विलपन्
रामः
शोकपङ्कार्णवाप्लुतः ॥ ११ ॥
अपि
कच्चित्त्वया
दृष्टा
सा
कदम्बप्रिया
प्रिया ।
कदम्ब
यदि
जानीषे
शंस
सीतां
शुभाननाम् ॥ १२ ॥
स्निग्धपल्लवसङ्काशा
पीतकौशेयवासिनी ।
शंसस्व
यदि
वा
दृष्टा
बिल्व
बिल्वोपमस्तनी ॥ १३ ॥
अथवाऽर्जुन
शंस
त्वं
प्रियां
तामर्जुनप्रियाम् ।
जनकस्य
सुता
भीरुर्यदि
जीवति
वा
न
वा ॥ १४ ॥
ककुभः
ककुभोरूं
तां
व्यक्तं
जानाति
मैथिलीम् ।
यथा
पल्लवपुष्पाढयो
भाति
ह्येष
वनस्पतिः ॥ १५ ॥
भ्रमरैरुपगीतश्च
यथा
द्रुमवरो
ह्यम् ।
एष
व्यक्तं
विजानाति
तिलकस्तिलकप्रियाम् ॥ १६ ॥
अशोक
शोकापनुद
शोकोपहतचेतसम् ।
त्वन्नामानं
कुरु
क्षिप्रं
प्रियासन्दर्शनेन
माम् ॥ १७ ॥
यदि
ताल
त्वया
दृष्टा
पक्वतालफलस्तनी ।
कथयस्व
वरारोहां
कारुण्यं
यदि
ते
मयि ॥ १८ ॥
यदि
दृष्टा
त्वया
सीता
जम्बु
जम्बुफलोपमाम् ।
प्रियां
यदि
विजानीषे
निःशङ्कं
कथयस्व
मे ॥ १९ ॥
अहो
त्वं
कर्णिकाराद्य
सुपुष्पैः
शोभसे
भृशम् ।
कर्णिकारप्रिया
साध्वी
शंस
दृष्टा
प्रिया
यदि ॥ २० ॥
चूतनीपमहासालान्
पनसान्
कुरवान्
धवान् ।
दाडिमानसनान्
गत्वा
दृष्ट्वा
रामो
महायशाः ॥ २१ ॥
मल्लिका
माधवीश्चैव
चम्पकान्
केतकीस्तस्था ।
पृच्छन्
रामो
वने
भ्रान्त
उन्मत्त
इव
लक्ष्यते ॥ २२ ॥
अथवा
मृगशावाक्षीं
मृग
जानासि
मैथिलीम् ।
मृगविप्रेक्षणी
कान्ता
मृगीभिः
सहिता
भवेत् ॥ २३ ॥
गज
सा
गजनासोरूर्यदि
दृष्टा
त्वया
भवेत् ।
तां
मन्ये
विदितां
तुभ्यमाख्याहि
वरवारण ॥ २४ ॥
शार्दूल
यदि
सा
दृष्टा
प्रिया
चन्द्रनिभानना ।
मैथिली
मम
विस्रब्धं
कथयस्व
न
ते
भयम् ॥ २५ ॥
किं
धावसि
प्रिये
दूरं
दृष्टाऽसि
कमलेक्षणे ।
वृक्षैराच्छाद्य
चात्मानं
किं
मां
न
प्रतिभाषसे ॥ २६ ॥
तिष्ठ
तिष्ठ
वरारोहे
न
तेऽस्ति
करुणा
मयि ।
नात्यर्थं
हास्यशीलाऽसि
किमर्थं
मामुपेक्षसे ॥ २७ ॥
पीतकौशेयकेनासि
सूचिता
वरवर्णिनि ।
धावन्त्यपि
मया
दृष्टा
तिष्ठ
यद्यस्ति
सौहृदम् ॥ २८ ॥
नैव
सा
नूनमथवा
हिंसिता
चारुहासिनी ।
कृच्छ्रं
प्राप्तं
न
मां
नूनं
यथोपेक्षितुमर्हति ॥ २९ ॥
व्यक्तं
सा
भक्षिता
बाला
राक्षसैः
पिशिताशनैः ।
विभज्याङ्गानि
सर्वाणि
मया
विरहिता
प्रिया ॥ ३० ॥
नूनं
तच्छुभदन्तोष्ठं
सुनासं
चारुकुण्डलम् ।
पूर्णचन्द्रमिव
ग्रस्तं
मुखं
निष्प्रभतां
गतम् ॥ ३१ ॥
सा
हि
चम्पकवर्णाभा
ग्रीवा
ग्रैवेयशोभिता ।
कोमला
विलपन्त्यास्तु
कान्ताया
भक्षिता
शुभा ॥ ३२ ॥
नूनं
विक्षिप्यमाणौ
तौ
बाहू
पल्लवकोमलौ ।
भक्षितौ
वेपमानाग्रौ
सहस्ताभरणाङ्गदौ ॥ ३३ ॥
मया
विरहिता
बाला
रक्षसां
भक्षणाय
वै ।
सार्थेनेव
परित्यक्ता
भक्षिता
बहुबान्धवा ॥ ३४ ॥
हा
लक्ष्मण
महाबाहो
पश्यसि
त्वं
प्रियां
क्वचित् ।
हा
प्रिये
क्व
गता
भद्रे
हा
सीतेति
पुनःपुनः ॥ ३५ ॥
क्वचिदुद्भ्रमते
वेगात्
क्वचिद्विभ्रमते
बलात् ।
क्वचिन्मत्त
इवाभाति
कान्तान्वेषणतत्परः ॥ ३६ ॥
स
वनानि
नदीः
शैलान्
गिरिप्रस्रवणानि
च ।
काननानि
च
वेगेन
भ्रमत्यपरिसंस्थितः ॥ ३७ ॥
तथा
स
गत्वा
विपुलं
महद्वनं
परीत्य
सर्वं
त्वथ
मैथिलीं
प्रति ।
अनिष्ठिताशः
स
चकार
मार्गणे
पुनः
प्रियायाः
परमं
परिश्रमम् ॥ ३८ ॥