दृष्ट्वाऽऽश्रमपदं
शून्यं
रामो
दशरथात्मजः ।
रहितां
पर्णशालां
च
विध्वस्तान्यासनानि
च ॥ १ ॥
अदृष्ट्वा
तत्र
वैदेहीं
सन्निरीक्ष्य
च
सर्वशः ।
उवाच
रामः
प्राक्रुश्य
प्रगृह्य
रुचिरौ
भुजौ ॥ २ ॥
क्व
नु
लक्ष्मण
वैदेही
कं
वा
देशमितो
गता ।
केनाहृता
वा
सौमित्रे
भक्षिता
केन
वा
प्रिया ॥ ३ ॥
वृक्षेणाच्छाद्य
यदि
मां
सीते
हसितुमिच्छसि ।
अलं
ते
हसितेनाद्य
मां
भजस्व
सुदुःखितम् ॥ ४ ॥
एते
हीनास्त्वाया
सौम्ये
ध्यायन्त्यास्राविलेक्षणाः ।
सीतया
रहितोऽहं
वै
नहि
जीवामि
लक्ष्मण ॥ ५ ॥
मृतं
शोकेन
महता
सीताहरणजेन
माम् ।
परलोके
महाराजो
नूनं
द्रक्ष्यति
मे
पिता ॥ ६ ॥
कथं
प्रतिज्ञां
संश्रुत्य
मया
त्वमभियोजितः ।
अपूरयित्वा
तं
कालं
मत्सकाशमिहागतः ॥ ७ ॥
कामवृत्तमनार्यं
मां
मृषावादिनमेव
च ।
धिक्त्वामिति
परे
लोके
व्यक्तं
वक्ष्यति
मे
पिता ॥ ८ ॥
विवशं
शोकसन्तप्तं
दीनं
भग्नमनोरथम् ।
मामिहोत्सृज्य
करुणं
कीर्तिर्नरमिवानृजुम् ॥ ९ ॥
क्व
गच्छसि
वरारोहे
मां
नोत्सृज
सुमध्यमे ।
त्वया
विरहितश्चाहं
मोक्ष्ये
जीवितमात्मनः ॥ १० ॥
इतीव
विलपन्
रामः
सीतादर्शनलालसः ।
न
ददर्श
सुदुःखार्तो
राघवो
जनकात्मजाम् ॥ ११ ॥
अनासादयमानं
तं
सीतां
दशराथात्मजम् ।
पङ्कमासाद्य
विपुलं
सीदन्तमिव
कुञ्जरम् ॥ १२ ॥
लक्ष्मणो
राममत्यर्थमुवाच
हितकाम्यया ।
मा
विषादं
महाबाहो
कुरु
यत्नं
मया
सह ॥ १३ ॥
इदं
च
हि
वनं
शूर
बहुकन्दरशोभितम् ।
प्रियकाननसञ्चारा
वनोन्मत्ता
च
मैथिली ॥ १४ ॥
सा
वनं
वा
प्रविष्टा
स्यान्नलिनीं
वा
सुपुष्पिताम् ।
सरितं
वापि
सम्प्राप्ता
मीनवञ्जुलसेविताम् ॥ १५ ॥
स्नातुकामा
निलीना
स्याद्धासकामा
वने
क्वचित् ।
जिज्ञासमाना
वैदेही
त्वां
मां
च
पुरुषर्षभ ॥ १६ ॥
तस्या
ह्यन्वेषणे
श्रीमन्
क्षिप्रमेव
यतावहै ।
वनं
सर्वं
विचिनुवो
यत्र
सा
जनकात्मजा ॥ १७ ॥
मन्यसे
यदि
काकुत्स्थ
मा
स्म
शोके
मनः
कृथाः ।
एवमुक्तस्तु
सौहार्दाल्लक्ष्मणेन
समाहितः ॥ १८ ॥
सह
सौमित्रिणा
रामो
विचेतुमुपचक्रमे ।
तौ
वनानि
गिरींश्चैव
सरितश्च
सरांसि
च ॥ १९ ॥
निखिलेन
विचिन्वानौ
सीतां
दशरथात्मजौ ।
तस्य
शैलस्य
सानूनि
गुहाश्च
शिखराणि
च ॥ २० ॥
निखिलेन
विचिन्वानौ
नैव
तामभिजग्मतुः ।
विचित्य
सर्वतः
शैलं
रामो
लक्ष्मणमब्रवीत् ॥ २१ ॥
नेह
पश्यामि
सौमित्रे
वैदेहीं
पर्वते
शुभाम् ।
ततो
दुःखाभिसन्तप्तो
लक्ष्मणो
वाक्यमब्रवीत् ॥ २२ ॥
विचरन्
दण्डकारण्यं
भ्रातरं
दीप्ततेजसम् ।
प्राप्स्यसि
त्वं
महाप्राज्ञ
मैथिलीं
जनकात्मजाम् ॥ २३ ॥
यथा
विष्णुर्महाबाहुर्बलिं
बध्वा
महीमिमाम् ।
एवमुक्तस्तु
सौहार्दाल्लक्ष्मणेन
स
राघवः ॥ २४ ॥
उवाच
दीनया
वाचा
दुःखाभिहतचेतनः ।
वनं
सर्वं
सुविचितं
पद्मिन्यः
फुल्लपङ्कजाः ॥ २५ ॥
गिरिश्चायं
महाप्राज्ञ
बहुकन्दरनिर्झरः ।
नहि
पश्यामि
वैदेहीं
प्राणेभ्योऽपि
गरीयसीम् ॥ २६ ॥
एवं
स
विलपन्
रामः
सीताहरणकर्शितः ।
दीनशोकसमाविष्टो
मुहूर्तं
विह्वलोऽभवत् ॥ २७ ॥
सन्तप्तो
ह्यवसन्नाङ्गो
गतबुद्धिर्विचेतनः ।
निषसादातुरो
दीनो
निःश्वस्याशीतमायतम् ॥ २८ ॥
बहुलं
स
तु
निःश्वस्य
रामो
राजीवलोचनः ।
हा
प्रियेति
विचुक्रोश
बहुशो
बाष्पगद्गदः ॥ २९ ॥
तं
ततः
सान्त्वयामास
लक्ष्मणः
प्रियबान्धवः ।
बहुप्रकारं
धर्मज्ञः
प्रश्रितं
प्रश्रिताञ्जलिः ॥ ३० ॥
अनादृत्य
तु
तद्वाक्यं
लक्ष्मणोष्ठपुटाच्च्युतम् ।
अपश्यंस्तां
प्रियां
सीतां
प्राक्रोशत्
स
पुनःपुनः ॥ ३१ ॥