स
राजपुत्रः
प्रियया
विहीनः
कामेन
शोकेन
च
पीड्यमानः ।
विषादयन्
भ्रातरमार्तरूपो
भूयो
विषादं
प्रविवेष
तीव्रम् ॥ १ ॥
स
लक्ष्मणं
शोकवशाभिपन्नं
शोके
निमग्रो
विपुले
तु
रामः ।
उवाच
वाक्यं
व्यसनानुरूपमुष्णं
विनिःश्वस्य
रुदन्
सशोकम् ॥ २ ॥
न
मद्विधो
दुष्कृतकर्मकारी
मन्ये
द्वितीयोऽस्ति
वसुन्धरायाम् ।
शोकेन
शोको
हि
परम्पराया
मामेति
भिन्दन्
हृदयं
मनश्च ॥ ३ ॥
पूर्वं
मया
नूनमभीप्सितानि
पापानि
कर्माण्यसकृत्कृतानि ।
तत्रायमद्यापतितो
विपाको
दुःखेन
दुःखं
यदहं
विशामि ॥ ४ ॥
राज्यप्रणाशः
स्वजनैर्वियोगः
पितुर्विनाशो
जननी
वियोगः ।
सर्वाणि
मे
लक्ष्मण
शोकवेगमापूरयन्ति
प्रविचिन्तितानि ॥ ५ ॥
सर्वं
तु
दुःखं
मम
लक्ष्मणेदं
शान्तं
शरीरे
वनमेत्य
शून्यम् ।
सीतावियोगात्
पुनरप्युदीर्णं
काष्ठैरिवाग्निः
सहसा
प्रदीप्तः ॥ ६ ॥
सा
नूनमार्या
मम
राक्षसेन
बलाद्धृता
खं
समुपेत्य
भीरुः ।
अपस्वरं
सस्वरविप्रलापा
भयेन
विक्रन्दितवत्यभीक्ष्णम् ॥ ७ ॥
तौ
लोहितस्य
प्रियदर्शनस्य
सदोचितावुत्तमचन्दनस्य ।
वृत्तौ
स्तनौ
शोणितपङ्कदिग्धौ
नूनं
प्रियाया
मम
नाभिभातः ॥ ८ ॥
तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं
तस्या
मुखं
कुञ्चितकेशभारम् ।
रक्षोवशं
नूनमुपागताया
न
भ्राजते
राहुमुखे
यथेन्दुः ॥ ९ ॥
तां
हारपाशस्य
सदोचिताया
ग्रीवां
प्रियाया
मम
सुव्रतायाः ।
रक्षांसि
नूनं
परिपीतवन्ति
विभिद्य
शून्ये
रुधिराशनानि ॥ १० ॥
मया
विहीना
विजने
वने
या
रक्षोभिराहृत्य
विकृष्यमाणा ।
नूनं
विनादं
कुररीव
दीना
सा
मुक्तवत्यायतकान्तनेत्रा ॥ ११ ॥
अस्मिन्
मया
सार्धमुदारशीला
शिलातले
पूर्वमुपोपविष्टा ।
कान्तस्मिता
लक्ष्मण
जातहासा
त्वामाह
सीता
बहुवाक्यजातम् ॥ १२ ॥
गोदावरीयं
सरितां
वरिष्ठा
प्रिया
प्रियाया
मम
नित्यकालम् ।
अप्यत्र
गच्छेदिति
चिन्तयामि
नैकाकिनी
यति
हि
सा
कदाचित् ॥ १३ ॥
पद्मानना
पद्मविशालनेत्रा
पद्मानि
वानेतुमभिप्रयाता ।
तदप्ययुक्तं
नहि
सा
कदाचिन्मया
विना
गच्छति
पङ्कजानि ॥ १४ ॥
कामं
त्विदं
पुष्पितवृक्षषण्डं
नानाविधैः
पक्षिगणैरुपेतम् ।
वनं
प्रयाता
नु
तदप्ययुक्तमेकाकिनी
साति
बिभेति
भीरुः ॥ १५ ॥
आदित्य
भो
लोककृताकृतज्ञ
लोकस्य
सत्यानृतकर्मसाक्षिन् ।
मम
प्रिया
सा
क्व
गता
हृता
वा
शंसस्व
मे
शोकवशस्य
नित्यम् ॥ १६ ॥
लोकेषु
सर्वेषु
च
नास्ति
किञ्चिद्यत्ते
न
नित्यं
विदितं
भवेत्तत् ।
शंसस्व
वायो
कुलशालिनीं
तां
हृता
मृता
वा
पथि
वर्तते
वा ॥ १७ ॥
इतीव
तं
शोकविधेयदेहं
रामं
विसञ्ज्ञं
विलपन्तमेवम् ।
उवाच
सौमित्रिरदीनसत्त्वो
न्याये
स्थितः
कालयुतं
च
वाक्यम् ॥ १८ ॥
शोकं
विमुञ्चार्य
धृतिं
भजस्व
सोत्साहता
चास्तु
विमार्गणेऽस्याः ।
उत्साहवन्तो
हि
नरा
न
लोके
सीदन्ति
कर्मस्वतिदुष्करेषु ॥ १९ ॥
इतीव
सौमित्रिमुदग्रपौरुषं
ब्रुवन्तमार्तो
रघुवंशवर्धनः ।
न
चिन्तयामास
धृतिं
विमुक्तवान्
पुनश्च
दुःखं
महदभ्युपागमत् ॥ २० ॥