शीघ्रं
लक्ष्मण
जानीहि
गत्वा
गोदावरीं
नदीम् ।
अपि
गोदावरीं
सीता
पद्मान्यानयितुं
गता ॥ १ ॥
एवमुक्तस्तु
रामेण
लक्ष्मणः
परवीरहा ।
नदीं
गोदावरीं
रम्यां
जगाम
लघु
विक्रमः ॥ २ ॥
तां
लक्ष्मणस्तीर्थवतीं
विचित्वा
राममब्रवीत् ।
नैनां
पश्यामि
तीर्थेषु
क्रोशतो
न
शृणोति
मे ॥ ३ ॥
कं
नु
सा
देशमापन्ना
वैदेही
क्लेशनाशिनी ।
न
ह्यहं
वेद
तं
देशं
यत्र
सा
जनकात्मजा ॥ ४ ॥
लक्ष्मणस्य
वचः
श्रुत्वा
दीनः
सन्तापमोहितः ।
रामः
समभिचक्राम
स्वयं
गोदावरीं
नदीम् ॥ ५ ॥
स
तामुपस्थितो
रामः
क्व
सीतेत्येवमब्रवीत् ।
भूतानि
राक्षसेन्द्रेण
वधार्हेण
हृतामिति ॥ ६ ॥
न
तां
शशंसू
रामाय
तथा
गोदावरी
नदी ।
ततः
प्रचोदिता
भूतैः
शंसास्मत्तां
प्रियामिति ॥ ७ ॥
न
तु
साभ्यवदत्सीतां
पृष्टा
रामेण
शोचता ।
रावणस्य
च
तद्रूपं
कर्माणि
च
दुरात्मनः ॥ ८ ॥
ध्यात्वा
भयात्तु
वैदेहीं
सा
नदी
न
शशंस
ताम् ।
निराशस्तु
तया
नद्या
सीताया
दर्शने
कृतः ॥ ९ ॥
उवाच
रामः
सौमित्रिं
सीतादर्शनकर्शितः ।
किन्नु
लक्ष्मण
वक्ष्यामि
समेत्य
जनकं
वचः ॥ १० ॥
मातरं
चैव
वैदेह्या
विना
तामहमप्रियम् ।
या
मे
राज्यविहीनस्य
वने
वन्येन
जीवतः ॥ ११ ॥
सर्वं
व्यपनयेच्छोकं
वैदेही
क्वनु
सा
गता ।
ज्ञातिपक्षविहीनस्य
राजपुत्रीमपश्यतः ॥ १२ ॥
मन्ये
दीर्घा
भविष्यन्ति
रात्रयो
मम
जाग्रतः ।
मन्दाकिनीं
जनस्थानमिमं
प्रस्रवणं
गिरिम् ॥ १३ ॥
सर्वाण्यनुचरिष्यामि
यदि
सीता
हि
दृश्यते ।
एते
मृगा
महावीर्या
मामीक्षन्ते
मुहुर्मुहुः ॥ १४ ॥
वक्तुकामा
इव
हि
मे
इङ्गितान्युपलक्षये ।
तांस्तु
दृष्ट्वा
नरव्याघ्रो
राघवः
प्रत्युवाच
ह ॥ १५ ॥
क्व
सीतेति
निरीक्षन्
वै
बाष्पसंरुद्धया
दृशा ।
एवमुक्ता
नरेन्द्रेण
ते
मृगाः
सहसोत्थिताः ॥ १६ ॥
दक्षिणाभिमुखाः
सर्वे
दर्शयन्तो
नभःस्थलम् ।
मैथिली
ह्रियमाणा
सा
दिशं
यामन्वपद्यत ॥ १७ ॥
तेन
मार्गेण
धावन्तो
निरीक्षन्ते
नराधिपम् ।
येन
मार्गं
च
भूमिं
च
निरीक्षन्ते
स्म
ते
मृगाः ॥ १८ ॥
पुनश्च
मार्गमिच्छन्ति
लक्ष्मणेनोपलक्षिताः ।
तेषां
वचनसर्वस्वं
लक्षयामास
चेङ्गितम् ॥ १९ ॥
उवाच
लक्ष्मणो
ज्येष्ठं
धीमान्
भ्रातरमार्तवत् ।
क्व
सीतेति
त्वया
पृष्टा
यथेमे
सहसोत्थिताः ॥ २० ॥
दर्शयन्ति
क्षितिं
चैव
दक्षिणां
च
दिशं
मृगाः ।
साधु
गच्छावहै
देव
दिशमेतां
हि
नैर्ऋतिम् ॥ २१ ॥
यदि
स्यादागमः
कश्चिदार्या
वा
साथ
लक्ष्यते ।
बाढमित्येव
काकुत्स्थः
प्रस्थितो
दक्षिणां
दिशम् ॥ २२ ॥
लक्ष्मणानुगतः
श्रीमान्
वीक्षमाणो
वसुन्धराम् ।
एवं
सम्भाषमाणौ
तावन्योन्यं
भ्रातरावुभौ ॥ २३ ॥
वसुन्धरायां
पतितं
पुष्पमार्गमपश्यताम् ।
तां
पुष्पवृष्टिं
पतितां
दृष्ट्वा
रामो
महीतले ॥ २४ ॥
उवाच
लक्ष्मणं
वीरो
दुःखितो
दुःखितं
वचः ।
अभिजानामि
पुष्पाणि
तानीमानीह
लक्ष्मण ॥ २५ ॥
पिनद्धानीह
वैदेह्या
मया
दत्तानि
कानने ।
मन्ये
सूर्यश्च
वायुश्च
मेदिनी
च
यशस्विनी ॥ २६ ॥
अभिरक्षन्ति
पुष्पाणि
प्रकुर्वन्तो
मम
प्रियम् ।
एवमुक्त्वा
महाबाहुं
लक्ष्मणं
पुरुषर्षभः ॥ २७ ॥
उवाच
रामो
धर्मात्मा
गिरिं
प्रस्रवणाकुलम् ।
कच्चित्क्षितिभृतां
नाथ
दृष्टा
सर्वाङ्गसुन्दरी ॥ २८ ॥
रामा
रम्ये
वनोद्देशे
मया
विरहिता
त्वया ।
क्रुद्धोऽब्रवीद्गिरिं
तत्र
सिंहः
क्षुद्रमृगं
यथा ॥ २९ ॥
तां
हेमवर्णां
हेमाभां
सीतां
दर्शय
पर्वत ।
यावत्सानूनि
सर्वाणि
न
ते
विध्वंसयाम्यहम् ॥ ३० ॥
एवमुक्तस्तु
रामेण
पर्वतो
मैथिलीं
प्रति ।
शंसन्निव
ततः
सीतां
नादर्शयत
राघवे ॥ ३१ ॥
ततो
दाशरथी
राम
उवाच
च
शिलोच्चयम् ।
मम
बाणाग्निनिर्दग्धो
भस्मीभूतो
भविष्यसि ॥ ३२ ॥
असेव्यः
सन्ततं
चैव
निस्तृणद्रुमपल्लवः ।
इमां
वा
सरितं
चाद्य
शोषयिष्यामि
लक्ष्मण ॥ ३३ ॥
यदि
नाख्याति
मे
सीतामार्यां
चन्द्रनिभाननाम् ।
एवं
स
रुषितो
रामो
दिधक्षन्निव
चक्षुषा ॥ ३४ ॥
ददर्श
भूमौ
निष्क्रान्तं
राक्षसस्य
पदं
महत् ।
त्रस्ताया
रामकाङ्क्षिण्याः
प्रधावन्त्या
इतस्ततः ॥ ३५ ॥
राक्षसेनानुवृत्ताया
मैथिल्याश्च
पदान्यथ ।
भग्नं
धनुश्च
तूणी
च
विकीर्णं
बहुधा
रथम् ॥ ३६ ॥
सम्भ्रान्तहृदयो
रामः
शशंस
भ्रातरं
प्रियम् ।
पश्य
लक्ष्मण
वैदेह्याः
शीर्णाः
कनकबिन्दवः ॥ ३७ ॥
भूषणानां
हि
सौमित्रे
माल्यानि
विविधानि
च ।
तप्तबिन्दुनिकाशैश्च
चित्रैः
क्षतजबिन्दुभिः ॥ ३८ ॥
आवृतं
पश्य
सौमित्रे
सर्वतो
धरणीतलम् ।
मन्ये
लक्ष्मण
वैदेही
राक्षसैः
कामरूपिभिः ॥ ३९ ॥
भित्त्वा
भित्त्वा
विभक्ता
वा
भक्षिता
वा
भविष्यति ।
तस्या
निमित्तं
वैहेह्या
द्वयोर्विवदमानयोः ॥ ४० ॥
बभूव
युद्धं
सौमित्रे
घोरं
राक्षसयोरिह ।
मुक्तामणिमयं
चेदं
तपनीयविभूषितम् ॥ ४१ ॥
धरण्यां
पतितं
सौम्य
कस्य
भग्नं
महद्धनुः ।
तरुणादित्यसङ्काशं
वैडूर्यगुलिकाचितम् ॥ ४२ ॥
विशीर्णं
पतितं
भूमौ
कवचं
कस्य
काञ्चनम् ।
छत्त्रं
शतशलाकं
च
दिव्यमाल्योपशोभितम् ॥ ४३ ॥
भग्नदण्डमिदं
कस्य
भूमौ
सम्यङ्निपातितम् ।
काञ्चनोरश्छदाश्चेमे
पिशाचवदनाः
खराः ॥ ४४ ॥
भीमरूपा
महाकायाः
कस्य
वा
निहता
रणे ।
दीप्तपावकसङ्काशो
द्युतिमान्
समरध्वजः ॥ ४५ ॥
अपविद्धश्च
भग्नश्च
कस्य
साङ्ग्रामिको
रथः ।
रथाक्षमात्रा
विशिखास्तपनीयविभूषणाः ॥ ४६ ॥
कस्येमेऽभिहता
बाणाः
प्रकीर्णा
घोरकर्मणः ।
शरावरै
शरैः
पूर्णौ
विध्वस्तौ
पश्य
लक्ष्मण ॥ ४७ ॥
प्रतोदाभीषुहस्तो
वै
कस्यायं
सारथिर्हतः ।
कस्येमौ
पुरुषव्याघ्र
शयाते
निहतौ
युधि ॥ ४८ ॥
चामरग्राहिणौ
सौम्य
सोष्णीषमणिकुण्डलौ ।
पदवी
पुरुषस्यैषा
व्यक्तं
कस्यापि
रक्षसः ॥ ४९ ॥
वैरं
शतगुणं
पश्य
ममेदं
जीवितान्तकम् ।
सुघोरहृदयैः
सौम्य
राक्षसैः
कामरूपिभिः ॥ ५० ॥
हृता
मृता
वा
सीता
सा
भक्षिता
वा
तपस्विनी ।
न
धर्मस्त्रायते
सीतां
ह्रियमाणां
महावने ॥ ५१ ॥
भक्षितायां
हि
वैदेह्यां
हृतायामपि
लक्ष्मण ।
के
हि
लोकेऽप्रियं
कर्तुं
शक्ताः
सौम्य
ममेश्वराः ॥ ५२ ॥
कर्तारमपि
लोकानां
शूरं
करुणवेदिनम् ।
अज्ञानादवमन्येरन्
सर्वभूतानि
लक्ष्मण ॥ ५३ ॥
मृदुं
लोकहिते
युक्तं
दान्तं
करुणवेदिनम् ।
निर्वीर्य
इति
मन्यन्ते
नूनं
मां
त्रिदशेश्वराः ॥ ५४ ॥
मां
प्राप्य
हि
गुणो
दोषः
संवृत्तः
पश्य
लक्ष्मण ।
अद्यैव
सर्वभूतानां
रक्षसामभवाय
च ॥ ५५ ॥
संहृत्यैव
शशिज्योत्स्नां
महान्
सूर्य
इवोदितः ।
संहृत्यैव
गुणान्
सर्वान्
मम
तेजः
प्रकाशते ॥ ५६ ॥
नैव
यक्षा
न
गन्धर्वा
न
पिशाचा
न
राक्षसाः ।
किन्नरा
वा
मनुष्या
वा
सुखं
प्राप्स्यन्ति
लक्ष्मण ॥ ५७ ॥
ममास्त्रबाणसम्पूर्णमाकाशं
पश्य
लक्ष्मण ।
निस्सम्पातं
करिष्यामि
ह्यद्य
त्रेलोक्यचारिणाम् ॥ ५८ ॥
सन्निरुद्धग्रहणमावारितनिशाकरम् ।
विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ॥ ५९ ॥
ध्वस्तद्रुमलतागुल्मं
विप्रणाशितसागरम् ।
त्रैलोक्यं
तु
करिष्यामि
संयुक्तं
कालधर्मणा ॥ ६० ॥
न
तां
कुशलिनीं
सीतां
प्रदास्यन्ति
ममेश्वराः ।
अस्मिन्
मुहूर्ते
सौमित्रे
मम
द्रक्ष्यन्ति
विक्रमम् ॥ ६१ ॥
नाकाशमुत्पतिष्यन्ति
सर्वभूतानि
लक्ष्मण ।
मम
चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम् ॥ ६२ ॥
अर्दितं
मम
नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् ।
समाकुलममर्यादं
जगत्
पश्याद्य
लक्ष्मण ॥ ६३ ॥
आकर्णपूर्णैरिषुभिर्जीवलोकं
दुरावरैः ।
करिष्ये
मैथिलीहेतोरपिशाचमराक्षसम् ॥ ६४ ॥
मम
रोषप्रयुक्तानां
सायकानां
बलं
सुराः ।
द्रक्ष्यन्त्यद्य
विमुक्तानामतिदूरातिगामिनाम् ॥ ६५ ॥
नैव
देवा
न
दैतेया
न
पिशाचा
न
राक्षसाः ।
भविष्यन्ति
मम
क्रोधात्त्रैलोक्ये
विप्रणाशिते ॥ ६६ ॥
देवदानवयक्षाणां
लोका
ये
रक्षसामपि ।
बहुधा
न
भविष्यन्ति
बाणौघैः
शकलीकृताः ॥ ६७ ॥
निर्मर्यादानिमाँल्लोकान्
करिष्याम्यद्य
सायकैः ।
हृतां
मृतां
वा
सौमित्रे
न
दास्यन्ति
ममेश्वराः ॥ ६८ ॥
तथारूपां
हि
वैदेहीं
न
दास्यन्ति
यदि
प्रियाम् ।
नाशयामि
जगत्सर्वं
त्रैलोक्यं
सचराचरम् ॥ ६९ ॥
इत्युक्त्वा
रोषताम्राक्षो
रामो
निष्पीड्य
कार्मुकम् ।
शरमादाय
सन्दीप्तं
घोरमाशीविषोपमम् ॥ ७० ॥
सन्धाय
धनुषि
श्रीमान्
रामः
परपुरञ्जयः ।
युगान्ताग्निरिव
क्रुद्ध
इदं
वचनमब्रवीत् ॥ ७१ ॥
नित्यं
न
प्रतिहन्यन्ते
सर्वभूतेषु
लक्ष्मण ।
तथाहं
क्रोधसंयुक्तो
न
निवार्योऽस्मि
सर्वथा ॥ ७२ ॥
पुरेव
मे
चारुदतीमनिन्दितां
दिशन्ति
सीतां
यदि
नाद्य
मैथिलीम् ।
सदेवगन्धर्वमनुष्यपन्नगं
जगत्
सशैलं
परिवर्तयाम्यहम् ॥ ७३ ॥