कृत्वैवमुदकं
तस्मै
प्रस्थितौ
रामलक्ष्मणौ ।
अवेक्षन्तौ
वने
सीतां
पश्चिमां
जग्मतुर्दिशम् ॥ १ ॥
तौ
दिशं
दक्षिणां
गत्वा
शरचापासिधारिणौ ।
अविप्रहतमैक्ष्वाकौ
पन्थानं
प्रतिपेदतुः ॥ २ ॥
गुल्मैर्वृक्षैश्च
बहुभिर्लताभिश्च
प्रवेष्टितम् ।
आवृतं
सर्वतो
दुर्गं
गहनं
घोरदर्शनम् ॥ ३ ॥
व्यतिक्रम्य
तु
वेगेन
व्यालसिंहनिषेवितम् ।
सुभीमं
तन्महारण्यं
व्यतियातौ
महाबलौ ॥ ४ ॥
ततः
परं
जनस्थानात्
त्रिक्रोशं
गम्य
राघवौ ।
क्रौञ्चारण्यं
विविशतुर्गहनं
तौ
महौजसौ ॥ ५ ॥
नानामेघघनप्रख्यं
प्रहृष्टमिव
सर्वतः ।
नानापक्षिगणैर्जुष्टं
नानाव्यालमृगैर्युतम् ॥ ६ ॥
दिदृक्षमाणौ
वैहेहीं
तद्वनं
तौ
विचिक्यतुः ।
तत्र
तत्रावतिष्ठन्तौ
सीताहरणकर्शितौ ॥ ७ ॥
ततः
पूर्वेण
तौ
गत्वा
त्रिक्रोशं
भ्रातरौ
तदा ।
क्रोञ्चारण्यमतिक्रम्य
मतङ्गाश्रममन्तरे ॥ ८ ॥
दृष्ट्वा
तु
तद्वनं
घोरं
बहुभीममृगद्विजम् ।
नानासत्त्वसमाकीर्णं
सर्वं
गहनपादपम् ॥ ९ ॥
ददृशाते
तु
तौ
तत्र
दरीं
दशरथत्मजौ ।
पातालसमगम्भीरां
तमसा
नित्यसंवृताम् ॥ १० ॥
आसाद्य
तौ
नरव्याघ्रौ
दर्यास्तस्याविदूरतः ।
ददृशाते
महारूपां
राक्षसीं
विकृताननाम् ॥ ११ ॥
भयदामल्पसत्त्वानां
बीभत्सां
सौद्रदर्शनाम् ।
लम्बोदरीं
तीक्ष्णदंष्ट्रां
करालां
परुषत्वचम् ॥ १२ ॥
भक्षयन्तीं
मृगान्
भीमान्
विकटां
मुक्तमूर्धजाम् ।
प्रैक्षेतां
तौ
ततस्तत्र
भ्रातरौ
रामलक्ष्मणौ ॥ १३ ॥
सा
समासाद्य
तौ
वीरौ
व्रजन्तं
भ्रातुरग्रतः ।
एहि
रंस्यावहेत्युक्त्वा
समालम्बत
लक्ष्मणम् ॥ १४ ॥
उवाच
चैनं
वचनं
सौमित्रिमुपगुह्य
सा ।
नाथ
पर्वतकूटेषु
नदीनां
पुलिनेषु
च ॥ १५ ॥
आयुःशेषमिमं
वीर
त्वं
मया
सह
रंस्यसे ।
एवमुक्तस्तु
कुपितः
खड्गमुद्धृत्य
लक्ष्मणः ॥ १६ ॥
कर्णनासौ
स्तनौ
चास्या
निचकर्तारिसूदनः ।
कर्णनासे
निकृत्ते
तु
विस्वरं
सा
विनद्य
च ॥ १७ ॥
यथागतं
प्रदुद्राव
राक्षसी
भीमदर्शना ।
तस्यां
गतायां
गहनं
विशन्तौ
वनमोजसा ॥ १८ ॥
आसेदतुरमित्रघ्नौ
भ्रातरौ
रामलक्ष्मणौ ।
लक्ष्मणस्तु
महातेजाः
सत्त्ववाञ्छीलवाञ्छुचिः ॥ १९ ॥
अब्रवीत्प्राञ्जलिर्वाक्यं
भ्रातरं
दीप्ततेजसम् ।
स्पन्दते
मे
दृढं
बाहुरुद्विग्नमिव
मे
मनः ॥ २० ॥
प्रायशश्चाप्यनिष्टानि
निमित्तान्युपलक्षये ।
तस्मात्सज्जीभवार्य
त्वं
कुरुष्व
वचनं
हितम् ॥ २१ ॥
ममैव
हि
निमित्तानि
सद्यः
शंसन्ति
सम्भ्रमम् ।
एष
वञ्चुलको
नाम
पक्षी
परमदारुणः ॥ २२ ॥
आवयोर्विजयं
युद्धे
शंसन्निव
विनर्दति ।
तयोरन्वेषतोरेवं
सर्वं
तद्वनमोजसा ॥ २३ ॥
सञ्जज्ञे
विपुलः
शब्दः
प्रभञ्जन्निव
तद्वनम् ।
संवेष्टितमिवात्यर्थं
गगनं
मातरिश्वना ॥ २४ ॥
वनस्य
तस्य
शब्दोभूद्दिवमापूरयन्निव ।
तं
शब्दं
काङ्क्षमाणस्तु
रामः
कक्षे
सहानुजः ॥ २५ ॥
ददर्श
सुमहाकायं
राक्षसं
विपुलोरसम् ।
आसेदतुस्ततस्तत्र
तावुभौ
प्रमुखे
स्थितम् ॥ २६ ॥
विवृद्धमशिरोग्रीवं
कबन्धमुदरेमुखम् ।
रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् ॥ २७ ॥
नीलमेघनिभं
रौद्रं
मेघस्तनितनिःस्वनम् ।
अग्निज्वालानिकाशेन
ललाटस्थेन
दीप्यता ॥ २८ ॥
महापक्ष्मेण
पिङ्गेन
विपुलेनायतेन
च ।
एकेनोरसि
घोरेण
नयनेनाशुदर्शिना ॥ २९ ॥
महादंष्ट्रोपपन्नं
तं
लेलिहानं
महामुखम् ।
भक्षयन्तं
महाघोरानृक्षसिंहमृगद्विपान् ॥ ३० ॥
घोरौ
भुजौ
विकुर्वाणमुभौ
योजनमायतौ ।
आकर्षन्तं
विकर्षन्तमनेकान्
मृगयूथपान् ॥ ३१ ॥
स्थितमावृत्य
पन्थानं
तयोर्भ्रात्रोः
प्रपन्नयोः ।
अथ
तौ
समभिक्रम्य
क्रोशमात्रे
ददर्शतुः ॥ ३२ ॥
महान्तं
दारुणं
भीमं
कबन्धं
भुजसंवृतम् ।
कबन्धमिव
संस्थानादतिघोरप्रदर्शनम् ॥ ३३ ॥
स
महाबाहुरत्यर्थं
प्रसार्य
विपुलौ
भूजौ ।
जग्राह
सहितावेव
राघवौ
पीडयन्बलात् ॥ ३४ ॥
खड्गिनौ
दृढधन्वानौ
तिग्मतेजोवपुर्धरौ ।
बाल्यादनाश्रयत्वाच्च
लक्ष्मणस्त्वतिविव्यथे ॥ ३५ ॥
उवाच
च
विषण्णः
सन्
राघवं
राघवानुजः ।
पश्य
मां
वीर
विवशं
राक्षसस्य
वशं
गतम् ॥ ३६ ॥
मयैकेन
विनिर्युक्तः
परिमुञ्चस्व
राघव ।
मां
हि
भूतबलिं
दत्त्वा
पलायस्व
यथासुखम् ॥ ३७ ॥
अधिगन्तासि
वैदेहीमचिरेणेति
मे
मतिः ।
प्रतिलभ्य
च
काकुत्स्थ
पितृपैतामहीं
महीम् ॥ ३८ ॥
तत्र
मां
राम
राज्यस्थः
स्मर्तुमर्हिसि
सर्वदा ।
लक्ष्मणेनैवमुक्तस्तु
रामः
सौमित्रिमब्रवीत् ॥ ३९ ॥
मा
स्म
त्रासं
कृथा
वीर
न
हि
त्वादृग्विषीदति ।
एतस्मिन्नन्तरे
क्रूरो
भ्रातरौ
रामलक्ष्मणौ ॥ ४० ॥
पप्रच्छ
घननिर्घोषः
कबन्धो
दानवोत्तमः ।
कौ
युवां
वृषभस्कन्धौ
महाखङ्गधनुर्धरौ ॥ ४१ ॥
घोरं
देशमिमं
प्राप्तौ
मम
भक्षावुपस्थितौ ।
वदतं
कार्यमिह
वां
किमर्थं
चागतौ
युवाम् ॥ ४२ ॥
इमं
देशमनुप्राप्तौ
क्षुधार्तस्येह
तिष्ठतः ।
सबाणचापखड्गौ
च
तीक्ष्णशृङ्गाविवर्षभौ ॥ ४३ ॥
ममास्यमनुमम्प्राप्तौ
दुर्लभं
जीवितं
पुनः ।
तस्य
तद्वचनं
श्रुत्वा
कबन्धस्य
दुरात्मनः ॥ ४४ ॥
उवाच
लक्ष्मणं
रामो
मुखेन
परिशुष्यता ।
कृच्छ्रात्कृच्छ्रतरं
प्राप्य
दारुणं
सत्यविक्रम ॥ ४५ ॥
व्यसनं
जीवितान्ताय
प्राप्तमप्राप्य
तां
प्रियाम् ।
कालस्य
सुमहद्वीर्यं
सर्वभूतेषु
लक्ष्मण ॥ ४६ ॥
त्वां
च
मां
नरव्याघ्र
व्यसनैः
पश्य
मोहितौ ।
शूराश्च
बलवन्तश्च
कृतास्त्राश्च
रणाजिरे ॥ ४७ ॥
कालाभिपन्नाः
सीदन्ति
यथा
वालुकसेतवः ।
इति
ब्रुवाणो
दृढसत्यविक्रमो
महायशा
दाशरथिः
प्रतापवान् ॥ ४८ ॥
अवेक्ष्य
सौमित्रिमुदग्रपौरुषं
स्थिरां
तदा
स्वां
मतिमात्मनाकरोत् ॥ ४९ ॥