तौ
तु
तत्र
स्थितौ
दृष्ट्वा
भ्रातरौ
रामलक्ष्मणौ ।
बाहुपाशपरिक्षिप्तौ
कबन्धो
वाक्यमब्रवीत् ॥ १ ॥
तिष्ठतः
किन्नु
मां
दृष्ट्वा
क्षुधार्तं
क्षत्त्रियर्षभौ ।
आहारार्थं
तु
सन्दिष्टौ
दैवेन
गतचेतसौ ॥ २ ॥
तच्छ्रुत्वा
लक्ष्मणो
वाक्यं
प्राप्तकालं
हितं
तदा ।
उवाचार्तिं
समापन्नो
विक्रमे
कृतलक्षणः ॥ ३ ॥
त्वां
च
मां
च
पुरा
तूर्णमादत्ते
राक्षसाधमः ।
तस्मादसिभ्यामस्याशु
बाहू
छिन्दावहै
गुरू ॥ ४ ॥
भीषणोऽयं
महाकायो
राक्षसो
भुजविक्रमः ।
लोकं
ह्यतिजितं
कृत्वा
ह्यावां
हन्तुमिहेच्छति ॥ ५ ॥
निश्चेष्टानां
वधो
राजन्
कुत्सितो
जगतीपतेः ।
क्रतुमध्योपनीतानां
पशूनामिव
राघव ॥ ६ ॥
एतत्सञ्जल्पितं
श्रुत्वा
तयोः
क्रद्धस्तु
राक्षसः ।
विदार्यास्यं
तदा
रौद्रस्तौ
भक्षयितुमारभत् ॥ ७ ॥
ततस्तौ
देशकालज्ञौ
खड्गाभ्यामेव
राघवौ ।
अच्छिन्दतां
सुसंहृष्टौ
बाहू
तस्यांसदेशतः ॥ ८ ॥
दक्षिणो
दक्षिणं
बाहुमसक्तमसिना
ततः ।
चिच्छेद
रामो
वेगेन
सव्यं
वीरस्तु
लक्ष्मणः ॥ ९ ॥
स
पपात
महाबाहुश्छिन्नबाहुर्महास्वनः ।
खं
च
गां
च
दिशश्चैव
नादयन्
जलदो
यथा ॥ १० ॥
स
निकृत्तौ
भूजौ
दृष्ट्वा
शोणितौघपरिप्लुतः ।
दीनः
पप्रच्छ
तौ
वीरौ
कौ
युवामिति
दानवः ॥ ११ ॥
इति
तस्य
ब्रुवाणस्य
लक्ष्मणः
शुभलक्षणः ।
शशंस
राघवं
तस्य
कबन्धस्य
महात्मनः ॥ १२ ॥
अयमिक्ष्वाकुदायादो
रामो
नाम
जनैः
श्रुतः ।
अस्यैवावरजं
विद्धि
भ्रातरं
मां
च
लक्ष्मणम् ॥ १३ ॥
अस्य
देवप्रभावस्य
वसतो
विजने
वने ।
रक्षसाऽपहृता
पत्नी
यामिच्छन्ताविहागतौ ॥ १४ ॥
त्वं
तु
को
वा
किमर्थं
वा
कबन्धसदृशो
वने ।
आस्येनोरसि
दीप्तेन
भग्नजङ्घो
विवेष्टसे ॥ १५ ॥
एवमुक्तः
कबन्धस्तु
लक्ष्मणेनोत्तरं
वचः ।
उवाच
परमप्रीतस्तदिन्द्रवचनं
स्मरन् ॥ १६ ॥
स्वागतं
वां
नरव्याघ्रौ
दिष्ट्या
पश्यामि
चाप्यहम् ।
दिष्ट्या
चेमौ
निकृत्तौ
मे
युवाभ्यां
बाहुबन्धनौ ॥ १७ ॥
विरूपं
यच्च
मे
रूपं
प्राप्तं
ह्यविनयाद्यथा ।
तन्मे
शृणु
नरव्याघ्र
तत्त्वतः
शंसतस्तव ॥ १८ ॥