रूपमासीन्ममाचिन्त्यं
त्रिषु
लोकेषु
विश्रुतम् ।
यथा
सोमस्य
शक्रस्य
सूर्यस्य
च
यथा
वपुः ॥ १ ॥
सोऽहं
रूपमिदं
कृत्वा
लोकवित्रासनं
महत् ।
ऋषीन्वनगतान्
राम
त्रासयामि
ततस्ततः ॥ २ ॥
ततः
स्थूलशिरा
नाम
महर्षिः
कोपितो
मया ।
सञ्चिन्वन्
विविधं
वन्यं
रूपेणानेन
धर्षितः ॥ ३ ॥
तेनाहमुक्तः
प्रेक्ष्यैवं
घोरशापाभिधायिना ।
एतदेव
नृशंसं
ते
रूपमस्तु
विगर्हितम् ॥ ४ ॥
स
मया
याचितः
क्रुद्धः
शापस्यान्तो
भवेदिति ।
अभिशापकृतस्येति
तेनेदं
भाषितं
वचः ॥ ५ ॥
यदा
छित्त्वा
भुजौ
रामस्त्वां
दहेद्विजने
वने ।
तदा
त्वं
प्राप्स्यसे
रूपं
स्वमेव
विपुलं
शुभम् ॥ ६ ॥
श्रिया
विराजितं
पुत्रं
दनोस्त्वं
विद्धि
लक्ष्मण ।
इन्द्रकोपादिदं
रूपं
प्राप्तमेवं
रणाजिरे ॥ ७ ॥
अहं
हि
तपसोग्रेण
पितामहमतोषयम् ।
दीर्घमायुः
स
मे
प्रादात्ततो
मां
विभ्रमोस्पृशत् ॥ ८ ॥
दीर्घमायुर्मया
प्राप्तं
किं
मे
शक्रः
करिष्यति ।
इत्येवं
बुद्धिमास्थाय
रणे
शक्रमधर्षयम् ॥ ९ ॥
तस्य
बाहुप्रमुक्तेन
वज्रेण
शतपर्वणा ।
सक्थिनी
चैव
मूर्धा
च
शरीरे
सम्प्रवेशितम् ॥ १० ॥
स
मया
याच्यमानः
सन्नानयद्यमसादनम् ।
पितामहवचः
सत्यं
तदस्त्विति
ममाब्रवीत् ॥ ११ ॥
अनाहारः
कथं
शक्तो
भग्नसक्थिशिरोमुखः ।
वज्रेणाभिहतः
कालं
सुदीर्घमपि
जीवितुम् ॥ १२ ॥
एवमुक्तस्तु
मे
शक्रो
बाहू
योजनमायतौ ।
प्रादादास्यं
च
मे
कुक्षौ
तीक्ष्णदंष्ट्रमकल्पयत् ॥ १३ ॥
सोऽहं
भुजाभ्यां
दीर्घाभ्यां
सङ्कृष्यास्मिन्वनेचरान् ।
सिंहद्वीपमृगव्याघ्रान्
भक्षयामि
समन्ततः ॥ १४ ॥
स
तु
मामब्रवीदिन्द्रो
यदा
रामः
सलक्ष्मणः ।
छेत्स्यते
समरे
बाहू
तदा
स्वर्गं
गमिष्यति ॥ १५ ॥
अनेन
वपुषा
राम
वनेऽस्मिन्
राजसत्तम ।
यद्यत्पश्यामि
सर्वस्य
ग्रहणं
साधु
रोचये ॥ १६ ॥
अवश्यं
ग्रहणं
रामो
मन्येऽहं
समुपैष्यति ।
इमां
बुद्धिं
पुरस्कृत्य
देहन्यासकृतश्रमः ॥ १७ ॥
स
त्वं
रामोऽसि
भद्रं
ते
नाहमन्येन
राघव ।
शक्यो
हन्तुं
यथातत्त्वमेवमुक्तं
महर्षिणा ॥ १८ ॥
अहं
हि
मतिसाचिव्यं
किरष्यामि
नरर्षभ ।
मित्रं
चैवोपदेक्ष्यामि
युवाभ्यां
संस्कृतोऽग्निना ॥ १९ ॥
एवमुक्तस्तु
धर्मात्मा
दनुना
तेन
राघवः ।
इदं
जगाद
वचनं
लक्ष्मणस्योपशृण्वतः ॥ २० ॥
रावणेन
हृता
भार्या
मम
सीता
यशस्विनी ।
निष्क्रान्तस्य
जनस्थानात्सह
भ्रात्रा
यथासुखम् ॥ २१ ॥
नाममात्रं
तु
जानामि
न
रूपं
तस्य
रक्षसः ।
निवासं
वा
प्रभावं
वा
वयं
तस्य
न
विद्महे ॥ २२ ॥
शोकार्तानामनाथानामेवं
विपरिधावताम् ।
कारुण्यं
सदृशं
कर्तुमुपकारे
च
वर्तताम् ॥ २३ ॥
काष्ठान्यादाय
शुष्काणि
काले
भग्नानि
कुञ्जरैः ।
धक्ष्यामस्त्वां
वयं
वीर
श्वभ्रे
महति
कल्पिते ॥ २४ ॥
स
त्वं
सीतां
समाचक्ष्व
येन
वा
यत्र
वा
हृता ।
कुरु
कल्याणमत्यर्थं
यदि
जानासि
तत्त्वतः ॥ २५ ॥
एवमुक्तस्तु
रामेण
वाक्यं
दनुरनुत्तमम् ।
प्रोवाच
कुशलो
वक्तुं
वक्तारमपि
राघवम् ॥ २६ ॥
दिव्यमस्ति
न
मे
ज्ञानं
नाभिजानामि
मैथिलीम् ।
यस्तां
ज्ञास्यति
तं
वक्ष्ये
दग्धः
स्वं
रूपमास्थितः ॥ २७ ॥
अदग्धस्य
तु
विज्ञातुं
शक्तिरस्ति
न
मे
प्रभो ।
राक्षसं
तं
महावीर्यं
सीता
येन
हृता
तव ॥ २८ ॥
विज्ञानं
हि
मम
भ्रष्टं
शापदोषेण
राघव ।
स्वकृतेन
मया
प्राप्तं
रूपं
लोकविगर्हितम् ॥ २९ ॥
किन्तु
यावन्न
यात्यस्तं
सविता
श्रान्तवाहनः ।
तावन्मामवटे
क्षिप्त्वा
दह
राम
यथाविधि ॥ ३० ॥
दग्धस्त्वयाहमवटे
न्यायेन
रघुनन्दन ।
वक्ष्यामि
तमहं
वीर
यस्तं
ज्ञास्यति
राक्षसम् ॥ ३१ ॥
तेन
सख्यं
च
कर्तव्यं
न्यायवृत्तेन
राघव ।
कल्पयिष्यति
ते
प्रीतः
साहाय्यं
लघुविक्रमः ॥ ३२ ॥
न
हि
तस्यास्त्यविज्ञातं
त्रिषु
लोकेषु
राघव ।
सर्वान्
परिसृतो
लोकान्
पुराऽसौ
कारणान्तरे ॥ ३३ ॥