एवमुक्तौ
तु
तौ
वीरौ
कबन्धेन
नरेश्वरौ ।
गिरिप्रदरमासाद्य
पावकं
विससर्जतुः ॥ १ ॥
लक्ष्मणस्तु
महोल्काभिर्ज्वलिताभिः
समन्ततः ।
चितामादीपयामास
सा
प्रजज्वाल
सर्वतः ॥ २ ॥
तच्छरीरं
कबन्धस्य
घृतपिण्डोपमं
महत् ।
मेदसा
पच्यमानस्य
मन्दं
दहति
पावकः ॥ ३ ॥
स
विधूय
चितामाशु
विधूमोऽग्निरिवोत्थितः ।
अरजे
वाससी
बिभ्रन्मालां
दिव्यां
महाबलः ॥ ४ ॥
ततश्चिताया
वेगेन
भास्वरो
विमलाम्बरः ।
उत्पपाताशु
संहृष्टः
सर्वप्रत्यङ्गभूषणः ॥ ५ ॥
विमाने
भास्वरे
तिष्ठन्
हंसयुक्ते
यशस्करे ।
प्रभया
च
महातेजा
दिशो
दश
विराजयन् ॥ ६ ॥
सोऽन्तरिक्षगतो
रामं
कबन्धो
वाक्यमब्रवीत् ।
शृणु
राघव
तत्त्वेन
यथा
सीतामवाप्स्यसि ॥ ७ ॥
राम
षड्युक्तयो
लोके
याभिः
सत्त्वं
विमृश्यते ।
दशाभागगतो
हीनस्त्वं
हि
राम
सलक्ष्मणः ॥ ८ ॥
यत्कृते
व्यसनं
प्राप्तं
त्वया
दारप्रधर्षणम् ।
तदवश्यं
त्वया
कार्यः
स
सुहृत्सुहृदां
वर ॥ ९ ॥
अकृत्वा
हि
न
ते
सिद्धिमहं
पश्यामि
चिन्तयन् ।
श्रूयतां
राम
वक्ष्यामि
सुग्रीवो
नाम
वानरः ॥ १० ॥
भ्रात्रा
निरस्तः
क्रुद्धेन
वालिना
शक्रसूनुना ।
ऋश्यमूके
गिरिवरे
पम्पापर्यन्तशोभिते ॥ ११ ॥
निवसत्यात्मवान्
वीरश्चतुर्भिस्सह
वानरैः ।
वानरेन्द्रो
महावीर्यस्तेजोवानमितप्रभः ॥ १२ ॥
सत्यसन्धो
विनीतश्च
धृतिमान्मतिमान्महान् ।
दक्षः
प्रगल्भो
द्युतिमान्महाबलपराक्रमः ॥ १३ ॥
भ्रात्रा
विवासितो
राम
राज्यहेतोर्महाबलः ।
स
ते
सहायो
मित्रं
च
सीतायाः
परिमार्गणे ॥ १४ ॥
भविष्यति
हि
ते
राम
मा
च
शोके
मनः
कृथाः ।
भवितव्यं
हि
यच्चापि
न
तच्छक्यमिहान्यथा ॥ १५ ॥
कर्तुमिक्ष्वाकुशार्दूल
कालो
हि
दुरतिक्रमः ।
वयस्यं
तं
कुरु
क्षिप्रमितो
गत्वाद्य
राघव ॥ १६ ॥
अद्रोहाय
समागम्य
दीप्यमाने
विभावसौ ।
स
च
ते
नावमन्तव्यः
सुग्रीवो
वानराधिपः ॥ १७ ॥
कृतज्ञः
कामरूपी
च
सहायर्थी
च
वीर्यवान् ।
शक्तौ
ह्यद्य
युवां
कर्तुं
कार्यं
तस्य
चिकीर्षितम् ॥ १८ ॥
कृतार्थो
वाऽकृतार्थो
वा
कृत्यं
तव
करिष्यति ।
स
ऋक्षरजसः
पुत्रः
पम्पामटति
शङ्कितः ॥ १९ ॥
भास्करस्यौरसः
पुत्रो
वालिना
कृतकिल्बिषः ।
सन्निधायायुधं
क्षिप्रमृश्यमूकालयं
कपिम् ॥ २० ॥
कुरु
राघव
सत्येन
वयस्यं
वनचारिणम् ।
स
हि
स्थानानि
सर्वाणि
कार्त्स्न्येन
कपिकुञ्जरः ॥ २१ ॥
नरमांसाशिनां
लोके
नैपुण्यादधिगच्छति ।
न
तस्याविदितं
लोके
किञ्चिदस्ति
हि
राघव ॥ २२ ॥
यावत्सूर्यः
प्रतपति
सहस्रांशुररिन्दम ।
स
नदीर्विपुलाञ्छैलान्
गिरिदुर्गाणि
कन्दरान् ॥ २३ ॥
अन्वीक्ष्य
वानरैः
सार्धं
पत्नीं
तेऽधिगमिष्यति ।
वानरांश्च
महाकायान्
प्रेषयिष्यति
राघव ॥ २४ ॥
दिशो
विचेतुं
तां
सीतां
त्वद्वियोगेन
शोचतीम् ।
स
ज्ञास्यति
वरारोहां
निर्मलां
रावणालये ॥ २५ ॥
स
मेरुशृङ्गाग्रगतामनिन्दितां
प्रविश्य
पातालतलेऽपि
वाश्रिताम् ।
प्लवङ्गमानां
प्रवरस्तव
प्रियां
निहत्य
रक्षांसि
पुनः
प्रदास्यति ॥ २६ ॥