निदर्शयित्वा
रामाय
सीतायाः
प्रतिपादने ।
वाक्यमन्वर्थमर्थज्ञः
कबन्धः
पुनरब्रवीत् ॥ १ ॥
एष
राम
शिवः
पन्था
यत्रैते
पुष्पिता
द्रुमाः ।
प्रतीचीं
दिशमाश्रित्य
प्रकाशन्ते
मनोरमाः ॥ २ ॥
जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्दुकाः ।
अश्वत्थाः
कर्णिकाराश्च
चूताश्चान्ये
च
पादापाः ॥ ३ ॥
नीलाशोकाः
कदम्बाश्च
करवीराश्च
पुष्पिताः ।
अग्निमुख्या
अशोकाश्च
सुरक्ताः
पारिभद्रकाः ॥ ४ ॥
तानारूह्याथवा
भूमौ
पातयित्वा
च
तान्
बलात् ।
फलान्यमृतकल्पानि
भक्षयन्तौ
गमिष्यथः ॥ ५ ॥
तदतिक्रम्य
काकुत्स्थ
वनं
पुष्पितपादपम् ।
नन्दनप्रतिमं
चान्यत्
कुरवो
ह्युत्तरा
इव ॥ ६ ॥
सर्वकामफला
वृक्षाः
पादपास्तु
मधुस्रवाः ।
सर्वे
च
ऋतवस्तत्र
वने
चैत्ररथे
यथा ॥ ७ ॥
फलभारानतास्तत्र
महाविटपधारिणः ।
शोभन्ते
सर्वतस्तत्र
मेघपर्वतसन्निभाः ॥ ८ ॥
तानारुह्याथ
वा
भूमौ
पातयित्वा
यथासुखम् ।
फलान्यमृतकल्पानि
लक्ष्मणस्ते
प्रदास्यति ॥ ९ ॥
चङ्क्रमन्तौ
वरान्
देशान्
शैलाच्छैलं
वनाद्वनम् ।
ततः
पुष्करिणीं
वीरौ
पम्पां
नाम
गमिष्यथः ॥ १० ॥
अशर्करामविभ्रंशां
समतीर्थामशैवलाम् ।
राम
स़ञ्चातवालूकां
कमलोत्पलशालिनीम् ॥ ११ ॥
तत्र
हंसाः
प्लवाः
क्रौञ्चाः
कुरराश्चैव
राघव ।
वल्गुस्वना
निकूजन्ति
पम्पासलिलगोचराः ॥ १२ ॥
नोद्विजन्ते
नरान्
दृष्ट्वा
वधस्याकोविदाः
शुभाः ।
घृतपिण्डोपमान्
स्थूलांस्तान्
द्विजान्
भक्षयिश्यथः ॥ १३ ॥
रोहितान्
वक्रतुण्डांश्च
नडमीनांश्च
राघव ।
पम्पायामिषुभिर्मत्स्यांस्तत्र
राम
वरान्
हतान् ॥ १४ ॥
निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् ।
तव
भक्त्या
समायुक्तो
लक्ष्मणः
सम्प्रदास्यति ॥ १५ ॥
भृशं
ते
खादतो
मत्स्यान्
पम्पायाः
पुष्पसञ्चये ।
पद्मगन्धि
शिवं
वारि
सुखशीतमनामयम् ॥ १६ ॥
उद्धृत्य
सतताक्लिष्टं
रौप्यस्फाटिकसन्निभम् ।
असौ
पुष्करपर्णेन
लक्ष्मणः
पाययिष्यति ॥ १७ ॥
स्थूलान्
गिरिगुहाशय्यान्
वराहान्
वनचारिणः ।
अपां
लोभादुपावृत्तान्
वृषभानिव
नर्दतः ॥ १८ ॥
रूपान्वितांश्च
पम्पायां
द्रक्ष्यसि
त्वं
नरोत्तम ।
सायाह्ने
विचरन्
राम
विटपीन्
माल्यधारिणः ॥ १९ ॥
शीतोदकं
च
पम्पाया
दृष्ट्वा
शोकं
विहास्यसि ।
सुमनोभिश्चितांस्तत्र
तिलकान्नक्तमालकान् ॥ २० ॥
उत्पलानि
च
फुल्लानि
पङ्कजानि
च
राघव ।
न
तानि
कश्चिन्माल्यानि
तत्रारोपयिता
नरः ॥ २१ ॥
न
च
वै
म्लानतां
यान्ति
न
च
शीर्यन्ति
राघव ।
मतङ्गशिष्यास्तत्रासन्नृषयः
सुसमाहिताः ॥ २२ ॥
तेषां
भाराभितप्तानां
वन्यमाहरतां
गुरोः ।
तानि
जातानि
माल्यानि
मुनीनां
तपसा
तदा ॥ २३ ॥
स्वेदबिन्दुसमुत्थानि
न
विनश्यन्ति
राघव ।
तेषामद्यापि
तत्रैव
दृश्यते
परिचारिणी ॥ २४ ॥
श्रमणी
शबरी
नाम
काकुत्स्थ
चिरजीविनी ।
त्वां
तु
धर्मे
स्थिता
नित्यं
सर्वभूतनमस्कृतम् ॥ २५ ॥
दृष्ट्वा
देवोपमं
राम
स्वर्गलोकं
गमिष्यति ।
ततस्तद्राम
पम्पायास्तीरमाश्रित्य
पश्चिमम् ॥ २६ ॥
आश्रमस्थानमतुलं
गुह्यं
काकुत्स्थ
पश्यसि ।
न
तत्राक्रमितुं
नागाः
शक्नुवन्ति
तमाश्रमम् ॥ २७ ॥
विविधास्तत्र
वै
नागा
वने
तस्मिंश्च
पर्वते ।
ऋषेस्तस्य
मतङ्गस्य
विधानात्तच्च
काननम् ॥ २८ ॥
मतङ्गवनमित्येव
विश्रुतं
रघुनन्दन ।
तस्मिन्नन्दनसङ्काशे
देवारण्योपमे
वने ॥ २९ ॥
नानाविहगसङ्कीर्णे
रंस्यसे
राम
निर्वृतः ।
सुदुःखारोहणो
नाम
शिशुनागाभिरक्षितः ॥ ३० ॥
उदारो
ब्रह्मणा
चैव
पूर्वकाले
विनिर्मितः ।
शयानः
पुरुषो
राम
तस्य
शैलस्य
मूर्धनि ॥ ३१ ॥
यत्स्वप्ने
लभते
वित्तं
तत्प्रबुद्धोऽधिगच्छति ।
न
त्वेनं
विषमाचारः
पापकर्माधिरोहति ॥ ३२ ॥
यस्तु
तं
विषमाचारः
पापकर्माधिरोहति ।
तत्रैव
प्रहरन्त्येनं
सुप्तमादाय
राक्षसाः ॥ ३३ ॥
तत्रापि
शिशुनागानामाक्रन्दः
श्रूयते
महान् ।
क्रीडतां
राम
पम्पायां
मतङ्गारण्यवासिनाम् ॥ ३४ ॥
सिक्ता
रुधिरधाराभिः
संहृत्य
परमद्विपाः ।
प्रचरन्ति
पृथक्कीर्णा
मेघवर्णास्तरस्विनः ॥ ३५ ॥
ऋक्षांश्च
द्वीपिनश्चैव
नीलकोमलकप्रभान् ।
रुरूनपेतापजयान्
दृष्ट्वा
शोकं
जहिष्यसि ॥ ३६ ॥
राम
तस्य
तु
शैलस्य
महती
शोभते
गुहा ।
शिलापिधाना
काकुत्स्थ
दुःखं
चास्याः
प्रवेशनम् ॥ ३७ ॥
तस्या
गुहायाः
प्राग्द्वारे
महान्
शीतोदको
ह्रदः ।
फलमूलान्वितो
रम्यो
नानामृगसमावृत्तः ॥ ३८ ॥
तस्यां
वसति
सुग्रीवश्चतुर्भिः
सह
वानरैः ।
कदाचिच्छिखरे
तस्य
पर्वतस्यावतिष्ठते ॥ ३९ ॥
कबन्धस्त्वनुशास्यैवं
तावुभौ
रामलक्ष्मणौ ।
स्रग्वी
भास्करवर्णाभः
खे
व्यरोचत
वीर्यवान् ॥ ४० ॥
तं
तु
खस्थं
महाभागं
कबन्धं
रामलक्ष्मणौ ।
प्रस्थितौ
त्वं
व्रजस्वेति
वाक्यमूचतुरन्तिके ॥ ४१ ॥
गम्यतां
कार्यसिद्ध्यर्थमिति
तावब्रवीत्स
च ।
सुप्रीतौ
तावनुज्ञाप्य
कबन्धः
प्रस्थितस्तदा ॥ ४२ ॥
स
तत्कबन्धः
प्रतिपद्य
रूपं
वृतः
श्रिया
भास्करतुल्यदेहः ।
निदर्शयन्
राममवेक्ष्य
खस्थं
सख्यं
कुरुष्वेति
तदाभ्युवाच ॥ ४३ ॥