तौ
कबन्धेन
तं
मार्गं
पम्पाया
दर्शितं
वने ।
प्रतस्थतुर्दिशं
गृह्य
प्रतीचीं
नृवरात्मजौ ॥ १ ॥
तौ
शैलेष्वाचितानेकान्
क्षौद्रकल्पफलान्
द्रुमान् ।
वीक्षन्तौ
जग्मतुर्द्रष्टुं
सुग्रीवं
रामलक्ष्मणौ ॥ २ ॥
कृत्वा
च
शैलपृष्ठे
तु
तौ
वासं
रामलक्ष्मणौ ।
पम्पायाः
पश्चिमं
तीरं
राघवावुपतस्थस्तुः ॥ ३ ॥
तौ
पुष्करिण्याः
पम्पायास्तीरमासाद्य
पश्चिमम् ।
अपश्यतां
ततस्तत्र
शबर्या
रम्यमाश्रमम् ॥ ४ ॥
तौ
तमाश्रममासाद्य
द्रुमैर्बहुभिरावृतम् ।
सुरम्यमभिवीक्षन्तौ
शबरीमभ्युपेयतुः ॥ ५ ॥
रामस्य
पादौ
जग्राह
लक्ष्मणस्य
च
धीमतः ।
पाद्यमाचमनीयं
च
सर्वं
प्रादाद्यथाविधि ॥ ६ ॥
तामुवाच
ततो
रामः
श्रमणीं
संशितव्रताम् ।
कच्चित्ते
निर्जिता
विघ्नाः
कच्चिते
वर्धते
तपः ॥ ७ ॥
कच्चित्ते
नियतः
क्रोध
आहारश्च
तपोधने ।
कच्चित्ते
नियमाः
प्राप्ताः
कच्चित्ते
मनसः
सुखम् ॥ ८ ॥
कच्चिते
गुरुशुश्रूषा
सफला
चारुभाषिणि ।
रामेण
तापसी
पृष्टा
सा
सिद्धा
सिद्धसम्मता ॥ ९ ॥
शशंस
शबरी
वृद्धा
रामाय
प्रत्युपस्थिता ।
अद्य
प्राप्ता
तपःसिद्धिस्तव
सन्दर्शनान्मया ॥ १० ॥
अद्य
मे
सफलं
तप्तं
गुरवश्च
सुपूजिताः ।
अद्य
मे
सफलं
जन्म
स्वर्गश्चैव
भविष्यति ॥ ११ ॥
त्वयि
देववरे
राम
पूजिते
पुरुषर्षभ ।
चक्षुषा
तव
सौम्येन
पूताऽस्मि
रघुनन्दन ॥ १२ ॥
गमिष्याम्यक्षयान्
लोकांस्त्वत्प्रसादादरिन्दम ।
चित्रकूटं
त्वयि
प्राप्ते
विमानैरतुलप्रभैः ॥ १३ ॥
इतस्ते
दिवमारूढा
यानहं
पर्यचारिषम् ।
तैश्चाहमुक्ता
धर्मज्ञैर्महाभागैर्महर्षिभिः ॥ १४ ॥
आगमिष्यति
ते
रामः
सुपुण्यमिममाश्रमम् ।
स
ते
प्रतिग्रहीतव्यः
सौमित्रिसहितोऽतिथिः ॥ १५ ॥
तं
च
दृष्ट्वा
वरान्
लोकानक्षयांस्त्वं
गमिष्यसि ।
मया
तु
विविधं
वन्यं
सञ्चितं
पुरुषर्षभ ॥ १६ ॥
तवार्थे
पुरुषव्याघ्र
पम्पायास्तीरसम्भवम् ।
एवमुक्तः
स
धर्मात्मा
शबर्या
शबरीमिदम् ॥ १७ ॥
राघवः
प्राह
विज्ञाने
तां
नित्यमबहिष्कृताम् ।
दनोः
सकाशात्तत्त्वेन
प्रभावं
ते
महात्मनः ॥ १८ ॥
श्रुतं
प्रत्यक्षमिच्छामि
सन्द्रष्टुं
यदि
मन्यसे ।
एतत्तु
वचनं
श्रुत्वा
रामवक्त्राद्विनिःसृतम् ॥ १९ ॥
शबरी
दर्शयामास
तावुभौ
तद्वनं
महत् ।
पश्य
मेघघनप्रख्यं
मृगपक्षिसमाकुलम् ॥ २० ॥
मतङ्गवनमित्येव
विश्रुतं
रघुनन्दन ।
इह
ते
भावितात्मानो
गुरवो
मे
महाद्युते ॥ २१ ॥
जुहवाञ्चक्रिरे
तीर्थं
मन्त्रवन्मन्त्रपूजितम् ।
इयं
प्रत्यक्स्थली
वेदिर्यत्र
ते
मे
सुसत्कृताः ॥ २२ ॥
पुष्पोपहारं
कुर्वन्ति
श्रमादुद्वेपिभिः
करैः ।
तेषां
तपःप्रभावेन
पश्याद्यापि
रघूद्वह ॥ २३ ॥
द्योतयन्ति
दिशः
सर्वाः
श्रिया
वेद्योऽतुलप्रभाः ।
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः ॥ २४ ॥
चिन्तितेऽभ्यागतान्
पश्य
सहितान्
सप्त
सागरान् ।
कृताभिषेकैस्तैर्न्यस्ता
वल्कलाः
पादपेष्विह ॥ २५ ॥
अद्यापि
नावशुष्यन्ति
प्रदेशे
रघुनन्दन ।
देवकार्याणि
कुर्वद्भिर्यानीमानि
कृतानि
वै ॥ २६ ॥
पुष्पैः
कुवलयैः
सार्धं
म्लानत्वं
नोपयान्ति
वै ।
कृत्स्नं
वनमिदं
दृष्टं
श्रोतव्यं
च
श्रुतं
त्वया ॥ २७ ॥
तदिच्छाम्यभ्यनुज्ञाता
त्यक्तुमेतत्
कलेवरम् ।
तेषामिच्छाम्यहं
गन्तुं
समीपं
भावितात्मनाम् ॥ २८ ॥
मुनीनामाश्रमो
येषामहं
च
परिचारिणी ।
धर्मिष्ठं
तु
वचः
श्रुत्वा
राघवः
सहलक्ष्मणः ॥ २९ ॥
प्रहर्षमतुलं
लेभे
आश्चर्यमिति
तत्त्वतः ।
तामुवाच
ततो
रामः
श्रमणीं
संशितव्रताम् ॥ ३० ॥
अर्चितोऽहं
त्वया
भक्त्या
गच्छ
कामं
यथासुखम् ।
इत्युक्ता
जटिला
वृद्धा
चीरकृष्णाजिनाम्बरा ॥ ३१ ॥
तस्मिन्मुहूर्ते
शबरी
देहं
जीर्णं
जिहासती ।
अनुज्ञाता
तु
रामेण
हुत्वात्मानं
हुताशने ॥ ३२ ॥
ज्वलत्पावसङ्काशा
स्वर्गमेव
जागम
सा ।
दिव्याम्बरधरा
तत्र
बभूव
प्रियदर्शना ॥ ३३ ॥
विराजयन्ती
तं
देशं
विद्युत्सौदामिनी
यथा ।
यत्र
ते
सुकृतात्मानो
विहरन्ति
महर्षयः ॥ ३४ ॥
तत्पुण्यं
शबरीस्थानं
जगमात्मसमाधिना ॥ ३५ ॥