स
तां
पुष्करिणीं
गत्वा
पद्मोत्पलझषाकुलाम् ।
रामः
सौमित्रिसहितो
विललापाकुलेन्द्रियः ॥ १ ॥
तस्य
दृष्ट्वैव
तां
हर्षादिन्द्रियाणि
चकम्पिरे ।
स
कामवशमापन्नः
सौमित्रिमिदमब्रवीत् ॥ २ ॥
सौमित्रे
शोभते
पम्पा
वैडूर्यविमलोदका ।
फुल्लपद्मोत्पलवती
शोभिता
विविधैर्द्रुमैः ॥ ३ ॥
सौमित्रे
पश्य
पम्पायाः
काननं
शुभदर्शनम् ।
यत्र
राजन्ति
शैलाभा
द्रुमाः
सशिखरा
इव ॥ ४ ॥
मां
तु
शोकाभिसन्तप्तं
माधवः
पीडयन्निव ।
भरतस्य
च
दुःखेन
वैदेह्या
हरणेन
च ॥ ५ ॥
शोकार्तस्यापि
मे
पम्पा
शोभते
चित्रकानना ।
व्यवकीर्णा
बहुविधैः
पुष्पैः
शीतोदका
शिवा ॥ ६ ॥
नलिनैरपि
सञ्छन्ना
ह्यत्यर्थं
शुभदर्शना ।
सर्पव्यालानुचरिता
मृगद्विजसमाकुला ॥ ७ ॥
अधिकं
प्रतिभात्येतन्नीलपीतं
तु
शाद्वलम् ।
द्रुमाणां
विविधैः
पुष्पैः
परिस्तोमैरिवार्पितम् ॥ ८ ॥
पुष्पभारसमृद्धानि
शिखराणि
समन्ततः ।
लताभिः
पुष्पिताग्राभिरुपगूढानि
सर्वतः ॥ ९ ॥
सुखानिलोऽयं
सौमित्रे
कालः
प्रचुरमन्मथः ।
गन्धवान्
सुरभिर्मासो
जातपुष्पफलद्रुमः ॥ १० ॥
पश्य
रूपाणि
सौमित्रे
वनानां
पुष्पशालिनाम् ।
सृजतां
पुष्पवर्षाणि
तोयं
तोयमुचामिव ॥ ११ ॥
प्रस्तरेषु
च
रम्येषु
विविधाः
काननद्रुमाः ।
वायुवेगप्रचलिताः
पुष्पैरवकिरन्ति
गाम् ॥ १२ ॥
पतितैः
पतमानैश्च
पादपस्थैश्च
मारुतः ।
कुसुमैः
पश्य
सौमित्रे
क्रीडन्निव
समन्ततः ॥ १३ ॥
विक्षिपन्
विविधाः
शाखा
नगानां
कुसुमोत्कचाः ।
मारुतश्चलितस्थानैः
षट्पदैरनुगीयते ॥ १४ ॥
मत्तकोकिलसन्नादैर्नर्तयन्निव
पादपान् ।
शैलकन्दरनिष्क्रान्तः
प्रगीत
इव
चानिलः ॥ १५ ॥
तेन
विक्षिपतात्यर्थं
पवनेन
समन्ततः ।
अमी
संसक्तशाखाग्रा
ग्रथिता
इव
पादपाः ॥ १६ ॥
स
एष
सुखसंस्पर्शो
वाति
चन्दनशीतलः ।
गन्धमभ्यावहन्
पुण्यं
श्रमापनयनोऽनिलः ॥ १७ ॥
अमी
पवननिक्षिप्ता
विनदन्तीव
पादपाः ।
षट्पदैरनुकूजन्तो
वनेषु
मधुगन्धिषु ॥ १८ ॥
गिरिप्रस्थेषु
रम्येषु
पुष्पवद्भिर्मनोरमैः ।
संसक्तशिखराः
शैला
विराजन्ते
महाद्रुमैः ॥ १९ ॥
पुष्पसञ्छन्नशिखरा
मारुतोत्क्षेपचञ्चलाः ।
अमी
मधुकरोत्तंसाः
प्रगीता
इव
पादपाः ॥ २० ॥
पुष्पिताग्रांस्तु
पश्येमान्
कर्णिकारान्
समन्ततः ।
हाटकप्रतिसञ्छन्नान्नरान्पीताम्बरानिव ॥ २१ ॥
अयं
वसन्तः
सौमित्रे
नानाविहगनादितः ।
सीतया
विप्रहीणस्य
शोकसन्दीपनो
मम ॥ २२ ॥
मां
हि
शोकसमाक्रान्तं
सन्तापयति
मन्मथः ।
हृष्टः
प्रवदमानश्च
मामाह्वयति
कोकिलः ॥ २३ ॥
एष
नत्यूहको
हृष्टो
रम्ये
मां
वननिर्झरे ।
प्रणदन्मन्मथाविष्टं
शोचयिष्यति
लक्ष्मण ॥ २४ ॥
श्रुत्वैतस्य
पुरा
शब्दमाश्रमस्था
मम
प्रिया ।
मामाहूय
प्रमुदिता
परमं
प्रत्यनन्दत ॥ २५ ॥
एवं
विचित्राः
पतगा
नानारावविराविणः ।
वृक्षगुल्मलताः
पश्य
सम्पतन्ति
ततस्ततः ॥ २६ ॥
विमिश्रा
विहगाः
पुम्भिरात्मव्यूहाभिनन्दिताः ।
भृङ्गराजप्रमुदिताः
सौमित्रे
मधुरस्वराः ॥ २७ ॥
नत्यूहरुतविक्रन्दैः
पुंस्कोकिलरुतैरपि ।
स्वनन्ति
पादापाश्चेमे
ममानङ्गप्रदीपनाः ॥ २८ ॥
अशोकस्तबकाङ्गारः
षट्पदस्वननिःस्वनः ।
मां
हि
पल्लवताम्रार्चिर्वसन्ताग्निः
प्रधक्ष्यति ॥ २९ ॥
न
हि
तां
सूक्ष्मपक्ष्माक्षीं
सुकेशीं
मृदुभाषिणीम् ।
अपश्यतो
मे
सौमित्रे
जीवितेऽस्ति
प्रयोजनम् ॥ ३० ॥
अयं
हि
दयितस्तस्याः
कालो
रुचिरकाननः ।
कोकिलाकुलसीमान्तो
दयिताया
ममानघ ॥ ३१ ॥
मन्मथायास
सम्भूतो
वसन्तगुणवर्धितः ।
अयं
मां
धक्ष्यति
क्षिप्रं
शोकाग्निर्न
चिरादिव ॥ ३२ ॥
अपश्यतस्तां
दयितां
पश्यतो
रुचिरद्रुमान् ।
ममायमात्मप्रभवो
भूयस्त्वमुपयास्यति ॥ ३३ ॥
अदृश्यमाना
वैदेही
शोकं
वर्धयते
मम ।
दृश्यमानो
वसन्तश्च
स्वेदसंसर्गदूषकः ॥ ३४ ॥
मां
ह्यद्य
मृगशावाक्षी
चिन्ताशोकबलात्कृतम् ।
सन्तापयति
सौमित्रे
क्रूरश्चैत्रो
वनानिलः ॥ ३५ ॥
अमी
मयूराः
शोभन्ते
प्रनृत्यन्तस्ततस्ततः ।
स्वैः
पक्षैः
पवनोद्धूतैर्गवाक्षैः
स्फाटिकैरिव ॥ ३६ ॥
शिखिनीभिः
परिवृतास्त
एते
मदमूर्च्छिताः ।
मन्मथाभिपरीतस्य
मम
मन्मथवर्धनाः ॥ ३७ ॥
पश्य
लक्ष्मण
नृत्यन्तं
मयूरमुपनृत्यति ।
शिखिनी
मन्मथार्तैषा
भर्तारं
गिरिसानुषु ॥ ३८ ॥
तामेव
मनसा
रामां
मयूरोप्युपधावति ।
वितत्य
रुचिरौ
पक्षौ
रुतैरुपहसन्निव ॥ ३९ ॥
मयूरस्य
वने
नूनं
रक्षसा
न
हृता
प्रिया ।
तस्मान्नृत्यति
रम्येषु
वनेषु
सह
कान्तया ॥ ४० ॥
मम
त्वयं
विना
वासः
पुष्पमासे
सुदुस्सहः ।
पश्य
लक्ष्मण
संरागं
तिर्यग्योनिगतेष्वपि ॥ ४१ ॥
यदेषा
शिखिनी
कामाद्भर्तारं
रमतेऽन्तिके ।
मामाप्येवं
विशालाक्षी
जानकी
जातसम्भ्रमा ॥ ४२ ॥
मदनेनाभिवर्तेत
यदि
नापहृता
भवेत् ।
पश्य
लक्ष्मण
पुष्पाणि
निष्फलानि
भवन्ति
मे ॥ ४३ ॥
पुष्पभारसमृद्धानां
वनानां
शिशिरात्यये ।
रुचिराण्यपि
पुष्पाणि
पादपानामतिश्रिया ॥ ४४ ॥
निष्फलानि
महीं
यान्ति
समं
मधुकरोत्करैः ।
वदन्ति
रावं
मुदिताः
शकुनाः
सङ्घशः
कलम् ॥ ४५ ॥
आह्वयन्त
इवान्योन्यं
कामोन्मादकरा
मम ।
वसन्तो
यदि
तत्रापि
यत्र
मे
वसति
प्रिया ॥ ४६ ॥
नूनं
परवशा
सीता
साऽपि
शोचत्यहं
यथा ।
नूनं
न
तु
वसन्तोऽयं
देशं
स्पृशति
यत्र
सा ॥ ४७ ॥
कथं
ह्यसितपद्माक्षी
वर्तयेत्सा
मया
विना ।
अथवा
वर्तते
तत्र
वसन्तो
यत्र
मे
प्रिया ॥ ४८ ॥
किं
करिष्यति
सुश्रोणी
सा
तु
निर्भर्त्सिता
परैः ।
श्यामा
पद्मपलाशाक्षी
मदुपूर्वाभिभाषिणी ॥ ४९ ॥
नूनं
वसन्तमासाद्य
परित्यक्ष्यति
जीवितम् ।
दृढं
हि
हृदये
बुद्धिर्मम
सम्प्रति
वर्तते ॥ ५० ॥
नालं
वर्तयितुं
सीता
साध्वी
मद्विरहं
गता ।
मयि
भावस्तु
वैदेह्यास्तत्त्वतो
विनिवेशितः ॥ ५१ ॥
ममापि
भावः
सीतायां
सर्वथा
विनिवेशितः ।
एष
पुष्पवहो
वायुः
सुखस्पर्शो
हिमावहः ॥ ५२ ॥
तां
विचिन्तयतः
कान्तां
पावकप्रतिमो
मम ।
सदा
सुखमहं
मन्ये
यं
पुरा
सह
सीतया ॥ ५३ ॥
मारुतः
स
विना
सीतां
शोकं
वर्धयते
मम ।
तां
विना
स
विहङ्गो
यः
पक्षी
प्रणदितस्तदा ॥ ५४ ॥
वायसः
पादपगतः
प्रहृष्टभिनर्दति ।
एष
वै
तत्र
वैहेह्या
विहगः
प्रतिहारकः ॥ ५५ ॥
पक्षी
मां
तु
विशालाक्ष्याः
समीपमुपनेष्यति ।
पश्य
लक्ष्मण
सन्नादं
वने
मदविवर्धनम् ॥ ५६ ॥
पुष्पिताग्रेषु
वृक्षेषु
द्विजानामुपकूजताम् ।
विक्षिप्तां
पवनेनैतामसौ
तिलकमञ्जरीम् ॥ ५७ ॥
षट्पदः
सहसाभ्येति
मदोद्धूतामिव
प्रियाम् ।
कामिनामयमत्यन्तमशोकः
शोकवर्धनः ॥ ५८ ॥
स्तबकैः
पवनोत्क्षिप्तैस्तर्जयन्निव
मां
स्थितः ।
अमी
लक्ष्मण
दृश्यन्ते
चूताः
कुसुमशालिनः ॥ ५९ ॥
विभ्रमोत्सिक्तमनसः
साङ्गरागा
नरा
इव ।
सौमित्रे
पश्य
पम्पायाश्चित्रासु
वनराजिषु ॥ ६० ॥
किन्नरा
नरशार्दूल
विचरन्ति
ततस्ततः ।
इमानि
शुभगन्धीनि
पश्य
लक्ष्मण
सर्वशः ॥ ६१ ॥
नलिनानि
प्रकाशन्ते
जले
तरुणसूर्यवत् ।
एषा
प्रसन्नसलिला
पद्मनीलोत्पलायुता ॥ ६२ ॥
हंसकारण्डवाकीर्णा
पम्पा
सौगन्धिकायुता ।
जले
तरुणसूर्याभैः
षट्पदाहतकेसरैः ॥ ६३ ॥
पङ्कजैः
शोभते
पम्पा
समन्तादभिसंवृता ।
चक्रवाकयुता
नित्यं
चित्रप्रस्थवनान्तरा ॥ ६४ ॥
मातङ्गमृगयूथैश्च
शोभते
सलिलार्थिभिः ।
पवनाहितवेगाभिरूर्मिभिर्विमलेऽम्भसि ॥ ६५ ॥
पङ्कजानि
विराजन्ते
ताड्यमानानि
लक्ष्मण ।
पद्मपत्त्रविशालाक्षीं
सततं
पङ्कजप्रियाम् ॥ ६६ ॥
अपश्यतो
मे
वैदेहीं
जीवितं
नाभिरोचते ।
अहो
कामस्य
वामत्वं
यो
गतामपि
दुर्लभाम् ॥ ६७ ॥
स्मारयिष्यति
कल्याणीं
कल्याणतरवादिनीम् ।
शक्यो
धारयितुं
कामो
भवेदद्यागतो
मया ॥ ६८ ॥
यदि
भूयो
वसन्तो
मां
न
हन्यात्
पुष्पितद्रुमः ।
यानि
स्म
रमणीयानि
तया
सह
भवन्ति
मे ॥ ६९ ॥
तान्येवाऽरमणीयानि
जायन्ते
मे
तया
विना ।
पद्मकोशपलाशानि
दृष्ट्वा
दृष्टिर्हि
मन्यते ॥ ७० ॥
सीताया
नेत्रकोशाभ्यां
सदृशानीति
लक्ष्मण ।
पद्मकेसरसंसृष्टो
वृक्षान्तरविनिस्सृतः ॥ ७१ ॥
निःश्वास
इव
सीताया
वाति
वायुर्मनोहरः ।
सौमित्रे
पश्य
पम्पाया
दक्षिणे
गिरिसानुनि ॥ ७२ ॥
पुष्पितां
कर्णिकारस्य
यष्टिं
परमशोभनाम् ।
अधिकं
शैलराजोऽयं
धातुभिः
सुविभूषितः ॥ ७३ ॥
विचित्रं
सृजते
रेणुं
वायुवेगविघट्टितम् ।
गिरिप्रस्थास्तु
सौमित्रे
सर्वतः
सम्प्रपुष्पितैः ॥ ७४ ॥
निष्पत्त्रैः
सर्वतो
रम्यैः
प्रदीप्ता
इव
किंशुकैः ।
पम्पातीररुहाश्चेमे
संसक्ता
मधुगन्दिनः ॥ ७५ ॥
मालतीमल्लिकाषण्डाः
करवीराश्च
पुष्पिताः ।
केतक्यः
सिन्धुवाराश्च
वासन्त्यश्च
सुपुष्पिताः ॥ ७६ ॥
माधव्यो
गन्धपूर्णाश्च
कुन्दगुल्माश्च
सर्वशः ।
चिरिबिल्वा
मधूकाश्च
व़ञ्जुला
वकुलास्तथा ॥ ७७ ॥
चम्पकास्तिलकाश्चैव
नागवृक्षाः
सुपुष्पिताः ।
नीपाश्च
वरणाश्चैव
खर्जूराश्च
सुपुष्पिताः ॥ ७८ ॥
पद्मकाश्चोपशोभन्ते
नीलाशोकाश्च
पुष्पिताः ।
लोध्राश्च
गिरिपृष्ठेषु
सिंहकेसरपिञ्जराः ॥ ७९ ॥
अङ्कोलाश्च
कुरण्टाश्च
पूर्णकाः
पारिभद्रकाः ।
चूताः
पाटलयश्चैव
कोविदाराश्च
पुष्पिताः ॥ ८० ॥
मुचुलिन्दार्जुनाश्चैव
दृश्यन्ते
गिरिसानुषु ।
शाल्मल्यः
किंशुकाश्चैव
रक्ताः
कुरवकास्तथा ॥ ८१ ॥
तिनिशा
नक्तमालाश्च
चन्दनाः
स्पन्दनास्तथा ।
पुष्पितान्
पुष्पिताग्राभिर्लताभिः
परिवेष्टितान् ॥ ८२ ॥
द्रुमान्
पश्येह
सौमित्रे
पम्पाया
रुचिरान्
बहून् ।
वातविक्षिप्तविटपान्
यथासन्नान्
द्रुमानिमान् ॥ ८३ ॥
लताः
समनुवर्तन्ते
मत्ता
इव
वरस्त्रियः ।
पादपात्पादपं
गच्छन्
शैलाच्छैलं
वनाद्वनम् ॥ ८४ ॥
वाति
नैकरसास्वादः
सम्मोदित
इवानिलः ।
केचित्पर्याप्तकुसुमाः
पादपा
मधुगन्धिनः ॥ ८५ ॥
केचिन्मुकुलसंवीताः
श्यामवर्णा
इवाबभुः ।
इदं
मृष्टमिदं
स्वादु
प्रफुल्लमिदमित्यपि ॥ ८६ ॥
रागमत्तो
मधुकरः
कुसुमेष्ववलीयते ।
निलीय
पुनरुत्पत्य
सहसान्यत्र
गच्छति ॥ ८७ ॥
मधुलुब्धो
मधुकरः
पम्पातीरद्रुमेष्वसौ ।
इयं
कुसुमसङ्घातैरुपस्तीर्णा
सुखाकृता ॥ ८८ ॥
स्वयं
निपतितैर्भूमिः
शयनप्रस्तरैरिव ।
विविधा
विविधैः
पुष्पैस्तैरेव
नगसानुषु ॥ ८९ ॥
विकीर्णैः
पीतरक्ता
हि
सौमित्रे
प्रस्तराः
कृताः ।
हिमान्ते
पश्य
सौमित्रे
वृक्षाणां
पुष्पसम्भवम् ॥ ९० ॥
आह्वयन्त
इवान्योन्यं
नगाः
षट्पदनादिताः ।
कुसुमोत्तंसविटपाः
शोभन्ते
बहु
लक्ष्मण ॥ ९१ ॥
एष
कारण्डवः
पक्षी
विगाह्य
सलिलं
शुभम् ।
रमते
कान्तया
सार्धं
काममुद्दीपयन्
मम ॥ ९२ ॥
मन्दाकिन्यास्तु
यदिदं
रूपमेवं
मनोहरम् ।
स्थाने
जगति
विख्याता
गुणास्तस्या
मनोरमाः ॥ ९३ ॥
यदि
दृश्येत
सा
साध्वी
यदि
चेह
वसेमहि ।
स्पृहयेयं
न
शक्राय
नायोध्यायै
रघूत्तम ॥ ९४ ॥
न
ह्येवं
रमणीयेषु
शाद्वलेषु
तया
सह ।
रमतो
मे
भवेच्चिन्ता
न
स्पृहाऽन्येषु
वा
भवेत् ॥ ९५ ॥
अमी
हि
विविधैः
पुष्पैस्तरवो
रुचिरच्छदाः ।
काननेऽस्मिन्
विना
कान्तां
चित्तमुन्मादयन्ति
मे ॥ ९६ ॥
चक्रवाकानुचरितां
कारण्डवनिषेविताम् ।
प्लवैः
क्रौञ्चैश्च
सम्पूर्णां
वराहमृगसेविताम् ॥ ९७ ॥
अधिकं
शोभते
पम्पा
विकूजद्भिर्विहङ्गमैः ।
दीपयन्तीव
मे
कामं
विविधा
मुदिता
द्विजाः ॥ ९८ ॥
श्यामां
चन्द्रमुखीं
स्मृत्वा
प्रियां
पद्मनिभेक्षणाम् ।
पश्य
सानुषु
चित्रेषु
मृगीभिः
सहितान्
मृगान् ॥ ९९ ॥
मां
पुनर्मृगशावाक्ष्या
वैदेह्या
विरहीकृतम् ।
व्यथयन्तीव
मे
चित्तं
सञ्चरन्तस्ततस्ततः ॥ १०० ॥
अस्मिन्
सानुनि
रम्ये
हि
मत्तद्विजगणायुते ।
पश्येयं
यदि
तां
कान्तां
ततः
स्वस्ति
भवेन्मम ॥ १०१ ॥
जीवेयं
खलु
सौमित्रे
मया
सह
सुमध्यमा ।
सेवते
यदि
वैदेही
पम्पायाः
पवनं
सुखम् ॥ १०२ ॥
पद्मसौगन्धिकवहं
शिवं
शोकविनाशनम् ।
धन्या
लक्ष्मण
सेवन्ते
पम्पोपवनमारुतम् ॥ १०३ ॥
श्यामा
पद्मपलाशाक्षी
प्रिया
विरहिता
मया ।
कथं
धारयति
प्राणान्
विवशा
जनकात्मजा ॥ १०४ ॥
किन्नु
वक्ष्यामि
राजानं
धर्मज्ञं
सत्यवादिनम् ।
सीताया
जनकं
पृष्टः
कुशलं
जनसंसदि ॥ १०५ ॥
या
मामनुगता
मन्दं
पित्रा
प्रव्राजितं
वनम् ।
सीता
सत्पथमास्थाय
क्वनु
सा
वर्तते
प्रिया ॥ १०६ ॥
तया
विहीनः
कृपणः
कथं
लक्ष्मण
धारये ।
या
मामनुगता
राज्याद्भ्रष्टं
विगतचेतसम् ॥ १०७ ॥
तच्चार्वञ्चितपक्ष्माक्षं
सुगन्धि
शुभमव्रणम् ।
अपश्यतो
मुखं
तस्याः
सीदतीव
मनो
मम ॥ १०८ ॥
स्मितहास्यान्तरयुतं
गुणवन्मधुरं
हितम् ।
वैदेह्या
वाक्यमतुलं
कदा
श्रोष्यामि
लक्ष्मण ॥ १०९ ॥
प्राप्य
दुःखं
वने
श्यामा
सा
मां
मन्मथकर्शितम् ।
नष्टदुःखेव
हृष्टेव
साध्वी
साध्वभ्यभाषत ॥ ११० ॥
किन्नु
वक्ष्यामि
कौसल्यामयोध्यायां
नृपात्मज ।
क्व
सा
स्नुषेति
पृच्छन्तीं
कथं
चातिमनस्विनीम् ॥ १११ ॥
गच्छ
लक्ष्मण
पश्य
त्वं
भरतं
भ्रातृवत्सलम् ।
नह्यहं
जीवितुं
शक्तस्तामृते
जनकात्मजाम् ॥ ११२ ॥
इति
रामं
महात्मानं
विलपन्तमनाथवत् ।
उवाच
लक्ष्मणो
भ्राता
वचनं
युक्तमव्ययम् ॥ ११३ ॥
संस्तम्भ
राम
भद्रं
ते
मा
शुचः
पुरुषोत्तम ।
नेदृशानां
मतिर्मन्दा
भवत्यकलुषात्मनाम् ॥ ११४ ॥
स्मृत्वा
वियोगजं
दुःखं
त्यज
स्नेहं
प्रिये
जने ।
अतिस्नेहपरिष्वङ्गाद्वर्तिरार्द्रापि
दह्यते ॥ ११५ ॥
यदि
गच्छति
पातालं
ततो
ह्यधिकमेव
वा ।
सर्वथा
रावणस्तावन्न
भविष्यति
राघव ॥ ११६ ॥
प्रवृत्तिर्लभ्यतां
तावत्तस्य
पापस्य
रक्षसः ।
ततो
हास्यति
वा
सीतां
निधनं
वा
गमिष्यति ॥ ११७ ॥
यदि
यात्यदितेर्गर्भं
रावणः
सह
सीतया ।
तत्राप्येनं
हनिष्यामि
न
चेद्धास्यति
मैथिलीम् ॥ ११८ ॥
स्वास्थ्यं
भद्रं
भजस्वार्य
त्यज्यतां
कृपणा
मतिः ।
अर्थो
हि
नष्टकार्यार्थैर्नायत्नेनाधिगम्यते ॥ ११९ ॥
उत्साहो
बलवानार्य
नास्त्युत्साहात्परं
बलम् ।
सोत्साहस्यास्ति
लोकेऽस्मिन्
न
किञ्चिदपि
दुर्लभम् ॥ १२० ॥
उत्साहवन्तः
पुरुषा
नावसीदन्ति
कर्मसु ।
उत्साहमात्रमाश्रित्य
सीतां
प्रति
लभेमहि ॥ १२१ ॥
त्यज्यतां
कामवृत्तत्वं
शोकं
सन्न्यस्य
पृष्ठतः ।
महात्मानं
कृतात्मानमात्मानं
नावबुद्ध्यसे ॥ १२२ ॥
एवं
सम्बोधितस्तत्र
शोकोपहतचेतनः ।
न्यस्य
शोकं
च
मोहं
च
ततो
धैर्यमुपागमत् ॥ १२३ ॥
सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः ।
रामः
पम्पां
सुरुचिरां
रम्यपारिप्लवद्रुमाम् ॥ १२४ ॥
निरीक्षमाणः
सहसा
महात्मा
सर्वं
वनं
निर्झरकन्दरांश्च ।
उद्विग्नचेताः
सह
लक्ष्मणेन
विचार्य
दुःखोपहतः
प्रतस्थे ॥ १२५ ॥
तं
मत्तमातङ्गविलासगामी
गच्छन्तमव्यग्रमना
महात्मा ।
स
लक्ष्मणो
राघवमप्रमत्तो
ररक्ष
धर्मेण
बलेन
चैव ॥ १२६ ॥
तावृश्यमूकस्य
समीपचारी
चरन्
ददर्शाद्भुतदर्शनीयौ ।
शाखामृगाणामधिपस्तरस्वी
वितत्रसे
नैव
चिचेष्ट
किञ्चित् ॥ १२७ ॥
स
तौ
महात्मा
गजमन्दगामी
शाखामृगस्तत्र
चिरं
चरन्तौ ।
दृष्ट्वा
विषादं
परमं
जगाम
चिन्तापरीतो
भयभारमग्नः ॥ १२८ ॥
तमाश्रमं
पुण्यसुखं
शरण्यं
सदैव
शाखामृगसेवितान्तम् ।
त्रस्ताश्च
दृष्ट्वा
हरयोभिजग्मुर्महौजसौ
राघवलक्ष्मणौ
तौ ॥ १२९ ॥