तौ
तु
दृष्ट्वा
महात्मानौ
भ्रातरौ
रामलक्ष्मणौ ।
वरायुधधरौ
वीरौ
सुग्रीवः
शङ्कितोऽभवत् ॥ १ ॥
उद्विग्नहृदयः
सर्वा
दिशः
समवलोकयन् ।
न
व्यतिष्ठत
कस्मिंश्चिद्देशे
वानरपुङ्गवः ॥ २ ॥
नैव
चक्रे
मनः
स्थाने
वीक्षमाणो
महाबलौ ।
कपेः
परमभीतस्य
चित्तं
व्यवससाद
ह ॥ ३ ॥
चिन्तयित्वा
स
धर्मात्मा
विमृश्य
गुरुलाघवम् ।
सुग्रीवः
परमोद्विग्नः
सर्वैरनुचरैः
सह ॥ ४ ॥
ततः
स
सचिवेभ्यस्तु
सुग्रीवः
प्लवगाधिपः ।
शशंस
परमोद्विग्नः
पश्यंस्तौ
रामलक्ष्मणौ ॥ ५ ॥
एतौ
वनमिदं
दुर्गं
वालिप्रणिहितौ
ध्रुवम् ।
छद्भना
चीरवसनौ
प्रचरन्ताविहागतौ ॥ ६ ॥
ततः
सुग्रीवसचिवा
दृष्ट्वा
परमधन्विनौ ।
जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ॥ ७ ॥
ते
क्षिप्रमधिगम्याथ
यूथपा
यूथपर्षभम् ।
हरयो
वानरश्रेष्ठं
परिवार्योपतस्थिरे ॥ ८ ॥
एकमेकायनगताः
प्लवमाना
गिरेर्गिरिम् ।
प्रकम्पयन्तो
वेगेन
गिरीणां
शिखराण्यपि ॥ ९ ॥
ततः
शाखामृगाः
सर्वे
प्लवमाना
महाबलाः ।
बभञ्जुश्च
नगांस्तत्र
पुष्पितान्
दुर्गसंश्रितान् ॥ १० ॥
आप्लवन्तो
हरिवराः
सर्वतस्तं
महागिरिम् ।
मृगमार्जारशार्दूलांस्त्रासयन्तो
ययुस्तदा ॥ ११ ॥
ततः
सुग्रीवसचिवाः
पर्वतेन्द्रं
समाश्रिताः ।
सङ्गम्य
कपिमुख्येन
सर्वे
प्राञ्जलयः
स्थिताः ॥ १२ ॥
ततस्तं
भयसंविग्नं
वालिकिल्बिषशङ्कितम् ।
उवाच
हनुमान्
वाक्यं
सुग्रीवं
वाक्यकोविदः ॥ १३ ॥
सम्भ्रमस्त्यज्यतामेष
सर्वैर्वालिकृते
महान् ।
मलयोऽयं
गिरिवरो
भयं
नेहास्ति
वालिनः ॥ १४ ॥
यस्मादुद्विग्नचेतास्त्वं
प्रद्रुतो
हरिपुङ्गव ।
तं
क्रूरदर्शनं
क्रूरं
नेह
पश्यामि
वालिनम् ॥ १५ ॥
यस्मात्तव
भयं
सौम्य
पूर्वजात्
पापकर्मणः ।
स
नेह
वाली
दुष्टात्मा
न
ते
पश्याम्यहं
भयम् ॥ १६ ॥
अहो
शाखामृगत्वं
ते
व्यक्तमेव
प्लवङ्गम ।
लघुचित्ततयात्मानं
न
स्थापयसि
यो
मतौ ॥ १७ ॥
बुद्धिविज्ञानसम्पन्न
इङ्गितैः
सर्वमाचर ।
न
ह्यबुद्धिं
गतो
राजा
सर्वभूतानि
शास्ति
हि ॥ १८ ॥
सुग्रीवस्तु
शुभं
वाक्यं
श्रुत्वा
सर्वं
हनूमतः ।
ततः
शुभतरं
वाक्यं
हनूमन्तमुवाच
ह ॥ १९ ॥
दीर्घबाहू
विशालाक्षौ
शरचापासिधारिणौ ।
कस्य
न
स्याद्भयं
दृष्ट्वा
ह्येतौ
सुरसुतोपमौ ॥ २० ॥
वालिप्रणिहितावेतौ
शङ्केऽहं
पुरुषोत्तमौ ।
राजानो
बहुमित्राश्च
विश्वासो
नात्र
हि
क्षमः ॥ २१ ॥
अरयश्च
मनुष्येण
विज्ञेयाश्छन्नचारिणः ।
विश्वस्तानामविश्वस्ता
रन्ध्रेषु
प्रहरन्ति
हि ॥ २२ ॥
कृत्येषु
वाली
मेधावी
राजानो
बहुदर्शनाः ।
भवन्ति
परहन्तारस्ते
ज्ञेयाः
प्राकृतैर्नरैः ॥ २३ ॥
तौ
त्वया
प्राकृतेनैव
गत्वा
ज्ञेयौ
प्लवङ्गम ।
इङ्गितानां
प्रकरैश्च
रूपव्याभाषणेन
च ॥ २४ ॥
लक्षयस्व
तयोर्भावं
प्रहृष्टमनसौ
यदि ।
विश्वासयन्
प्रशंसाभिरिङ्गितैश्च
पुनःपुनः ॥ २५ ॥
ममैवाभिमुखं
स्थित्वा
पृच्छ
त्वं
हरिपुङ्गव ।
प्रयोजनं
प्रवेशस्य
वनस्यास्य
धनुर्धरौ ॥ २६ ॥
शुद्धात्मानौ
यदि
त्वेतौ
जानीहि
त्वं
प्लवङ्गम ।
व्याभाषितैर्वा
विज्ञेया
स्याद्दुष्टादुष्टता
तयोः ॥ २७ ॥
इत्येवं
कपिराजेन
सन्दिष्टो
मारुतात्मजः ।
चकार
गमने
बुद्धिं
यत्र
तौ
रामलक्ष्मणौ ॥ २८ ॥
तथेति
संपूज्य
वचस्तु
तस्य
तत्कपेः
सुभीमस्य
दुरासदस्य
च ।
महानुभावो
हनुमान्ययौ
तदा
स
यत्र
रामोऽतिबलश्च
लक्ष्मणः ॥ २९ ॥