वचो
विज्ञाय
हनुमान्
सुग्रीवस्य
महात्मनः ।
पर्वतादृश्यमूकात्तु
पुप्लुवे
यत्र
राघवौ ॥ १ ॥
कपिरूपं
परित्यज्य
हनुमान्
मारुतात्मजः ।
भिक्षुरूपं
ततो
भेजे
शठबुद्धितया
कपिः ॥ २ ॥
विनीतवदुपागम्य
राघवौ
प्रणिपत्य
च ।
आबभाषे
तदा
वीरौ
यथावत्
प्रशशंस
च ॥ ३ ॥
सम्पूज्य
विधिवद्वीरो
हनुमान्
मारुतात्मजः ।
उवाच
कामतो
वाक्यं
मृदु
सत्यपराक्रमौ ॥ ४ ॥
राजर्षिदेवप्रतिमौ
तापसौ
संशितव्रतौ ।
देशं
कथमिमं
प्राप्तौ
भवन्तौ
वरवर्णिनौ ॥ ५ ॥
त्रासयन्तौ
मृगगणानन्यांश्च
वनचारिणः ।
पम्पातीररुहान्
वृक्षान्
वीक्षमाणौ
समन्ततः ॥ ६ ॥
इमां
नदीं
शुभजलां
शोभयन्तौ
तपस्विनौ ।
धैर्यवन्तौ
सुवर्णाभौ
कौ
युवां
चीरवाससौ ॥ ७ ॥
निःश्वसन्तौ
वरभुजौ
पीडयन्ताविमाः
प्रजाः ।
सिंहविप्रेक्षितौ
वीरौ
सिंहातिबलविक्रमौ ॥ ८ ॥
शक्रचापनिभे
चापे
गृहीत्वा
शत्रुसूदनौ ।
श्रीमन्तौ
रूपसम्पन्नौ
वृषभश्रेष्ठविक्रमौ ॥ ९ ॥
हस्तिहस्तोपमभुजौ
द्युतिमन्तौ
नरर्षभौ ।
प्रभया
पर्वतेन्द्रोऽयं
युवयोरवभासितः ॥ १० ॥
राज्यार्हावमरप्रख्यौ
कथं
देशमिहागतौ ।
पद्मपत्त्रेक्षणौ
वीरौ
जटामण्डलधारिणौ ॥ ११ ॥
अन्योन्यसदृशौ
वीरौ
देवलोकादिवागतौ ।
यदृच्छयेव
सम्प्राप्तौ
चन्द्रसूर्यौ
वसुन्धराम् ॥ १२ ॥
विशालवक्षसौ
वीरौ
मानुषौ
देवरूपिणौ ।
सिंहस्कन्धौ
महोत्साहौ
समदाविव
गोवृषौ ॥ १३ ॥
आयताश्च
सुवृत्ताश्च
बाहवः
परिघोपमाः ।
सर्वभूषणभूषार्हाः
किमर्थं
न
विभूषिताः ॥ १४ ॥
उभौ
योग्यावहं
मन्ये
रक्षितुं
पृथिवीमिमाम् ।
ससागरवनां
कृत्स्नां
विन्ध्यमेरुविभूषिताम् ॥ १५ ॥
इमे
च
धनुषी
चित्रे
श्लक्ष्णे
चित्रानुलेपने ।
प्रकाशेते
यथेन्द्रस्य
वज्रे
हेमविभूषिते ॥ १६ ॥
सम्पूर्णा
निशितैर्बाणैस्तूणाश्च
शुभदर्शनाः ।
जीवितान्तकरैर्घोरैः
श्वसद्भिरिव
पन्नगैः ॥ १७ ॥
महाप्रमाणौ
विस्तीर्णौ
तप्तहाटकभूषितौ ।
खड्गावैतौ
विराजेते
निर्मुक्ताविव
पन्नागौ ॥ १८ ॥
एवं
मां
परिभाषन्तं
कस्माद्वै
नाभिभाषथः ।
सुग्रीवो
नाम
धर्मात्मा
कश्चिद्वानरयूथपः ॥ १९ ॥
वीरो
विनिकृतो
भ्रात्रा
जगद्भ्रमति
दुःखितः ।
प्राप्तोऽहं
प्रेषितस्तेन
सुग्रीवेण
महात्मना ॥ २० ॥
राज्ञा
वानरमुख्यानां
हनूमान्नाम
वानरः ।
युवाभ्यां
सह
धर्मात्मा
सुग्रीवः
सख्यमिच्छति ॥ २१ ॥
तस्य
मां
सचिवं
वित्तं
वानरं
पवनात्मजम् ।
भिक्षुरूपप्रतिच्छन्नं
सुग्रीवप्रियकाम्यया ॥ २२ ॥
ऋश्यमूकादिह
प्राप्तं
कामगं
कामरूपिणम् ।
एवमुक्त्वा
तु
हनुमांस्तौ
वीरौ
रामलक्ष्मणौ ॥ २३ ॥
वाक्यज्ञौ
वाक्यकुशलः
पुनर्नोवाच
किञ्चन ।
एतच्छ्रुत्वा
वचस्तस्य
रामो
लक्ष्मणमब्रवीत् ॥ २४ ॥
प्रहृष्टवदनः
श्रीमान्
भ्रातरं
पार्श्वतः
स्थितम् ।
सचिवोऽयं
कपीन्द्रस्य
सुग्रीवस्य
महात्मनः ॥ २५ ॥
तमेव
काङ्क्षमाणस्य
ममान्तिकमुपागतः ।
तमभ्यभाष
सौमित्रे
सुग्रीवसचिवं
कपिम् ॥ २६ ॥
वाक्यज्ञं
मधुरैर्वाक्यैः
स्नेहयुक्तमरिन्दम ।
नानृग्वेदविनीतस्य
नायजुर्वेदधारिणः ॥ २७ ॥
नासामवेदविदुषः
शक्यमेवं
प्रभाषितुम् ।
नूनं
व्याकरणं
कृत्स्नमनेन
बहुधा
श्रुतम् ॥ २८ ॥
बहु
व्याहरताऽनेन
न
किञ्चिदपशब्दितम् ।
न
मुखे
नेत्रयोर्वापि
ललाटे
च
भ्रुवोस्तथा ॥ २९ ॥
अन्येष्वपि
च
गात्रेषु
दोषः
संविदितः
क्वचित् ।
अविस्तरमसन्दिग्धमविलम्बितमद्रुतम् ॥ ३० ॥
उरःस्थं
कण्ठगं
वाक्यं
वर्तते
मध्यमे
स्वरे ।
संस्कारक्रमसम्पन्नामद्रुतामविलम्बिताम् ॥ ३१ ॥
उञ्चारययति
कल्यार्णीं
वाचं
हृदयहारिणीम् ।
अनया
चित्रया
वाचा
त्रिस्थानव्यञ्चनस्थया ॥ ३२ ॥
कस्य
नाराध्यते
चित्तमुद्यतासेररेरपि ।
एवंविधो
यस्य
दूतो
न
भवेत्पार्थिवस्य
तु ॥ ३३ ॥
सिध्यन्ति
हि
कथं
तस्य
कार्याणां
गतयोऽनघ ।
एवं
गुणगणैर्युक्ता
यस्य
स्युः
कार्यसाधकाः ॥ ३४ ॥
तस्य
सिद्ध्यन्ति
सर्वार्था
दूतवाक्यप्रचोदिताः ।
एवमुक्तस्तु
सौमित्रिः
सुग्रीवसचिवं
कपिम् ॥ ३५ ॥
अभ्यभाषत
वाक्यज्ञो
वाक्यज्ञं
पवनात्मजम् ।
विदिता
नौ
गुणा
विद्वन्
सुग्रीवस्य
महात्मनः ॥ ३६ ॥
तमेवं
चावां
मार्गावः
सुग्रीवं
प्लवगेश्वरम् ।
यथा
ब्रवीषि
हनुमन्
सुग्रीववचनादिह ॥ ३७ ॥
तत्तथा
हि
करिष्यावो
वचनात्तव
सत्तम ।
तत्तस्य
वाक्यं
निपुणं
निशम्य
प्रहृष्टरूपः
पवनात्मजः
कपिः ॥ ३८ ॥
मनः
समाधाय
जयोपपत्तौ
सख्यं
तदा
कर्तुमियेष
ताभ्याम् ॥ ३९ ॥