ततः
प्रहृष्टो
हनुमान्
कृत्यवानिति
तद्वचः ।
श्रुत्वा
मधुरसम्भाषं
सुग्रीवं
मनसा
गतः ॥ १ ॥
भव्यो
राज्यागमस्तस्य
सुग्रीवस्य
महात्मनः ।
यदयं
कृत्यवान्
प्राप्तः
कृत्यं
चैतदुपागतम् ॥ २ ॥
ततः
परमसंहृष्टो
हमुमान्
प्लवगर्षभः ।
प्रत्युवाच
ततो
वाक्यं
रामं
वाक्यविशारदः ॥ ३ ॥
किमर्थं
त्वं
वनं
घोरं
पम्पाकाननमण्डितम् ।
आगतः
सानुजौ
दुर्गं
नानाव्यालमृगायुतम् ॥ ४ ॥
तस्य
तद्वचनं
श्रुत्वा
लक्ष्मणो
रामचोदितः ।
आचचक्षे
महात्मानं
रामं
दशरथात्मजम् ॥ ५ ॥
राजा
दशरथो
नाम
द्युतिमान्
दर्मवत्सलः ।
चातुर्वर्ण्यं
स्वधर्मेण
नित्यमेवाभ्यपालयत् ॥ ६ ॥
स
च
सर्वेषु
भूतेषु
पितामह
इवापरः ।
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ॥ ७ ॥
तस्यायं
पूर्वजः
पुत्रो
रामो
नाम
जनैः
श्रुतः ।
शरण्यः
सर्वभूतानां
पितुर्निर्देषपारगः ॥ ८ ॥
वीरो
दशरथस्यायं
पुत्राणां
गुणवत्तमः ।
राजलक्षणसम्पन्नः
संयुक्तो
राजसम्पदा ॥ ९ ॥
राज्याद्भ्रष्टो
वने
वस्तुं
मया
सार्धमिहागतः ।
भार्यया
च
महातेजाः
सीतयाऽनुगतो
वशी ॥ १० ॥
दिनक्षये
महातेजाः
प्रभयेव
दिवाकरः ।
अहमस्यावरो
भ्राता
गुणैर्दास्यमुपागतः ॥ ११ ॥
कृतज्ञस्य
बहुज्ञस्य
लक्ष्मणो
नाम
नामतः ।
सुखार्हस्य
महार्हस्य
सर्वभूतहितात्मनः ॥ १२ ॥
ऐश्वर्येण
च
हीनस्य
वनवासाश्रितस्य
च ।
रक्षसाऽपहृता
भार्या
रहिते
कामरूपिणा ॥ १३ ॥
तञ्च
न
ज्ञायते
रक्षः
पत्नी
येनास्य
सा
हृता ।
दनुर्नाम
दितेः
पुत्रः
शापाद्राक्षसतां
गतः ॥ १४ ॥
आख्यातस्तेन
सुग्रीवः
समर्थो
वानमर्षभः ।
स
ज्ञास्यति
महावीर्यस्तव
भार्यापहारिणम् ॥ १५ ॥
एवमुक्त्वा
दनुः
स्वर्गं
भ्राजमानो
गतः
सुखम् ।
एतत्ते
सर्वमाख्यातं
याथातथ्येन
पृच्छतः ॥ १६ ॥
अहं
चैव
हि
रामश्च
सुग्रीवं
शरणं
गतौ ।
एष
दत्त्वा
च
वित्तानि
प्राप्य
चानुत्तमं
यशः ॥ १७ ॥
लोकनाथः
पुरा
भूत्वा
सुग्रीवं
नाथमिच्छति ।
पिता
यस्य
पुरा
ह्यासीच्छरण्यो
धर्मवत्सलः ॥ १८ ॥
तस्य
पुत्रः
शरण्यश्च
सुग्रीवं
शरणं
गतः ।
सर्वलोकस्य
धर्मात्मा
शरण्यः
शरणं
पुरा ॥ १९ ॥
गुरुर्मे
राघवः
सोऽयं
सुग्रीवं
शरणं
गतः ।
यस्य
प्रसादे
सततं
प्रसीदेयुरिमाः
प्रजाः ॥ २० ॥
स
रामो
वानरेन्दस्य
प्रसादमभिकाङ्क्षते ।
येन
सर्वगुणोपेताः
पृथिव्यां
सर्वपार्थिवाः ॥ २१ ॥
मानिताः
सततं
राज्ञा
सदा
दशरथेन
वै ।
तस्यायं
पूर्वजः
पुत्रस्त्रिषु
लोकेषु
विश्रुतः ॥ २२ ॥
सुग्रीवं
वानरेन्द्रं
तु
रामः
शरणमागतः ।
शोकाभिभूते
रामे
तु
शोकार्तं
शरणं
गते ॥ २३ ॥
कर्तुमर्हति
सुग्रीवः
प्रसादं
हरियूथपः ।
एवं
ब्रुवाणं
सौमित्रिं
करुणं
साश्रुलोचनम् ॥ २४ ॥
हनुमान्
प्रत्युवाचेदं
वाक्यं
वाक्यविशारदः ।
ईदृशा
बुद्धिसम्पन्ना
जितक्रोधा
जितेन्द्रियाः ॥ २५ ॥
द्रष्टव्या
वानरेन्द्रेण
दिष्ट्या
दर्शनमागताः ।
स
हि
राज्यात्परिभ्रष्टः
कृतवैरश्च
वालिना ॥ २६ ॥
हृतदारो
वने
त्यक्तो
भ्रात्रा
विनिकृतो
भृशम् ।
करिष्यति
स
साहाय्यं
युवयोर्भास्करात्मजः ॥ २७ ॥
सुग्रीवः
सह
चास्माभिः
सीतायाः
परिमार्गणे ।
इत्येवमुक्त्वा
हनुमान्
श्लक्ष्णं
मधुरया
गिरा ॥ २८ ॥
बभाषे
सोऽभिगच्छेम
सुग्रीवमिति
राघवम् ।
एवं
ब्रुवाणं
धर्मात्मा
हनुमन्तं
स
लक्ष्मणः ॥ २९ ॥
प्रतिपूज्य
यथान्यायमिदं
प्रोवाच
राघवम् ।
कपिः
कथयते
हृष्टो
यथाऽयं
मारुतात्मजः ॥ ३० ॥
कृत्यवान्
सोऽपि
सम्प्राप्तः
कृतकृत्योऽसि
राघव ।
प्रसन्नमुखवर्णश्च
व्यक्तं
हृष्टश्च
भाषते ॥ ३१ ॥
नानृतं
वक्ष्यते
वीरो
हनुमान्
मारुतात्मजः ।
ततः
स
तु
महाप्राज्ञो
हनुमान्मारुतात्मजः ॥ ३२ ॥
जगामादाय
तौ
वीरौ
हरिराजाय
राघवौ ।
भिक्षुरूपं
परित्यज्य
वानरं
रूपमास्थितः ॥ ३३ ॥
पृष्ठमारोप्य
तौ
वीरौ
जगाम
कपिकुञ्जरः ।
स
तु
विपुलयशाः
कपिप्रवीरः
पवनसुतः
कृतकृत्यवत्प्रहृष्टः ॥ ३४ ॥
गिरिवरमुरुविक्रमः
प्रयातः
सुशुभमतिः
सह
रामलक्ष्मणाभ्याम् ॥ ३५ ॥