पुनरेवाब्रवीत्
प्रीतो
राघवं
रघुनन्दनम् ।
अयमाख्याति
मे
राम
सचिवो
मन्त्रिसत्तमः ॥ १ ॥
हनुमान्
यन्निमित्तं
त्वं
निर्जनं
वनमागतः ।
लक्ष्मणेन
सह
भ्रात्रा
वसतश्च
वने
तव ॥ २ ॥
रक्षसाऽपहृता
भार्या
मैथिली
जनकात्मजा ।
त्वया
वियुक्ता
रुदती
लक्ष्मणेन
च
धीमता ॥ ३ ॥
अन्तरप्रेप्सुना
तेन
हत्वा
गृध्रं
जटायुषम् ।
भार्यावियोगजं
दुःखमचिरात्त्वं
विमोक्ष्यसे ॥ ४ ॥
अहं
तामानयिष्यामि
नष्टां
वेदश्रुतीमिव ।
रसातले
वा
वर्तन्तीं
वर्तन्तीं
वा
नभस्तले ॥ ५ ॥
अहमानीय
दास्यामि
तव
भार्यामरिन्दम ।
इदं
तथ्यं
मम
वचस्त्वमवेहि
च
राघव ॥ ६ ॥
न
शक्या
सा
जरयितुमपि
सेन्द्रैः
सुरासुरैः ।
तव
भार्या
महाबाहो
भक्ष्यं
विषकृतं
यथा ॥ ७ ॥
त्यज
शोकं
महाबाहो
तां
कान्तमानयामि
ते ।
अनुमानात्तु
जानामि
मैथिली
सा
न
संशयः ॥ ८ ॥
क्रोशन्ती
राम
रामेति
लक्ष्मणेति
च
विस्वरम् ।
स्फुरन्ती
रावणस्याङ्के
पन्नगेन्द्रवधूर्यथा ॥ ९ ॥
आत्मना
प़ञ्चमं
मां
हि
दृष्ट्वा
शैलतटे
स्थितम् ।
उत्तरीयं
तया
त्यक्तं
शुभान्याभरणानि
च ॥ १० ॥
तान्यस्माभिर्गृहीतानि
निहितानि
च
राघव ।
आनयिष्याम्यहं
तानि
प्रत्यभिज्ञातुमर्हसि ॥ ११ ॥
तमब्रवीत्ततो
रामः
सुग्रीवं
प्रियवादिनम् ।
आनयस्व
सखे
शीघ्रं
किमर्थं
प्रविलम्बसे ॥ १२ ॥
एवमुक्तस्तु
सुग्रीवः
शैलस्य
गहनां
गुहाम् ।
प्रविवेश
ततः
शीघ्रं
राघवप्रियकाम्यया ॥ १३ ॥
उत्तरीयं
गृहीत्वा
तु
शुभान्याभरणानि
च ।
इदं
पश्येति
रामाय
दर्शयामास
वानरः ॥ १४ ॥
ततो
गृहीत्वा
तद्वासः
शुभान्याभरणानि
च ।
अभवद्बाष्पसंरुद्धो
नीहारेणेव
चन्द्रमाः ॥ १५ ॥
सीतास्नेहप्रवृत्तेन
स
तु
बाष्पेण
दूषितः ।
हा
प्रियेति
रुदन्
धैर्यमुत्सृज्य
न्यपतत्
क्षितौ ॥ १६ ॥
हृदि
कृत्वा
तु
बहुशस्तमलङ्कारमुत्तमम् ।
निशश्वास
भृशं
सर्पो
बिलस्थ
इव
रोषितः ॥ १७ ॥
अविच्छिन्नाश्रुवेगस्तु
सौमित्रिं
वीक्ष्य
पार्श्वतः ।
परिदेवयितुं
दीनं
रामः
समुपचक्रमे ॥ १८ ॥
पश्य
लक्ष्मण
वैदेह्या
सन्त्यक्तं
ह्रियमाणया ।
उत्तरीयमिदं
भूमै
शरीराद्भूषणानि
च ॥ १९ ॥
शाद्वलिन्यां
ध्रुवं
भूम्यां
सीतया
ह्रियमाणया ।
उत्सृष्टं
भूषणमिदं
तथारूपं
हि
दृश्यते ॥ २० ॥
नाहं
जानामि
केयूरे
नाहं
जानामि
कुण्डले ।
नूपुरे
त्वभिजानामि
नित्यं
पादाभिवन्दनात् ॥ २१ ॥
ततः
स
राघवो
दीनः
सुग्रीवमिदमब्रवीत् ।
ब्रूहि
सुग्रीव
कं
देशं
ह्रियन्ती
लक्षिता
त्वया ॥ २२ ॥
रक्षसा
रौद्ररूपेण
मम
प्राणैः
प्रिया
प्रिया ।
क्व
वा
वसति
तद्रक्षो
महद्व्यसनदं
मम ॥ २३ ॥
यन्निमित्तमहं
सर्वान्नाशयिष्यामि
राक्षसान् ।
हरता
मैथिलीं
येन
मां
च
रोषयता
भृशम् ॥ २४ ॥
आत्मनो
जीवितान्ताय
मृत्युद्वारमपावृतम् ।
मम
दयिततरा
हृता
वनान्ताद्रजनिचरेण
विमथ्य
येन
सा ॥ २५ ॥
कथम
मम
रिपुं
त्वमद्य
वै
प्लवगपते
यमसादनं
नयामि ॥ २६ ॥