वाली
नाम
मम
भ्राता
ज्येष्ठः
शत्रुनिषूदनः ।
पितुर्बहुमतो
नित्यं
ममापि
च
तथा
पुरा ॥ १ ॥
पितर्युपरतेऽस्माकं
ज्येष्ठोऽयमिति
मन्त्रिभिः ।
कपीनामीश्वरो
राज्ये
कृतः
परमसम्मतः ॥ २ ॥
राज्यं
प्रशासतस्तस्य
पितृपैतामहं
महत् ।
अहं
सर्वेषु
कालेषु
प्रणतः
प्रेष्यवत्स्थितः ॥ ३ ॥
मायावी
नाम
तेजस्वी
पूर्वजो
दुन्दुभेः
सुतः ।
तेन
तस्य
महद्वैरं
स्त्रीकृतं
विश्रुतं
पुरा ॥ ४ ॥
स
तु
सुप्तजने
रात्रै
किष्किन्धाद्वारमागतः ।
नर्दति
स्म
सुसंरब्धो
वालिनं
चाह्वयद्रणे ॥ ५ ॥
प्रसुप्तस्तु
मम
भ्राता
नर्दितं
भैरवस्वनम् ।
श्रुत्वा
न
ममृषे
वाली
निष्पपात
जवात्तदा ॥ ६ ॥
स
तु
वै
निःसृतः
क्रोधात्तं
हन्तुमसुरोत्तमम् ।
वार्यमाणस्ततः
स्त्रीभिर्मया
च
प्रणतात्मना ॥ ७ ॥
स
तु
निर्धूय
सर्वान्नो
निर्जगाम
महाबलः ।
ततोऽहमपि
सौहार्दान्निःसृतो
वालिना
सह ॥ ८ ॥
स
तु
मे
भ्रातरं
दृष्ट्वा
मां
च
दूरादवस्थिम् ।
असुरो
जातसन्त्रासः
प्रदुद्राव
ततो
भृशम् ॥ ९ ॥
तस्मिन्
द्रवति
सन्त्रस्ते
ह्यावां
द्रुततरं
गतौ ।
प्रकाशश्च
कृतो
मार्गश्चन्द्रेणोद्गच्छता
तदा ॥ १० ॥
स
तृणैरावृतं
दुर्गं
धरण्या
विवरं
महत् ।
प्रविवेशासुरो
वेगादावामासाद्य
विष्ठितौ ॥ ११ ॥
तं
प्रविष्टं
रिपुं
दृष्ट्वा
बिलं
रोषवशङ्गतः ।
मामुवाच
तदा
वाली
वचनं
क्षुभितेन्द्रियः ॥ १२ ॥
इह
त्वं
तिष्ठ
सुग्रीव
बिलद्वारि
समाहितः ।
यावत्तत्र
प्रविश्याहं
निहन्मि
सहसा
रिपुम् ॥ १३ ॥
मया
त्वेतद्वचः
श्रुत्वा
याचितः
स
परन्तपः ।
शापयित्वा
तु
मां
पद्भ्यां
प्रविवेश
बिलं
महत् ॥ १४ ॥
तस्य
प्रविष्टस्य
बिलं
साग्रः
संवत्सरो
गतः ।
स्थितस्य
च
मम
द्वारि
स
कालो
व्यत्यवर्तत ॥ १५ ॥
अहं
तु
नष्टं
ज्ञात्वा
तं
स्नेहादागतसम्भ्रमः ।
भ्रातरं
न
च
पश्यामि
पापाशङ्कि
च
मे
मनः ॥ १६ ॥
अथ
दीर्घस्य
कालस्य
बिलात्तस्माद्विनिस्सृतम् ।
सफेनं
रुधिरं
रक्तमहं
दृष्ट्वा
सुदुःखितः ॥ १७ ॥
नर्दतामसुराणां
च
ध्वनिर्मे
श्रोत्रमागतः ।
निरस्तस्य
च
सङ्ग्रामे
क्रोशतो
निस्वनो
गुरोः ॥ १८ ॥
पिधाय
च
बिलद्वारं
शिलया
गिरिमात्रया ।
शोकार्तश्चोदकं
कृत्वा
किष्किन्धामागतः
सखे ॥ १९ ॥
गूहमानस्य
मे
तत्त्वं
यत्नतो
मन्त्रिभिः
श्रुतम् ।
ततोऽहं
तैः
समागम्य
सम्मतैरभिषेचितः ॥ २० ॥
राज्यं
प्रशासतस्तस्य
न्यायतो
मम
राघव ।
आजगाम
रिपुं
हत्वा
वाली
तमसुरोत्तमम् ॥ २१ ॥
अभिषिक्तं
तु
मां
दृष्ट्वा
वाली
संरक्तलोचनः ।
मदीयान्
मन्त्रिणो
बद्ध्वा
परुषं
वाक्यमब्रवीत् ॥ २२ ॥
निग्रहेऽपि
समर्थस्य
तं
पापं
प्रति
राघव ।
न
प्रावर्तत
मे
बुद्धिर्भ्रातुर्गौरवयन्त्रिता ॥ २३ ॥
हत्वा
शत्रुं
स
मे
भ्राता
प्रविवेश
पुरं
तदा ।
मानयंस्तं
महात्मानं
यथावच्चाभ्यवादयम् ॥ २४ ॥
उक्ताश्च
नाशिषस्तेन
सन्तुष्टेनान्तरात्माना ।
नत्वा
पादावहं
तस्य
मुकुटेनास्पृशं
प्रभो ॥ २५ ॥
अपि
वाली
मम
क्रोधान्न
प्रसादं
चकार
सः ॥ २६ ॥