ततः
क्रोधसमाविष्टं
संरब्धं
तमुपागतम् ।
अहं
प्रसादयाञ्चक्रे
भ्रातरं
प्रियकाम्यया ॥ १ ॥
दिष्ट्यासि
कुशली
प्राप्तो
निहतश्च
त्वया
रिपुः ।
अनाथस्य
हि
मे
नाथस्त्वमेको
नाथनन्दनः ॥ २ ॥
इदं
बहुशलाकं
ते
पूर्णचन्द्रमिवोदितम् ।
छत्त्रं
सवालव्यजनं
प्रतीच्छस्व
मयोद्यतम् ॥ ३ ॥
आर्तश्चाथ
बिलद्वारि
स्थितः
संवत्सरं
नृप ।
दृष्ट्वाहं
शोणितं
द्वारि
बिलाच्चापि
समुत्थितम् ॥ ४ ॥
अपिधाय
बिलद्वारं
शैलशृङ्गेण
तत्तथा ।
तस्माद्देशादपाक्रम्य
किष्किन्धां
प्राविशं
पुनः ॥ ५ ॥
विषादात्त्विह
मां
दृष्ट्वा
पौरैर्मन्त्रिभिरेव
च ।
अभिषिक्तो
न
कामेन
तन्मे
त्वं
क्षन्तुमर्हसि ॥ ६ ॥
त्वमेव
राजा
मानार्हः
सदा
चाहं
यथापुरम् ।
राजभावनियोगोऽयं
मया
त्वद्विरहात्कृतः ॥ ७ ॥
सामात्यपौरनगरं
स्थितं
निहतकण़्टकम् ।
न्यासभूतमिदं
राज्यं
तव
निर्यातयाम्यहम् ॥ ८ ॥
मा
च
रोषं
कृथाः
सौम्य
मयि
शत्रुनिबर्हण ।
याचे
त्वां
शिरसा
राजन्
मया
बद्धोऽयमञ्जलिः ॥ ९ ॥
बलादस्मि
समागम्य
मन्त्रिभिः
पुरवासिभिः ।
राजभावे
नियुक्तोऽहं
शून्यदेशजिगीषया ॥ १० ॥
स्निग्धमेवं
ब्रुवाणं
मां
स
तु
निर्भर्त्स्य
वानरः ।
धिक्
त्वामिति
च
मामुक्त्वा
बहु
तत्तदुवाच
ह ॥ ११ ॥
प्रकृतीश्च
समानीय
मन्त्रिणश्चैव
सम्मतान् ।
मामाह
सुहृदां
मध्ये
वाक्यं
परमगर्हितम् ॥ १२ ॥
विदितं
वो
यथा
रात्रौ
मायावी
स
महासुरः ।
मां
समाह्वयत
क्रूरो
युद्धकाङ्क्षी
सुदुर्मतिः ॥ १३ ॥
तस्य
तद्वचनं
श्रुत्वा
निस्सृतोऽहं
नृपालयात् ।
अनुयातश्च
मां
तूर्णमयं
भ्राता
सुदारुणः ॥ १४ ॥
स
तु
दृष्टैव
मां
रात्रौ
सद्वितीयं
महाबलः ।
प्राद्रवद्भयसन्त्रस्तो
वीक्ष्यावां
तमनुद्रुतौ ॥ १५ ॥
अनुद्रुतश्च
वेगेन
प्रविवेश
महाबिलम् ।
तं
प्रविष्टं
विदित्वा
तु
सुघोरं
सुमहद्बिलम् ॥ १६ ॥
अयमुक्तोऽथ
मे
भ्राता
मया
तु
क्रूरदर्शनः ।
अहत्वा
नास्ति
मे
शक्तिः
प्रतिगन्तुमितः
पुरीम् ॥ १७ ॥
बिलद्वारि
प्रतीक्ष
त्वं
यावदेनं
निहन्म्यहम् ।
स्थितोऽयमिति
मत्वा
तु
प्रविष्टोऽहं
दुरासदम् ॥ १८ ॥
तं
च
मे
मार्गमाणस्य
गतः
संवत्सरस्तदा ।
स
तु
दृष्टो
मया
शत्रुरनिर्वेदाद्भयावहः ॥ १९ ॥
निहतश्च
मया
तत्र
सोऽसुरो
बन्धुभिः
सह ।
तस्यास्यात्तु
प्रवृत्तेन
रुधिरौघेण
तद्विलम् ॥ २० ॥
पूर्णमासीद्दुराक्रामं
स्तनतस्तस्य
भूतले ।
सूदयित्वा
तु
तं
शत्रुं
विक्रान्तं
दुन्दुभेः
सुतम् ॥ २१ ॥
निष्क्रामन्नैव
पश्यामि
बिलस्य
पिहितं
मुखम् ।
विक्रोशमानस्य
तु
मे
सुग्रीवेति
पुनःपुनः ॥ २२ ॥
यदा
प्रतिवचो
नास्ति
ततोऽहं
भृशदुःखितः ।
पादप्रहारैस्तु
मया
बहुभिस्तद्विदारितम् ॥ २३ ॥
ततोऽहं
तेन
निष्क्रम्य
पथा
पुरमुपागतः ।
अत्रानेनास्मि
संरुद्धो
राज्यं
प्रार्थयताऽऽत्मनः ॥ २४ ॥
सुग्रीवेण
नृशंसेन
विस्मृत्य
भ्रातृसौहृदम् ।
एवमुक्त्वा
तु
मां
तत्र
वस्त्रेणैकेन
वानरः ॥ २५ ॥
निर्वासयामास
तदा
वाली
विगतसाध्वसः ।
तेनाहमपविद्धश्च
हृतदारश्च
राघव ॥ २६ ॥
तद्भायाच्च
मही
क्रान्तेयं
सवनार्णवा ।
ऋश्यमूकं
गिरिवरं
भार्याहरणदुःखितः ॥ २७ ॥
प्रविष्टोऽस्मि
दुराधर्षं
वालिनः
कारणान्तरे ।
एतत्ते
सर्वमाख्यातं
वैरानुकथनं
महत् ॥ २८ ॥
अनागसा
मया
प्राप्तं
व्यसनं
पश्य
राघव ।
वालिनस्तु
भयार्तस्य
सर्वलोकाभयङ्कर ॥ २९ ॥
कर्तुमर्हसि
मे
वीर
प्रसादं
तस्य
निग्रहात् ।
एवमुक्तस्तु
तेजस्वी
धर्मज्ञो
धर्मसंहितम् ॥ ३० ॥
वचनं
वक्तुमारेभे
सुग्रीवं
प्रहसन्निव ।
अमोघाः
सूर्यसङ्काशा
ममैते
निशिताः
शराः ॥ ३१ ॥
तस्मिन्
वालिनि
दुर्वृत्ते
निपतिष्यन्ति
वेगिताः ।
यावत्तं
नाभिपश्यामि
तव
भार्यापहारिणम् ॥ ३२ ॥
तावत्स
जीवेत्
पापात्मा
वाली
चारित्रदूषकः ।
आत्मानुमानात्
पश्यामि
मग्नं
त्वां
शोकसागरे ॥ ३३ ॥
त्वामहं
तारयिष्यामि
कामं
प्राप्स्यसि
पुष्कलम् ।
तस्य
तद्वचनं
श्रुत्वा
राघवस्यात्मनो
हितम् ॥ ३४ ॥
सुग्रिवः
परमप्रीतः
सुमहद्वाक्यमब्रवीत् ॥ ३५ ॥