रामस्य
वचनं
श्रुत्वा
हर्षपौरुषवर्धनम् ।
सुग्रीवः
पूजयाञ्चक्रे
राघवं
प्रशशंस
च ॥ १ ॥
असंशयं
प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः
शरैः ।
त्वं
दहेः
कुपितो
लोकान्
युगान्त
इव
भास्करः ॥ २ ॥
वालिनः
पौरुषं
यत्तद्यच्च
वीर्यं
धृतिश्च
या ।
तन्ममैकमनाः
श्रुत्वा
विधत्स्व
यदनन्तरम् ॥ ३ ॥
समुद्रात्पश्चिमात्पूर्वं
दक्षिणादपि
चोत्तरम् ।
क्रामत्यनुदिते
सूर्ये
वाली
व्यपगतक्लमः ॥ ४ ॥
अग्राण्यारुह्य
शैलानां
शिखराणि
महान्त्यपि ।
ऊर्ध्वमुत्क्षिप्य
तरसा
प्रतिगृह्णाति
वीर्यवान् ॥ ५ ॥
बहवः
सारवन्तश्च
वनेषु
विविधा
द्रुमाः ।
वालिना
तरसा
भग्ना
बलं
प्रथयतात्मनः ॥ ६ ॥
महिषो
दुन्दुभिर्नाम
कैलासशिखरप्रभः ।
बलं
नागसहस्रस्य
धारयामास
वीर्यवान् ॥ ७ ॥
वीर्योत्सेकेन
दुष्टात्मा
वरदानाच्च
मोहितः ।
जगाम
सुमहाकायः
समुद्रं
सरितां
पतिम् ॥ ८ ॥
ऊर्मिमन्तमतिक्रम्य
सागरं
रत्नस़ञ्चयम् ।
मह्यं
युद्धं
प्रयच्छेति
तमुवाच
महार्णवम् ॥ ९ ॥
ततः
समुद्रो
धर्मात्मा
समुत्थाय
महाबलः ।
अब्रवीद्वचनं
राजन्नसुरं
कालचोदितम् ॥ १० ॥
समर्थो
नास्मि
ते
दातुं
युद्धं
युद्धविशारद ।
श्रूयतां
चाभिधास्यामि
यस्ते
युद्धं
प्रदास्यति ॥ ११ ॥
शैलराजो
महारण्ये
तपस्विशरणं
परम् ।
शङ्करश्वशुरो
नाम्ना
हिमवानिति
विश्रुतः ॥ १२ ॥
गुहाप्रस्रवणोपेतो
बहुकन्दरनिर्दरः ।
स
समर्थस्तव
प्रीतिमतुलां
कर्तुमाहवे ॥ १३ ॥
तं
भीत
इति
विज्ञाय
समुद्रमसुरोत्तमः ।
हिमवद्वनमागच्छच्छरश्चापादिव
च्युतः ॥ १४ ॥
ततस्तस्य
गिरेः
श्वेता
गजेन्द्रविपुलाः
शिलाः ।
चिक्षेप
बहुधा
भूमौ
दुन्दुभिर्विननाद
च ॥ १५ ॥
ततः
श्वेताम्बुदाकारः
सौम्यः
प्रीतिकराकृतिः ।
हिमवानब्रवीद्वाक्यं
स्व
एव
शिखरे
स्थितः ॥ १६ ॥
क्लेष्टुमर्हसि
मां
न
त्वं
दुन्दुभे
धर्मवत्सल ।
रणकर्मस्वकुशलस्तपस्विशरणं
ह्यहम् ॥ १७ ॥
तस्य
तद्वचनं
श्रुत्वा
गिरिराजस्य
धीमतः ।
उवाच
दुन्दुभिर्वाक्यं
रोषात्संरक्तलोचनः ॥ १८ ॥
यदि
युद्धेऽसमर्थस्त्वं
मद्भयाद्वा
निरुद्यमः ।
तमाचक्ष्व
प्रदद्यान्मे
योऽद्य
युद्धं
युयुत्सतः ॥ १९ ॥
हिमवानब्रवीद्वाक्यं
श्रुत्वा
वाक्यविशारदः ।
अनुक्तपूर्वं
धर्मात्मा
क्रोधात्तमसुरोत्तमम् ॥ २० ॥
वाली
नाम
महाप्राज्ञः
शक्रतुल्यपराक्रमः ।
अध्यास्ते
वानरः
श्रीमान्
किष्कन्धामतुलप्रभाम् ॥ २१ ॥
स
समर्थो
महाप्राज्ञस्तव
युद्धविशारदः ।
द्वन्द्वयुद्धं
महद्दातुं
नमुचेरिव
वासवः ॥ २२ ॥
तं
शीघ्रमभिगच्छ
त्वं
यदि
युद्धमिहेच्छसि ।
स
हि
दुर्धर्षणो
नित्यं
शूरः
समरकर्मणि ॥ २३ ॥
श्रुत्वा
हिमवतो
वाक्यं
क्रोधाविष्टः
स
दुन्दुभिः ।
जगाम
तं
पुरीं
तस्य
किष्किन्धां
वालिनस्तदा ॥ २४ ॥
धारयन्
माहिषं
रूपं
तीक्ष्णशृङ्गो
भयावहः ।
प्रावृषीव
महामेघस्तोयपूर्णो
नभस्तले ॥ २५ ॥
ततस्तद्द्वारमागम्य
किष्कन्धाया
महाबलः ।
ननर्द
कम्पयन्
भूमिं
दुन्धुभिर्दुन्दुभिर्यथा ॥ २६ ॥
समीपस्थान्
द्रुमान्
भञ्जन्
वसुधां
दारयन्
खुरैः ।
विषाणेनोल्लिखन्
दर्पात्तद्द्वारं
द्विरदो
यथा ॥ २७ ॥
अन्तःपुरगतो
वाली
श्रुत्वा
शब्दममर्षणः ।
निष्पपात
सह
स्त्रीभिस्ताराभिरिव
चन्द्रमाः ॥ २८ ॥
मितं
व्यक्ताक्षरपदं
तमुवाचाथ
दुन्दुभिम् ।
हरीणामीश्वरो
वाली
सर्वेषां
वनचारिणाम् ॥ २९ ॥
किमर्थं
नगरद्वारमिदं
रुद्धा
विनर्दसि ।
दुन्दुभे
विदितो
मेऽसि
रक्ष
प्राणान्
महाबलः ॥ ३० ॥
तस्य
तद्वचनं
श्रुत्वा
वानरेन्द्रस्य
धीमतः ।
उवाच
दुन्दुभिर्वाक्यं
रोषात्संरक्तलोचनः ॥ ३१ ॥
न
त्वं
स्त्रीसन्निधौ
वीर
वचनं
वक्तुमर्हसि ।
मम
युद्धं
प्रयच्छाद्य
ततो
ज्ञास्यामि
ते
बलम् ॥ ३२ ॥
अथवा
धारयिष्यामि
क्रोधमद्य
निशामिमाम् ।
गृह्यतामुदयः
स्वैरं
कामभोगेषु
वानर ॥ ३३ ॥
दीयतां
सम्प्रदानं
च
परिष्वज्य
च
वानरान् ।
सर्वशाखामृगेन्द्रस्त्वं
संसादय
सुहृज्जनान् ॥ ३४ ॥
सुदृष्टां
कुरु
किष्किन्धां
कुरुष्वात्मसमं
पुरे ।
क्रीडस्व
च
सह
स्त्रीभिरहं
ते
दर्पनाशनः ॥ ३५ ॥
यो
हि
मत्तं
प्रमत्तं
वा
सुप्तं
वा
रहितं
भृशम् ।
हन्यात्स
भ्रूणहा
लोके
त्वद्विधं
मदमोहितम् ॥ ३६ ॥
स
प्रहस्याब्रवीन्मन्दं
क्रोधात्तमसुरोत्तमम् ।
विसृज्य
ताः
स्त्रियः
सर्वास्ताराप्रभृतिकास्तदा ॥ ३७ ॥
मत्तोऽयमिति
मा
मंस्था
यद्यभीतोऽसि
संयुगे ।
मदोऽयं
सम्प्रहारेऽस्मिन्
वीरपानं
समर्थ्यताम् ॥ ३८ ॥
तमेवमुक्त्वा
सङ्क्रुद्धो
मालामुत्क्षिप्य
काञ्चनीम् ।
पित्रा
दत्तां
महेन्द्रेण
यद्धाय
व्यवतिष्ठत ॥ ३९ ॥
विषाणयोर्गृहीत्वा
तं
दुन्दुभिं
गिरिसन्निभम् ।
आविध्यत
तदा
वाली
विनदन्
कपिकुञ्जरः ॥ ४० ॥
वाली
व्यापातयाञ्चक्रे
ननर्द
च
महास्वनम् ।
श्रोत्राभ्यामथ
रक्तं
तु
तस्य
सुस्राव
पात्यतः ॥ ४१ ॥
तयोस्तु
क्रोधसंरम्भात्परस्परजयैषिणोः ।
युद्धं
समभवद्घोरं
दुन्दुभेर्वानरस्य
च ॥ ४२ ॥
अयुध्यत
तदा
वाली
शक्रतुल्यपराक्रमः ।
मुष्टिभिर्जानुभिश्चैव
शिलाभिः
पादपैस्तथा ॥ ४३ ॥
परस्परं
घ्नोतस्तत्र
वानरासुरयोस्तदा ।
आसीददसुरो
युद्धे
शक्रसूनुर्व्यवर्धत ॥ ४४ ॥
व्यापारवीर्यधैर्यैश्च
परिक्षीणं
पराक्रमैः ।
तं
तु
दुन्दुभिमुत्पाट्य
धरण्यामभ्यपातयत् ॥ ४५ ॥
युद्धे
प्राणहरे
तस्मिन्
निष्पिष्टो
दुन्दुभिस्तदा ।
पपात
च
महाकायः
क्षितौ
पञ्चत्वमागतः ॥ ४६ ॥
तं
तोलयित्वा
बाहुभ्यां
गतसत्त्वमचेतनम् ।
चिक्षेप
बलवान्
वाली
वेगेनैकेन
योजनम् ॥ ४७ ॥
तस्य
वेगप्रविद्धस्य
वक्त्रात्
क्षतजबिन्दवः ।
प्रपेतुर्मारुतोत्क्षिप्ता
मतङ्गस्याश्रमं
प्रति ॥ ४८ ॥
तान्
दृष्ट्वा
पतितांस्तस्य
मुनिः
शोणितविप्रुषः ।
क्रुद्धस्तत्र
महाभागश्चिन्तयामास
को
न्वयम् ॥ ४९ ॥
येनाहं
सहसा
स्पृष्टः
शोणितेन
दुरात्मना ।
कोऽयं
दुरात्मा
दुर्बद्धिरकृतात्मा
च
बालिशः ॥ ५० ॥
इत्युक्त्वाथ
विनिष्क्रम्य
ददर्श
मुनिपुङ्गवः ।
महिषं
पर्वताकारं
गतासुं
पतितं
भुवि ॥ ५१ ॥
स
तु
विज्ञाय
तपसा
वानरेण
कृतं
हि
तत् ।
उत्ससर्ज
महाशापं
क्षेप्तारं
वालिनं
प्रति ॥ ५२ ॥
वनं
मत्संश्रयं
येन
दूषितं
रुधिरस्रवैः ।
सम्भग्नाः
पादपाश्चेमे
क्षिपतेहासुरीं
तनुम् ॥ ५३ ॥
समन्ताद्योजनं
पूर्णमाश्रमं
मामकं
यदि ।
आगमिष्यति
दुर्बुद्धिर्व्यक्तं
स
न
भविष्यति ॥ ५४ ॥
ये
चापि
सचिवास्तस्य
संश्रिता
मामकं
वनम् ।
न
च
तैरिह
वस्तव्यं
श्रुत्वा
यान्तु
यथासुखम् ॥ ५५ ॥
यदि
तेऽपीह
तिष्ठन्ति
शपिष्ये
तानपि
ध्रुवम् ।
वनेऽस्मिन्
मामके
नित्यं
पुत्रवत्परीरक्षिते ॥ ५६ ॥
पत्त्राङ्कुरविनाशाय
फलमूलाभवाय
च ।
दिवसश्चास्य
मर्यादा
यं
द्रष्टा
श्वोऽस्मि
वानरम् ॥ ५७ ॥
बहुवर्षसहस्राणि
स
वै
शैलो
भविष्यति ।
ततस्ते
वानराः
श्रुत्वा
गिरं
मुनिसमीरिताम् ॥ ५८ ॥
निश्चक्रमुर्वनात्तस्मात्तान्
दृष्ट्वा
वालिरब्रवीत् ।
किं
भवन्तः
समस्ताश्च
मतङ्गवनवासिनः ॥ ५९ ॥
मत्समीपमनुप्राप्ता
अपि
स्वस्ति
वनौकसाम् ।
ततस्ते
कारणं
सर्वं
तदा
शापं
च
वालिनः ॥ ६० ॥
शशंसुर्वानराः
सर्वे
वालिने
हेममालिने ।
एतच्छ्रुत्वा
तदा
वाली
वचनं
वानरेरितम् ॥ ६१ ॥
स
महर्षिं
तदासाद्य
याचते
स्म
कृताञ्जलिः ।
महर्षिस्तमनादृत्य
प्रविवेशाश्रमं
तदा ॥ ६२ ॥
शापधारणभीतस्तु
वाली
विह्वलतां
गतः ।
ततः
शापभयाद्भीत
ऋश्यमूकं
महागिरिम् ॥ ६३ ॥
प्रवेष्टुं
नेच्छति
हरिर्द्रष्टुं
वापि
नरेश्वर ।
तस्याप्रवेशं
ज्ञात्वाहमिदं
राम
महावनम् ॥ ६४ ॥
विचरामि
सहामात्यो
विषादेन
विवर्जितः ।
एषोस्थिनिचयस्तस्य
दुन्दुभेः
सम्प्रकाशते ॥ ६५ ॥
वीर्योत्सेकान्निरस्तस्य
गिरिकूटोपमो
महान् ।
इमे
च
विपुलाः
सालाः
सप्त
शाखावलम्बिनः ॥ ६६ ॥
यत्रैकं
घटते
वाली
निष्प्रत्त्रयितुमोजसा ।
एतदस्यासमं
वीर्यं
मया
राम
प्रकीर्तितम् ॥ ६७ ॥
कथं
तं
वालिनं
हन्तुं
समरे
शक्ष्यसे
नृप ।
तथा
ब्रुवाणं
सुग्रीवं
प्रहसँल्लक्ष्मणोऽब्रवीत् ॥ ६८ ॥
कस्मिन्
कर्मणि
निर्वृत्ते
श्रद्दध्या
वालिनो
वधम् ।
तमुवाचाथ
सुग्रीवः
सप्त
सालानिमान्
पुरा ॥ ६९ ॥
एवमेकैकशो
वाली
विव्याधाथ
स
चासकृत् ।
रामोऽपि
दारयेदेषां
बाणेनैकेन
चेद्द्रुमम् ॥ ७० ॥
वालिनं
निहतं
मन्ये
दृष्ट्वा
रामस्य
विक्रमम् ।
हतस्य
महिषस्यास्थि
पादेनैकेन
लक्ष्मण ॥ ७१ ॥
उद्यम्याथ
प्रक्षिपेच्चेत्तरसा
द्वे
धनुःशते ।
एवमुक्त्वा
तु
सुग्रीवो
रामं
रक्तान्तलोचनम् ॥ ७२ ॥
ध्यात्वा
मुहूर्तं
काकुत्स्थं
पुनरेव
वचोब्रवीत् ।
शूरश्च
शूरघाती
च
प्रख्यातबलपौरुषः ॥ ७३ ॥
बलवान्
वानरो
वाली
संयुगेष्वपराजितः ।
दृश्यन्ते
चास्य
कर्माणि
दुष्कराणि
सुरैरपि ॥ ७४ ॥
यानि
सञ्चिन्त्य
भीतोऽहमृश्यमूकं
समाश्रितः ।
तमजय्यमधृष्यं
च
वानरेन्द्रममर्षणम् ॥ ७५ ॥
विचिन्तयन्न
मुञ्चामि
ऋश्यमूकमहं
त्विमम् ।
उद्विग्नः
शङ्कितश्चापि
विचरामि
महावने ॥ ७६ ॥
अनुरक्तैः
सहामात्यैर्हनुमत्प्रमुखैर्वरैः ।
उपलब्धं
च
मे
श्लाध्यं
सन्मित्रं
मित्रवत्सल ॥ ७७ ॥
त्वामहं
पुरुषव्याघ्र
हिमवन्तमिवाश्रितः ।
किन्तु
तस्य
बलज्ञोऽहं
दुर्भ्रातुर्बलशालिनः ॥ ७८ ॥
अप्रत्यक्षं
तु
मे
वीर्यं
समरे
तव
राघव ।
न
खल्वहं
त्वां
तुलये
नावमन्ये
न
भीषये ॥ ७९ ॥
कर्मभिस्तस्य
भीमैस्तु
कातर्यं
जनितं
मम ।
कामं
राघव
ते
वाणी
प्रमाणं
धैर्यमाकृतिः ॥ ८० ॥
सूचयन्ति
परं
तेजो
भस्मच्छन्नमिवानलम् ।
तस्य
तद्वचनं
श्रुत्वा
सुग्रीवस्य
महात्मनः ॥ ८१ ॥
स्मितपूर्वमथो
रामः
प्रत्युवाच
हरिं
प्रभुः ।
यदि
न
प्रत्ययोऽस्मासु
विक्रमे
तव
वानर ॥ ८२ ॥
प्रत्ययं
समरे
श्लाघ्यमहमुत्पादयामि
ते ।
राघवो
दुन्दुभेः
कायं
पादाङ्गुष्ठेन
लीलया ॥ ८३ ॥
तोलयित्वा
महाबाहुश्चिक्षेप
दशयोजनम् ।
असुरस्य
तनुं
शुष्कं
पादाङ्गुष्ठेन
वीर्यवान् ॥ ८४ ॥
क्षिप्तं
दृष्ट्वा
ततः
कायं
सुगीवः
पुनरब्रवीत् ।
लक्ष्मणस्याग्रतो
राममिदं
वचनमब्रवीत् ॥ ८५ ॥
आर्द्रः
समांसः
प्रत्यग्रः
क्षिप्तः
कायः
पुरा
सखे ।
लघुः
संम्प्रति
निर्मांसस्तृणभूतश्च
राघव ॥ ८६ ॥
क्षिप्तमेवं
प्रहर्षेण
भवता
रघुनन्दन ।
नात्र
शक्यं
बलं
ज्ञातुं
तव
वा
तस्य
वाधिकम् ॥ ८७ ॥
आर्द्रं
शुष्कमिति
ह्येतत्सुमहद्राघवान्तरम् ।
स
एव
संशयस्तात
तव
तस्य
च
यद्बले ॥ ८८ ॥
सालमेकं
तु
निर्भिन्द्या
भवेद्व्यक्तिर्बलाबले ।
कृत्वेदं
कार्मुकं
सज्यं
हस्तिहस्तमिवाततम् ॥ ८९ ॥
आकर्णपूर्णमायम्य
विसृजस्व
महाशरम् ।
इमं
हि
सालं
सहितस्त्वया
शरो
न
संशयोऽत्रास्ति
विदारयिष्यति ॥ ९० ॥
अलं
विमर्शेन
मम
प्रियं
ध्रुवं
कुरुष्व
राजात्मज
शापितो
मया ।
यथा
हि
तेजस्सु
वरः
सदा
रविर्यथा
हि
शैलो
हिमवान्
महाद्रिषु ॥ ९१ ॥
यथा
चतुष्पात्सु
च
केसरी
वरस्तथा
नराणामसि
विक्रमे
वरः ॥ ९२ ॥