एतच्च
वचनं
श्रुत्वा
सुग्रीवेण
सुभाषितम् ।
प्रत्ययार्थं
महातेजा
रामो
जग्राह
कार्मुकम् ॥ १ ॥
स
गृहीत्वा
धनुर्घोरं
शरमेकं
च
मानदः ।
सालमुद्दिश्य
चिक्षेप
ज्यास्वनैः
पूरयन्
दिशः ॥ २ ॥
स
विसृष्टो
बलवता
बाणः
स्वर्णपरिष्कृतः ।
भित्त्वा
सालान्
गिरिप्रस्थे
सप्त
भूमिं
विवेश
ह ॥ ३ ॥
प्रविष्टश्च
मुहूर्तेन
धरां
भित्त्वा
महाजवः ।
निष्पत्य
च
पुनस्तूर्णं
स्वतूर्णीं
प्रविवेश
ह ॥ ४ ॥
तान्
दृष्ट्वा
सप्त
निर्भिन्नान्
सालान्
वानरपुङ्गवः ।
रामस्य
शरवेगेन
विस्मयं
परमं
गतः ॥ ५ ॥
स
मूर्ध्ना
न्यपतद्भूमौ
प्रलम्बीकृतभूषणः ।
सुग्रीवः
परमप्रीतो
राघवाय
कृताञ्चलिः ॥ ६ ॥
इदं
चोवाच
धर्मज्ञं
कर्मणा
तेन
हर्षितः ।
रामं
सर्वास्त्रविदुषां
श्रेष्ठं
शूरमवस्थितम् ॥ ७ ॥
सेन्द्रानपि
सुरान्त्सर्वांस्त्वं
बाणैः
पुरुषर्षभ ।
समर्थः
समरे
हन्तुं
किं
पुनर्वालिनं
प्रभो ॥ ८ ॥
येन
सप्त
महासाला
गिरिर्भूमिश्च
दारिताः ।
बाणेनैकेन
काकुत्स्थ
स्थाता
ते
को
रणाग्रतः ॥ ९ ॥
अद्य
मे
विगतः
शोकः
प्रीतिरद्यः
परा
मम ।
सुहृदं
त्वां
समासाद्य
महेन्द्रवरुणोपमम् ॥ १० ॥
तमद्यैव
प्रियार्थं
मे
वैरिणं
भ्रातृरूपिणम् ।
वालिनं
जहि
काकुत्स्थ
मया
बद्धोऽयमञ्जलिः ॥ ११ ॥
ततो
रामः
परिष्वज्य
सुग्रीवं
प्रियदर्शनम् ।
प्रत्युवाच
महाप्राज्ञो
लक्ष्मणानुमतं
वचः ॥ १२ ॥
अस्माद्गच्छेम
किष्किन्धां
क्षिप्रं
गच्छ
त्वमग्रतः ।
गत्वा
चाह्वय
सुग्रीव
वालिनं
भ्रातृगन्धिनम् ॥ १३ ॥
सर्वे
ते
त्वरितं
गत्वा
किष्किन्धां
वालिनः
पुरीम् ।
वृक्षैरात्मानमावृत्य
व्यतिष्ठन्
गहने
वने ॥ १४ ॥
सुग्रीवो
व्यनदद्
घोरं
वालिनो
ह्वानकारणात् ।
गाढं
परिहितो
वेगान्नादैर्भिन्दन्निवाम्बरम् ॥ १५ ॥
तं
श्रुत्वा
निनदं
भ्रातुः
क्रुद्धो
वाली
महाबलः ।
निश्चक्राम
सुसंरब्धो
भास्करोऽस्ततटादिव ॥ १६ ॥
ततः
सुतुमुलं
युद्धं
वालिसुग्रीवयोरभूत् ।
गगने
ग्रहयोर्घोरं
बुधाङ्गारकयोरिव ॥ १७ ॥
तलैरशनिकल्पैश्च
वज्रकल्पैश्चमुष्टिभिः ।
जघ्नतुः
समरेऽन्योन्यं
भ्रातरौ
क्रोधमूर्च्छितौ ॥ १८ ॥
ततो
रामो
धनुष्पाणिस्तावुभौ
समुदीक्ष्य
तु ।
अन्योन्यसदृशौ
वीरावुभौ
देवाविवाश्विनौ ॥ १९ ॥
यन्नावगच्छत्
सुग्रीवं
वालिनं
वापि
राघवः ।
ततो
न
कृतवान्
बुद्धिं
मोक्तुमन्तकरं
शरम् ॥ २० ॥
एतस्मिन्नन्तरे
भग्नः
सुग्रीवस्तेन
वालिना ।
अपश्यन्
राघवं
नाथमृश्यमूकं
प्रदुद्रुवे ॥ २१ ॥
क्लान्तो
रुधिरसिक्ताङ्गः
प्रहारैर्जर्जरीकृतः ।
वालिनाभिद्रुतः
क्रोधात्
प्रविवेश
महावनम् ॥ २२ ॥
तं
प्रविष्टं
वनं
दृष्ट्वा
वाली
शापभयार्दितः ।
मुक्तो
ह्यसि
त्वमित्युक्त्वा
सन्निवृत्तो
महाद्युतिः ॥ २३ ॥
राघवोऽपि
सहभ्रात्रा
सह
चैव
हनूमता ।
तदेव
वनमागच्छत्
सग्रीवो
यत्र
वानरः ॥ २४ ॥
तं
समीक्ष्यागतं
रामं
सुग्रीवः
सहलक्ष्मणम् ।
ह्रीमान्
दीनमुवाचेदं
वसुधामवलोकयन् ॥ २५ ॥
आह्वयस्वेति
मामुक्त्वा
दर्शयित्वा
च
विक्रमम् ।
वैरिणा
घातयित्वा
च
किमिदानीं
त्वया
कृतम् ॥ २६ ॥
तामेव
वेलां
वक्तव्यं
त्वया
राघव
तत्त्वतः ।
वालिनं
न
निहन्मीति
ततो
नाहमितो
व्रजे ॥ २७ ॥
तस्य
चैवं
ब्रुवाणस्य
सुग्रीवस्य
महात्मनः ।
करुणं
दीनया
वाचा
राघवः
पुनरब्रवीत् ॥ २८ ॥
सुग्रीव
श्रूयतां
तात
क्रोधश्च
व्यपनीयताम् ।
कारणं
येन
बाणोऽयं
न
मया
स
विसर्जितः ॥ २९ ॥
अलङ्कारेण
वेषेण
प्रमाणेन
गतेन
च ।
त्वं
च
सुग्रीव
वाली
च
सदृशौ
स्थः
परस्परम् ॥ ३० ॥
विक्रमेण
च
वाक्यैश्च
व्यक्तिं
वां
नोपलक्षये ।
ततोऽहं
रूपसादृश्यान्मोहितो
वानरोत्तम ॥ ३१ ॥
नोत्सृजामि
महावेगं
शरं
शत्रुनिबर्हणम् ।
जीवितान्तकरं
घोरं
सादृश्यात्तु
विशङ्कितः ॥ ३२ ॥
मूलघातो
न
नौ
स्याद्धि
द्वयोरपिकृतो
मया ।
त्वयि
वीरे
विपन्ने
हि
अज्ञानाल्लाघवान्मया ॥ ३३ ॥
मौढ्यं
च
मम
बाल्यं
च
ख्यापितं
स्याद्धरीश्वर ।
दत्ताभयवधो
नाम
पातकं
महदुच्यते ॥ ३४ ॥
अहं
च
लक्ष्मणश्चैव
सीता
च
वरवर्णिनी ।
त्वदधीना
वयं
सर्वे
वनेऽस्मिन्
शरणं
भवान् ॥ ३५ ॥
एतन्मुहूर्ते
सुग्रीव
पश्य
वालिनमाहवे ।
निरस्तमिषुणैकेन
वेष्टमानं
महीतले ॥ ३६ ॥
अभिज्ञानं
कुरुष्व
त्वमात्मनो
वानरेश्वर ।
येन
त्वामभिजानीयां
द्वन्द्वयुद्धमुपागतम् ॥ ३७ ॥
गजपुष्पीमिमां
फुल्लामुत्पाट्य
शुभलक्षणाम् ।
कुरु
लक्ष्मण
कण्ठेऽस्य
सुग्रीवस्य
महात्मनः ॥ ३८ ॥
ततो
गरितटे
जातामुत्पाट्य
कुसुमाकुलाम् ।
लक्ष्मणो
गृजपुष्पीं
तां
तस्य
कण्ठे
व्यसर्जयत् ॥ ३९ ॥
स
तया
शुशुभे
श्रीमान्
लतया
कण्ठसक्तया ।
विपरीत
इवाकाशे
सूर्यो
नक्षत्रमालया ॥ ४० ॥
विभ्राजमानो
वपुषा
रामवाक्यसमाहितः ।
जगाम
सह
रामेण
किष्किन्धां
वालिपालिताम् ॥ ४१ ॥