ऋश्यमूकात्स
धर्मात्मा
किष्किन्धां
लक्ष्मणाग्रजः ।
जगाम
सहसुग्रीवो
वालिविक्रमपालिताम् ॥ १ ॥
समुद्यम्य
महच्चापं
रामः
काञ्चनभूषितम् ।
शरांश्चादित्यसङ्काशान्
गृहीत्वा
रणसाधकान् ॥ २ ॥
अग्रतस्तु
ययौ
तस्य
राघवस्य
महात्मनः ।
सुग्रीवः
संहतग्रीवो
लक्ष्मणश्च
महाबलः ॥ ३ ॥
पृष्ठतो
हनुमान्
वीरो
नलो
नीलश्च
वानरः ।
तारश्चैव
महातेजा
हरियूथपयूथपः ॥ ४ ॥
ते
वीक्षमाणा
वृक्षांश्च
पुष्पभारावलम्बिनः ।
प्रसन्नाम्बुवहाश्चैव
सरितः
सागरङ्गमाः ॥ ५ ॥
कन्दराणि
च
शैलांश्च
निर्दराणि
गुहास्तथा ।
शिखराणि
च
मुख्यानि
दरीश्च
प्रियदर्शनाः ॥ ६ ॥
वैडूर्यविमलैः
पर्णैः
पद्मैश्चाकोशकुङ्मलैः ।
शोभितान्
सजलान्
मार्गे
तटाकांश्च
व्यलोकयन् ॥ ७ ॥
कारण्डैः
सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः ।
चक्रवाकैस्तथा
चान्यैः
शकुनैरुपनादितान् ॥ ८ ॥
मृदुशष्पाङ्कुराहारान्निर्भयान्
वनगोचरान् ।
चरतः
सर्वतोऽपश्यन्
स्थलीषु
हरिणान्
स्थितान् ॥ ९ ॥
तटाकवैरिणश्चापि
शुक्लदन्तविभूषितान् ।
घोरानेकचरान्
वन्यान्
द्विरदान्
कूलघातिनः ॥ १० ॥
मत्तान्
गिरितटोत्कृष्टान्
पर्वतानिव
जङ्गमान् ।
वारणान्
वारिदप्रख्यान्
महीरेणुसमुक्षितान् ॥ ११ ॥
वने
वनचरांश्चान्यान्
खेचरांश्च
विहङ्गमान् ।
पश्यन्तस्त्वरिता
जग्मुः
सुग्रीववशवर्तिनः ॥ १२ ॥
तेषां
तु
गच्छतां
तत्र
त्वरितं
रघुनन्दनः ।
द्रुमषण्ड
वनं
दृष्ट्वा
रामः
सुग्रीवमब्रवीत् ॥ १३ ॥
एष
मेघ
इवाकाशे
वृक्षषण्डः
प्रकाशते ।
मेघसङ्घातविपुलः
पर्यन्तकदलीवृतः ॥ १४ ॥
किमेतज्ज्ञातुमिच्छामि
सखे
कौतूहलं
हि
मे ।
कौतूहलापनयनं
कर्तुमिच्छाम्यहं
त्वया ॥ १५ ॥
तस्य
तद्वचनं
श्रुत्वा
राघवस्य
महात्मनः ।
गच्छन्नेवाचचक्षेऽथ
सुग्रीवस्तन्महद्वनम् ॥ १६ ॥
एतद्राघव
विस्तीर्णमाश्रमं
श्रमनाशनम् ।
उद्यानवनसम्पन्नं
स्वादुमूलफलोदकम् ॥ १७ ॥
अत्र
सप्तजना
नाम
मुनयः
संशितव्रताः ।
सप्तैवासन्नधःशीर्षा
नियतं
जलशायिनः ॥ १८ ॥
सप्तरात्रकृताहारा
वायुना
वनवासिनाः ।
दिवं
वर्षशतैर्याताः
सप्तभिः
सकलेवराः ॥ १९ ॥
तेषामेवंप्रभावानां
द्रुमप्राकारसंवृतम् ।
आश्रमं
सुदुराधर्षमपि
सेन्द्रैः
सुरासुरैः ॥ २० ॥
पक्षिणो
वर्जयन्त्येतत्तथान्ये
वनचारिणः ।
विशन्ति
मोहाद्ये
तत्र
निवर्तन्ते
न
ते
पुनः ॥ २१ ॥
विभूषणरवास्तत्र
श्रूयन्ते
सकलाक्षराः ।
तूर्यगीतस्वनाश्चात्र
गन्धो
दिव्यश्च
राघव ॥ २२ ॥
त्रेताग्नयोऽपि
दीप्यन्ते
धूमो
ह्यत्र
प्रकाशते ।
वेष्टयन्निव
वृक्षाग्रान्
कपोताङ्गारुणो
घनः ॥ २३ ॥
एते
वृक्षाः
प्रकाशन्ते
धूमसंसक्तमस्तकाः ।
मेघजालप्रतिच्छन्ना
वैडूर्यगिरयो
यथा ॥ २४ ॥
कुरु
प्रणामं
धर्मात्मन्
तान्
समुद्दिश्य
राघव ।
लक्ष्णणेन
सह
भ्रात्रा
प्रयतः
संयताञ्जलिः ॥ २५ ॥
प्रणमन्ति
हि
ये
तेषां
मुनीनां
भावितात्मनाम् ।
न
तेषामशुभं
किञ्चिच्छरीरे
राम
दृश्यते ॥ २६ ॥
ततो
रामः
सह
भ्रात्रा
लक्ष्मणेन
कृताञ्जलिः ।
समुद्दिस्य
महात्मानस्तानृषीनभ्यवादयत् ॥ २७ ॥
अभिवाद्य
तु
धर्मात्मा
रामो
भ्राता
च
लक्ष्मणः ।
सुग्रीवो
वानराश्चैव
जग्मुः
संहृष्टमानसाः ॥ २८ ॥
ते
गत्वा
दूरमध्वानं
तस्मात्
सप्तजनाश्रमात् ।
ददृशुस्तां
दुराधर्षां
किष्किन्धां
वालिपालिताम् ॥ २९ ॥
ततस्तु
रामानुजरामवानराः
प्रगृह्य
शस्त्राण्युदिताग्र्यतेजसः ।
पुरीं
सुरेशात्मजवीर्यपालितां
वधाय
शत्रोः
पुनरागताः
सह ॥ ३० ॥