सर्वे
ते
त्वरितं
गत्वा
किष्किन्धां
वालिपालिताम् ।
वृक्षैरात्मानमावृत्य
व्यतिष्ठन्
गहने
वने ॥ १ ॥
विचार्य
सर्वतो
दृष्टिं
कानने
काननप्रियः ।
सुग्रीवो
विपुलग्रीवः
क्रोधमाहारयद्भृशम् ॥ २ ॥
परिवारैः
परिवृतो
नादैर्भिन्दन्निवाम्बरम् ।
गर्जन्निव
महामेघो
वायुवेगपुरस्सरः ॥ ३ ॥
अथ
बालार्कसदृशो
दृप्तसिंहगतिस्तदा ।
दृष्ट्वा
रामं
क्रियादक्षं
सुग्रीवो
वाक्यमब्रवीत् ॥ ४ ॥
हरिवागुरया
व्याप्तां
तप्तकाञ्चनतोरणाम् ।
प्राप्ताः
स्म
ध्वजयन्त्राढ्यां
किष्किन्धां
वालिनः
पुरीम् ॥ ५ ॥
प्रतिज्ञा
या
त्वया
वीर
कृता
वालिवधे
पुरा ।
सफलां
तां
कुरु
क्षिप्रं
लतां
काल
इवागतः ॥ ६ ॥
एवमुक्तस्तु
धर्मात्मा
सुग्रीवेण
स
राघवः ।
तमथोवाच
सुग्रीवं
वचनं
शत्रुसूदनः ॥ ७ ॥
कृताभिज्ञानचिह्नस्त्वमनया
गजसाह्वया ।
लक्ष्मणेन
समुत्पाट्य
यैषा
कण्ठे
कृता
तव ॥ ८ ॥
शोभसे
ह्यधिकं
वीर
लतया
कण्ठसक्तया ।
विपरीत
इवाकाशे
सूर्यो
नक्षत्रमालया ॥ ९ ॥
अद्य
वालिसमुत्थं
ते
भयं
वैरं
च
वानर ।
एकेनाहं
प्रमोक्ष्यामि
बाणमोक्षेण
संयुगे ॥ १० ॥
मम
दर्शय
सुग्रीव
वैरिणं
भ्रातृरूपिणम् ।
वाली
विनिहतो
यावद्वने
पांसुषु
वेष्टते ॥ ११ ॥
यदि
दृष्टिपथं
प्राप्तो
जीवन्
स
विनिवर्तते ।
ततो
दोषेण
माऽऽगच्छेत्
सद्यो
गर्हेच्च
मा
भवान् ॥ १२ ॥
प्रत्यक्षं
सप्त
ते
साला
मया
बाणेन
दारिताः ।
तेनावेहि
बलेनाद्य
वालिनं
निहतं
मया ॥ १३ ॥
अनृतं
नोक्तपूर्वं
मे
वीर
कृच्छ्रेऽपि
तिष्ठता ।
धर्मलोभपरीतेन
न
च
वक्ष्ये
कथञ्चन ॥ १४ ॥
सफलां
च
करिष्यामि
प्रतिज्ञां
जहि
सम्भ्रमम् ।
प्रसूतं
कलमं
क्षेत्रे
वर्षेणेव
शतक्रतुः ॥ १५ ॥
तदाह्वाननिमित्तं
त्वं
वालिनो
हेममालिनः ।
सुग्रीव
कुरु
तं
शब्दं
निष्पतेद्येन
वानरः ॥ १६ ॥
जितकाशी
बलश्लाघी
त्वया
चाधर्षितः
पुरा ।
निष्पतिष्यत्यसङ्गेन
वाली
स
प्रियसंयुगः ॥ १७ ॥
रिपूणां
धर्षणं
शूरा
मर्षयन्ति
न
संयुगे ।
जानन्तस्तु
स्वकं
वीर्यं
स्त्रीसमक्षं
विशेषतः ॥ १८ ॥
स
तु
रामवचः
श्रुत्वा
सुग्रीवो
हेमपिङ्गलः ।
ननर्द
क्रूरनादेन
विनिर्भिन्दन्निवाम्बरम् ॥ १९ ॥
तस्य
शब्देन
वित्रस्ता
गावो
यान्ति
हतप्रभाः ।
राजदोषपरामृष्टाः
कुलस्त्रिय
इवाकुलाः ॥ २० ॥
द्रवन्ति
च
मृगाः
शीघ्रं
भग्ना
इव
रणे
हयाः ।
पतन्ति
च
खगा
भूमौ
क्षीणपुण्या
इव
ग्रहाः ॥ २१ ॥
ततः
स
जीमूतगणप्रणादो
नादं
ह्यमुञ्चत्त्वरया
प्रतीतः ।
सूर्यात्मजः
शौर्यविवृद्धतेजाः
सरित्पतिर्वाऽनिलचञ्चलोर्मिः ॥ २२ ॥