तामेवं
ब्रुवतीं
तारां
ताराधिपनिभाननाम् ।
वाली
निर्भर्त्सयामास
वचनं
चेदमब्रवीत् ॥ १ ॥
गर्जतोऽस्य
च
संरम्भं
भ्रातुः
शत्रोर्विशेषतः ।
मर्षयिष्याम्यहं
केन
कारणेन
वरानने ॥ २ ॥
अधर्षितानां
शूराणां
समरेष्वनिवर्तिनाम् ।
धर्षणामर्षणं
भीरु
मरणादतिरिच्यते ॥ ३ ॥
सोढुं
न
च
समर्थोऽहं
युद्धकामस्य
संयुगे ।
सुग्रीवस्य
च
संरम्भं
हीनग्रीवस्य
गर्जतः ॥ ४ ॥
न
च
कार्यो
विषादस्ते
राघवं
प्रति
मत्कृते ।
ध्रमज्ञश्च
कृतज्ञश्च
कथं
पापं
करिष्यति ॥ ५ ॥
निवर्तस्व
सह
स्त्रीभिः
कथं
भूयोऽनुच्छसि ।
सौहृदं
दर्शितं
तारे
मयि
भक्तिः
कृता
त्वया ॥ ६ ॥
प्रति
योत्साम्यहं
गत्वा
सुग्रीवं
जहि
सम्भ्रमम् ।
दर्पमात्रं
विनेष्यामि
न
च
प्राणैर्विमोक्ष्यते ॥ ७ ॥
अहं
ह्याजिस्थितस्यास्य
करिष्यामि
यथेप्सितम् ।
वृक्षैर्मुष्टिप्रहारैश्च
पीडितः
प्रतियास्यति ॥ ८ ॥
न
मे
गर्वितमायस्तं
सहिष्यति
दुरात्मवान् ।
कृतं
तारे
सहायत्वं
सौहृदं
दर्शितं
मयि ॥ ९ ॥
शापितासि
मम
प्राणैर्निवर्तस्व
जयेन
च ।
अहं
जित्वा
निवर्तिष्ये
तमहं
भ्रातरं
रणे ॥ १० ॥
तं
तु
तारा
परिष्वज्य
वालिनं
प्रियवादिनी ।
चकार
रुदती
मन्दं
दक्षिणा
सा
प्रदक्षिणम् ॥ ११ ॥
ततः
स्वस्त्ययनं
कृत्वा
मन्त्रवद्विजयैषिणी ।
अन्तःपुरं
सह
स्त्रीभिः
प्रविष्टा
शोकमोहिता ॥ १२ ॥
प्रविष्टायां
तु
तारायां
सह
स्त्रीभिः
स्वमालयम् ।
नगरान्निर्ययौ
क्रुद्धो
महासर्प
इव
श्वसन् ॥ १३ ॥
स
निःश्वस्य
महातेजा
वाली
परमरोषणः ।
सर्वतश्चारयन्
दृष्टिं
शत्रुदर्शनकाङ्क्षया ॥ १४ ॥
स
ददर्श
ततः
श्रीमान्
सुग्रीवं
हेमपिङ्गलम् ।
सुसंवीतमवष्टब्धं
दीप्यमानमिवानलम् ॥ १५ ॥
स
तं
दृष्ट्वा
महावीर्यं
सुग्रीवं
पर्यवस्थितम् ।
गाढं
परिदधे
वासो
वाली
परमरोषणः ॥ १६ ॥
स
वाली
गाढसंवीतो
मुष्टिमुद्यम्य
वीर्यवान् ।
सुग्रीवमेवाभिमुखो
ययौ
योद्धुं
कृतक्षणः ॥ १७ ॥
श्लिष्टमुष्टिं
समुद्यम्य
संरब्धतरमागतः ।
सुग्रीवोऽपि
तमुद्दिश्य
वालिनं
हेममालिनम् ॥ १८ ॥
तं
वाली
क्रोधताम्राक्षः
सुग्रीवं
रणपण्डितम् ।
आपतन्तं
महावेगमिदं
वचनमब्रवीत् ॥ १९ ॥
एष
मुष्टिर्मया
बद्धो
गाढः
सन्निहिताङ्गुलिः ।
मया
वेगविमुक्तस्ते
प्राणानादाय
यास्यति ॥ २० ॥
एवमुक्तस्तु
सुग्रीवः
क्रुद्धो
वालिनमब्रवीत् ।
तवैव
चाहरन्
प्राणान्
मुष्टिः
पततु
मूर्धनि ॥ २१ ॥
ताडितस्तेन
सङ्क्रुद्धः
समभिक्रम्य
वेगितः ।
अभवच्छोणितोद्गारी
सोत्पीड
इव
पर्वतः ॥ २२ ॥
सुग्रीवेण
तु
निस्सङ्गं
सालमुत्पाट्य
तेजसा ।
गात्रेष्वभिहतो
वाली
वज्रेणेव
महागिरिः ॥ २३ ॥
स
तु
वाली
प्रचलितः
सालताडनविह्वलः ।
गुरुभारसमाक्रान्तो
नौसार्थ
इव
सागरे ॥ २४ ॥
प्रवृद्धौ
घोरवपुषौ
चन्द्रसूर्याविवाम्बरे ।
परस्परममित्रघ्नौ
छिद्रान्वेषणतत्परौ ॥ २५ ॥
ततोऽवर्धत
वाली
तु
बलवीर्यसमन्वितः ।
सूर्यपुत्रो
महावीर्यः
सुग्रीवः
परिहीयते ॥ २६ ॥
वालिना
भग्नदर्पस्तु
सुग्रीवो
मन्दविक्रमः ।
वालिनं
प्रति
सामर्षो
दर्शयामास
लाघवम् ॥ २७ ॥
मुष्टिभिर्जानुभिः
पद्भिर्बाहुभिश्च
पुनःपुनः ।
तयोर्युद्धमभूद्घोरं
वृत्रवासवयोरिव ॥ २८ ॥
तौ
शोणिताक्तौ
युद्ध्येतां
वानरौ
वनचारिणौ ।
मेघाविव
महाशब्दैस्तर्जमानौ
परस्परम् ॥ २९ ॥
हीयमानमथोऽपश्यत्सुग्रीवं
वानरेश्वरम् ।
वीक्षमाणं
दिशश्चैव
राघवः
स
मुहुर्मुहुः ॥ ३० ॥
ततो
रामो
महातेजा
आर्तं
दृष्ट्वा
हरीश्वरम् ।
शरं
च
वीक्षते
वीरो
वालिनो
वधकारणात् ॥ ३१ ॥
ततो
धनुषि
सन्धाय
शरमाशीविषोपमम् ।
पूरयामास
तच्चापं
कालचक्रमिवान्तकः ॥ ३२ ॥
तस्य
ज्यातलघोषेण
त्रस्ताः
पत्त्ररथेश्वराः ।
प्रदुद्रुवुर्मृगाश्चैव
युगान्त
इवमोहिताः ॥ ३३ ॥
मुक्तस्तु
वज्रनिर्घोषः
प्रदीप्ताशनिसन्निभः ।
राघवेण
महाबाणो
वालिवक्षसि
पातितः ॥ ३४ ॥
ततस्तेन
महातेजा
वीर्योत्सिक्तः
कपीश्वरः ।
वेगेनाभिहतो
वाली
निपपात
महीतले ॥ ३५ ॥
इन्द्रध्वज
इवोद्धूतः
पौर्णमास्यां
महीतेले ।
आश्वयुक्समये
मासि
गत
श्रीको
विचेतनः ॥ ३६ ॥
नरोत्तमः
कालयुगान्तकोपमं
शरोत्तमं
काञ्चनरूप्यभूषितम् ।
ससर्ज
दीप्तं
तममित्रमर्द्दनं
सधूममग्निं
मुखतो
यथा
हरः ॥ ३७ ॥
अथोक्षितः
शोणिततोयविस्रवैः
सुपुष्पिताशोक
इवानलोद्धतः ।
विचेतनो
वासवसूनुराहवे
विभ्रंशितेन्द्रध्वजवत्क्षितिं
गतः ॥ ३८ ॥