इत्युक्तः
प्रश्रितं
वाक्यं
धर्मार्थसहितं
हितम् ।
परुषं
वालिना
रामो
निहतेन
विचेतसा ॥ १ ॥
तं
निष्प्रभमिवादित्यं
मुक्ततोयमिवाम्बुदम् ।
उक्तवाक्यं
हरिश्रेष्ठमुपशान्तमिवानलम् ॥ २ ॥
धर्मार्थगुणसम्पन्नं
हरीश्वरमनुत्तमम् ।
अधिक्षिप्तस्तदा
रामः
पश्चाद्वालिमब्रवीत् ॥ ३ ॥
धर्ममथ
च
कामं
च
समयं
चापि
लौकिकम् ।
अविज्ञाय
कथं
बाल्यान्मामिहाद्य
विगर्हसे ॥ ४ ॥
अपृष्ट्वा
बुद्धिसम्पन्नान्
वृद्धानाचार्यसम्मतान् ।
सौम्य
वानरचापल्यात्किं
मां
वक्तुमिहेच्छसि ॥ ५ ॥
इक्ष्वाकूणामियं
भूमिः
सशैलवनकानना ।
मृगपक्षिमनुष्याणां
निग्रहप्रग्रहावपि ॥ ६ ॥
तां
पालयति
धर्मात्मा
भरतः
सत्यवागृजुः ।
धर्मकामार्थतत्त्वज्ञो
निग्रहानुग्रहे
रतः ॥ ७ ॥
नयश्च
विनयश्चोभौ
यस्मिन्
सत्यं
च
सुस्थितम् ।
विक्रमश्च
यथादृष्टः
स
राजा
देशकालवित् ॥ ८ ॥
तस्य
धर्मकृतादेशा
वयमन्ये
च
पार्थिवाः ।
चरामो
वसुधां
कृत्स्नां
धर्मसन्तानमिच्छवः ॥ ९ ॥
तस्मिन्नृपतिशार्दूले
भरते
धर्मवत्सले ।
पालयत्यखिलां
भूमिं
कश्चरेद्धर्मनिग्रहम् ॥ १० ॥
ते
वयं
धर्मविभ्रष्टं
स्वधर्मे
परमे
स्थिताः ।
भरताज्ञां
पुरस्कृत्य
निगृह्णीमो
यथाविधि ॥ ११ ॥
त्वं
तु
सङ्क्लिष्टधर्मा
च
कर्मणा
च
विगर्हितः ।
कामतन्त्रप्रधानश्च
न
स्थितो
राजवर्त्मनि ॥ १२ ॥
ज्येष्ठो
भ्राता
पिता
चैव
यश्च
विद्यां
प्रयच्छति ।
त्रयस्ते
पितरो
ज्ञेया
धर्मे
पथि
हि
वर्तिनः ॥ १३ ॥
यवीयानात्मनः
पुत्रः
शिष्यश्चापि
गुणोदितः ।
पुत्रवत्ते
त्रयश्चिन्त्या
धर्मश्चेदत्र
कारणम् ॥ १४ ॥
सूक्ष्मः
परमदुर्ज्ञेयः
सतां
धर्मः
प्लवङ्गम ।
हृदिस्थः
सर्वभूतानामात्मा
वेद
शुभाशुभम् ॥ १५ ॥
चपलश्चपलैः
साध
वानरैरकृतात्मभिः ।
जात्यन्ध
इव
जात्यन्धैर्मन्त्रयन्
द्रक्ष्यसे
नु
किम् ॥ १६ ॥
अहं
तु
व्यक्ततामस्य
वचनस्य
ब्रवीमि
ते ।
न
हि
मां
केवलं
रोषात्त्वं
विगर्हितुमर्हसि ॥ १७ ॥
तदेतत्कारणं
पश्य
यदथ
त्वं
मया
हतः ।
भ्रातुर्वर्तसि
भार्यायां
त्यक्त्वा
धर्मं
सनातनम् ॥ १८ ॥
अस्य
त्वं
धरमाणस्य
सुग्रीवस्य
महात्मनः ।
रुमायां
वर्तसे
कामात्
स्नुषायां
पापकर्मकृत् ॥ १९ ॥
तद्व्यतीतस्य
ते
धर्मात्कामवृत्तस्य
वानर ।
भ्रातृभार्यावमर्शेऽस्मिन्
दण्डोऽयं
प्रतिपादितः ॥ २० ॥
नहि
धर्मविरुद्धस्य
लोकवृत्तादपेयुषः ।
दण्डादन्यत्र
पश्यामि
निग्रहं
हरियूथप ॥ २१ ॥
न
हि
ते
मर्षये
पापं
क्षत्ित्रयोऽहं
कुलोद्भवः ।
औरसीं
भगिनीं
वापि
भार्यां
वाप्यनुजस्य
यः ॥ २२ ॥
प्रचरेत
नरः
कामात्तस्य
दण्डो
वधः
स्मृतः ।
भरतस्तु
महीपालो
वयं
त्वादेशवर्तिनः ॥ २३ ॥
त्वं
तु
धर्मादतिक्रान्तः
कथं
शक्य
उपेक्षितुम् ।
गुरुर्धर्मव्यतिक्रान्तं
प्राज्ञो
धर्मेण
पालयन् ॥ २४ ॥
भरतः
कामवृत्तानां
निग्रहे
पर्यवस्थितः ।
वयं
तु
भरतादेशं
विधिं
कृत्वा
हरीश्वर ॥ २५ ॥
त्वद्विधान्
भिन्नमर्यादान्
नियन्तुं
पर्यवस्थिताः ।
सुग्रीवेण
च
मे
सख्यं
लक्ष्मणेन
यथा
तथा ॥ २६ ॥
दारराज्यनिमित्तं
च
निःश्रेयसि
रतः
स
मे ।
प्रतिज्ञा
च
मया
दत्ता
तदा
वानरसन्निधौ ॥ २७ ॥
प्रतिज्ञा
च
कथं
शक्या
मद्विधेनानवेक्षितुम् ।
तदेभिः
कारणैः
सर्वैर्महद्भिर्धर्मसंहितैः ॥ २८ ॥
शासनं
तव
यद्युक्तं
तद्भवाननुमन्यताम् ।
सर्वथा
धर्म
इत्येव
द्रष्टव्यस्तव
निग्रहः ॥ २९ ॥
वयस्यस्यापि
कर्तव्यं
धर्ममेवानुपश्यतः ।
शक्यं
त्वयापि
तत्कार्यं
धर्ममेवानुपश्यता ॥ ३० ॥
श्रूयते
मनुना
गीतौ
श्लोकौ
चारित्रवत्सलौ ।
गृहीतौ
धर्मकुशलैस्तत्तथा
चरितं
हरे ॥ ३१ ॥
राजभिर्धृतदण्डास्तु
कृत्वा
प्रापानि
मानवाः ।
निर्मलाः
स्वर्गमायान्ति
सन्तः
सुकृतिनो
यथा ॥ ३२ ॥
शासनाद्वा
विमोक्षाद्वा
स्तेनः
स्तेयाद्विमुच्यते ।
राजा
त्वशासनात्
पापं
तदवाप्नोति
किल्बिषम् ॥ ३३ ॥
आर्येण
मम
मान्धात्रा
व्यसनं
घोरमीप्सितम् ।
श्रमणेन
कृते
पापे
यथा
पापं
कृतं
त्वया ॥ ३४ ॥
अन्यैरपि
कृतं
पापं
प्रमत्तैर्वसुधाधिपैः ।
प्रायश्चित्तं
च
कुर्वन्ति
तेन
तच्छाम्यते
रजः ॥ ३५ ॥
तदलं
परितापेन
धर्मतः
परिकल्पितः ।
वधो
वानरशार्दूल
न
वयं
स्ववशे
स्थिताः ॥ ३६ ॥
शृणु
चाप्यपरं
भूयः
कारणं
हरिपुङ्व ।
यच्छ्रुत्वा
हेतुमद्वीर
न
मन्युं
कर्तुमर्हसि ॥ ३७ ॥
न
मे
तत्र
मनस्तापो
न
मन्युर्हरियूथप ।
वागुराभिश्च
पाशैश्च
कूटैश्च
विविधैर्नराः ॥ ३८ ॥
प्रतिच्छन्नाश्च
दृश्याश्च
गृह्णन्ति
सुबहून्
मृगान् ।
प्रधावितान्वा
वित्रस्तान्
विस्रब्धांश्चापि
निष्ठितान् ॥ ३९ ॥
प्रमत्तानप्रमत्तान्वा
नरा
मांसार्थिनो
भृशम् ।
विध्यन्ति
विमुखांश्चापि
न
च
दोषोऽत्र
विद्यते ॥ ४० ॥
तस्मात्त्वं
निहतो
यद्धे
मया
बाणेन
वानर ।
अयुध्यन्प्रतुयुध्यन्वा
यस्माच्छाखामृगो
ह्यसि ॥ ४१ ॥
दुर्लभस्य
च
धर्मस्य
जीवितस्य
शुभस्य
च ।
राजानो
वानरश्रेष्ठ
प्रदातारो
न
संशयः ॥ ४२ ॥
तान्न
हिंस्यान्न
चाक्रोशेन्नाक्षिपेन्नाप्रियं
वदेत् ।
देवा
मनुष्यरूपेण
चरन्त्येते
महीतले ॥ ४३ ॥
त्वं
तु
धर्ममविज्ञाय
केवलं
रोषमास्थितः ।
प्रदूषयसि
मां
धर्मे
पितृपैतामहे
स्थितम् ॥ ४४ ॥
न
दोषं
राघवे
दध्यौ
धर्मेऽधिगतनिश्चयः ।
प्रत्युवाच
ततो
रामं
प्राञ्जलिर्वानरेश्वरः ॥ ४५ ॥
यत्त्वमात्थ
नरश्रेष्ठ
तदेवं
नात्र
संशयः ।
प्रतिवक्तुं
प्रकृष्टे
हि
नाप्रकृष्टस्तु
शक्नुयात् ॥ ४६ ॥
तदयुक्तं
मया
पूर्वं
प्रमादादुक्तमप्रियम् ।
तत्रापि
खलु
मे
दोषं
कर्तुं
नार्हसि
राघव ॥ ४७ ॥
त्वं
हि
दृष्टार्थतत्त्वज्ञः
प्रजानां
च
हिते
रतः ।
कार्यकारणसिद्धौ
ते
प्रसन्ना
बुद्धिरव्यया ॥ ४८ ॥
मामप्यगतधर्माणं
व्यतिक्रान्तपुरस्कृतम् ।
धर्मसंहितया
वाचा
धर्मज्ञ
परिपालय ॥ ४९ ॥
न
त्वात्मानमहं
शोचे
न
तारां
न
च
बान्धवान् ।
यथा
पुत्रं
गुणश्रेष्ठमङ्गदं
कनकाङ्गदम् ॥ ५० ॥
स
ममादर्शनाद्दीनो
बाल्यात्प्रभृति
लालितः ।
तटाक
इव
पीताम्बुरुपशोषं
गमिष्यति ॥ ५१ ॥
बालश्चाकृतबुद्धिश्च
एकपुत्रश्च
मे
प्रियः ।
तारेयो
राम
भवता
रक्षणीयो
महाबलः ॥ ५२ ॥
सुग्रीवे
चाङ्गदे
चैव
विधत्स्व
मतिमुत्तमाम् ।
त्वं
हि
शास्ता
च
गोप्ता
च
कार्याकार्यविधौ
स्थितः ॥ ५३ ॥
या
ते
नरपते
वृत्तिर्भरते
लक्ष्मणे
च
या ।
सुग्रीवे
चाङ्गदे
राजंस्तां
त्वमाधातुमर्हसि ॥ ५४ ॥
मद्दोषकृतदोषां
तां
यथा
तारां
तपस्विनीम् ।
सुग्रीवो
नावमन्येत
तथाऽवस्थातुमर्हसि ॥ ५५ ॥
त्वया
ह्यनुगृहीतेन
राज्यं
शक्यमुपासितुम् ।
त्वद्वशे
वर्तमानेन
तव
चित्तानुवर्तिना ॥ ५६ ॥
शक्यं
दिवं
चार्जयितुं
वसुधां
चापि
शासितुम् ।
त्वत्तोहं
वधमाकाङ्क्षन्वार्यमाणोपि
तारया ॥ ५७ ॥
सुग्रीवेण
सह
भ्रात्रा
द्वन्द्वयुद्धमुपागतः ।
इत्युक्त्वा
सन्नतो
रामं
विरराम
हरीश्वरः ॥ ५८ ॥
स
तमाश्वासयद्रामो
वालिनं
व्यक्तदर्शनम् ।
सामसम्पन्नया
वाचा
धर्मतत्त्वार्थयुक्तया ॥ ५९ ॥
न
सन्तापस्त्वया
कार्य
एतदर्थं
प्लवङ्गम ।
न
वयं
भवता
चिन्त्या
नाप्यात्मा
हरिसत्तम ॥ ६० ॥
वयं
भवद्विशेषेण
धर्मतः
कृतनिश्चयाः ।
दण्ड्ये
यः
पातयेद्दण्डं
दण्ड्यो
यश्चापि
दण्ड्यते ॥ ६१ ॥
कार्यकारणसिद्धार्थावुभौ
तौ
नावसीदतः ।
तद्भवान्
दण्डसंयोगादस्माद्विगतकल्मषः ॥ ६२ ॥
गतः
स्वां
प्रकृतिं
धर्म्यां
धर्मदृष्टेन
वर्त्मना ।
त्यज
शोकं
च
मोहं
च
भयं
च
हृदये
स्थितम् ॥ ६३ ॥
त्वया
विधानं
हर्यग्र्य
न
शक्यमतिवर्तितुम् ।
यथा
त्वय्यङ्गदो
नित्यं
वर्तते
वानरेश्वर ॥ ६४ ॥
तथा
वर्तेत
सुग्रीवे
मयि
चापि
न
संशयः ।
स
तस्य
वाक्यं
मधुरं
महात्मनः
समाहितं
धर्मपथानुवर्तिनः ॥ ६५ ॥
निशम्य
रामस्य
रणावमर्दिनो
वचः
सुयुक्तं
निजगाद
वानरः ।
शराभितप्तेन
विचेतसा
मया
प्रदूषितस्त्वं
यदजानता
प्रभो ॥ ६६ ॥
इदं
महेन्द्रोपम
भीमविक्रम
प्रसादितस्त्वं
क्षम
मे
नरेश्वर ॥ ६७ ॥