स
वानरमहाराजः
शयानः
शरविक्षतः ।
प्रुत्युक्तो
हेतुमद्वाक्यैर्नोत्तरं
प्रत्यपद्यत ॥ १ ॥
अश्मभिः
प्रविभिन्नाङ्गः
पादपैराहतो
भृशम् ।
रामबाणेन
च
क्रान्तो
जीवितान्ते
मुमोह
सः ॥ २ ॥
तं
भार्या
बाणमोक्षेण
रामदत्तेन
संयुगे ।
हतं
प्लवगशार्दूलं
तारा
शुश्राव
वालिनम् ॥ ३ ॥
सा
सपुत्राऽप्रियं
श्रुत्वा
वधं
भर्तुः
सुदारुणम् ।
निष्पपात
भृशं
त्रस्ता
विविधाद्गिरिगह्वरात् ॥ ४ ॥
ये
त्वङ्गदपरीवारा
वानरा
भीमविक्रमाः ।
ते
सकार्मुकमालोक्य
रामं
त्रस्ताः
प्रदुद्रुवुः ॥ ५ ॥
सा
ददर्श
ततस्त्रस्तान्
हरीनापततो
भृशम् ।
यूथादिव
परिभ्रष्टान्
मृगान्निहतयूथपान् ॥ ६ ॥
तानुवाच
समासाद्य
दुःखितान्
दुःखिता
सती ।
रामवित्रासितान्त्सर्वाननुबद्धानिवेषुभिः ॥ ७ ॥
वानरा
राजसिंहस्य
यस्य
यूयं
पुरःसराः ।
तं
विहाय
सुसन्त्रस्ताः
कस्माद्द्रवथ
दुर्गताः ॥ ८ ॥
राज्यहेतोः
स
चेद्
भ्राता
भ्रात्रा
रौद्रेण
पातितः ।
रामेण
प्रहितै
रौद्रैर्मार्गणैर्दूरपातिभिः ॥ ९ ॥
कपिपत्न्या
वचः
श्रुत्वा
कपयः
कामरूपिणः ।
प्राप्तकालमविक्लिष्टमूचुर्वचनमङ्गनाम् ॥ १० ॥
जीवपुत्रे
निवर्तस्व
पुत्रं
रक्षस्व
चाङ्गदम् ।
अन्तको
रामरूपेण
हत्वा
नयति
वालिनम् ॥ ११ ॥
क्षिप्तान्
वृक्षान्
समाविध्य
विपुलाश्च
शिलास्तथा ।
वाली
वज्रसमैर्बाणै
रामेण
विनिपातितः ॥ १२ ॥
अभिद्रुतमिदं
सर्वं
विद्रुतं
प्रसृतं
बलम् ।
अस्मिन्
प्लवगशार्दूले
हते
शक्रसमप्रभे ॥ १३ ॥
रक्ष्यतां
नगरद्वारमङ्गदश्चाभिषिच्यताम् ।
पदस्थं
वालिनः
पुत्रं
भजिष्यन्ति
प्लवङ्गमाः ॥ १४ ॥
अथवाऽरुचितं
स्थानमिह
ते
रुचिरानने ।
आविशन्ति
हि
दुर्गाणि
क्षिप्रमन्यानि
वानराः ॥ १५ ॥
अभार्याश्च
सभार्याश्च
सन्त्यत्र
वनचारिणः ।
लुब्धेभ्यो
विप्रयुक्तेभ्यस्तेभ्यो
नस्तुमुलं
भयम् ॥ १६ ॥
अल्पान्तरगतानां
तु
श्रुत्वा
वचनमङ्गना ।
आत्मनः
प्रतिरूपं
सा
बभाषे
चारुहासिनी ॥ १७ ॥
पुत्रेण
मम
किं
कार्यं
किं
राज्येन
किमात्मना ।
कपिसिंहे
महाभागे
तस्मिन्
भर्तरि
नश्यति ॥ १८ ॥
पादमूलं
गमिष्यामि
तस्यैवाहं
महात्मनः ।
योऽसौ
रामप्रयुक्तेन
शरेण
विनिपातितः ॥ १९ ॥
एवमुक्त्वा
प्रदुद्राव
रुदन्ती
शोककर्शिता ।
शिरश्चोरश्च
बाहुभ्यां
दुःखेन
समभिघ्नती ॥ २० ॥
आव्रजन्ती
ददर्शाथ
पतिं
निपतितं
भुवि ।
हन्तारं
दानवेन्द्राणां
समरेष्वनिवर्तिनाम् ॥ २१ ॥
क्षेप्तारं
पर्वतेन्द्राणां
वज्राणामिव
वासवम् ।
महावातसमाविष्टं
महामेघौघनिःस्वनम् ॥ २२ ॥
शक्रतुल्यपराक्रान्तं
वृष्ट्वेवोपरतं
घनम् ।
नर्दन्तं
नर्दतां
भीमं
शूरं
शूरेण
पातितम् ॥ २३ ॥
शार्दूलेनामिषस्यार्थे
मृगराजं
यथा
हतम् ।
अर्चितं
सर्वलोकस्य
सपताकं
सवेदिकम् ॥ २४ ॥
अवष्टभ्य
च
तिष्ठन्तं
ददर्श
धनुरुत्तमम् ।
रामं
रामानुजं
चैव
भर्तुश्चैवानुजं
शुभा ॥ २५ ॥
तानतीत्य
समासाद्य
भर्तारं
निहतं
रणे ।
समीक्ष्य
व्यथिता
भूमौ
सम्भ्रान्ता
निपपात
ह ॥ २६ ॥
सुप्त्वैव
पुनरुत्थाय
आर्यपुत्रेति
क्रोशती ।
रुरोद
सा
पतिं
दृष्ट्वा
सन्दितं
मृत्युदामभिः ॥ २७ ॥
तामवेक्ष्य
तु
सुग्रीवः
क्रोशन्तीं
कुररीमिव ।
विषादमगमत्कष्टं
दष्ट्वा
चाङ्गदमागतम् ॥ २८ ॥