ततो
निपतितां
तारां
च्युतां
तारामिवाम्बरात् ।
शनैराश्वासयामास
हनुमान्
हरियूथपः ॥ १ ॥
गुणदेषकृतं
जन्तुः
स्वकर्मफलहेतुकम् ।
अव्यग्रस्तदवाप्नोति
सर्वं
प्रेत्य
शुभाशुभम् ॥ २ ॥
शोच्या
शोचसि
कं
शोच्यं
दीनं
दीनाऽनुकम्पसे ।
कस्य
को
वाऽनुशोच्योऽस्ति
देहेऽस्मिन्
बुद्बुदोपमे ॥ ३ ॥
अङ्गदस्तु
कुमारोऽयं
द्रष्टव्यो
जीवपुत्रया ।
आयत्यां
च
विधेयानि
समर्थान्यस्य
चिन्तय ॥ ४ ॥
जानास्यनियतामेवं
भूतानामागतिं
गतिम् ।
तस्माच्छुभं
हि
कर्तव्यं
पण्डिते
नैहलौकिकम् ॥ ५ ॥
यस्मिन्
हरिसहस्राणि
प्रयुतान्यर्बुदानि
च ।
वर्तयन्ति
कृतांशानि
सोऽयं
दिष्टान्तमागतः ॥ ६ ॥
यदयं
न्यायदृष्टार्थः
सामदानक्षमापरः ।
गतो
धर्मजितां
भूमिं
नैनं
शोचितुमर्हसि ॥ ७ ॥
सर्वे
हि
हरिशार्दूलाः
पुत्रश्चायं
तवाङ्गदः ।
इदं
हर्यृक्षराज्यं
च
त्वत्सनाथमनिन्दिते ॥ ८ ॥
ताविमौ
शोकसन्तापौ
शनैः
प्रेरय
भामिनि ।
त्वाय
परिगृहीतोऽयमङ्गदः
शास्तु
मेदिनीम् ॥ ९ ॥
सन्ततिश्च
यथा
दृष्टा
कृत्यं
यच्चापि
साम्प्रतम् ।
राज्ञस्तत्क्रियतां
तावदेष
कालस्य
निश्चयः ॥ १० ॥
संस्कार्यो
हरिराजश्च
अङ्गदश्चाभिषिच्यताम् ।
सिंहासनगतं
पुत्रं
पश्यन्ती
शान्तिमेष्यसि ॥ ११ ॥
सा
तस्य
वचनं
श्रुत्वा
भर्तृव्यसनपीडिता ।
अब्रवीदुत्तरं
तारा
हनुमन्तमवस्थितम् ॥ १२ ॥
अङ्गदप्रतिरूपाणां
पुत्राणामेकतः
शतम् ।
हतस्याप्यस्य
वीरस्य
गात्रसंश्लेषणं
वरम् ॥ १३ ॥
न
चाहं
हरिराजस्य
प्रभावाम्यङ्गदस्य
वा ।
पितृव्यस्तस्य
सुग्रीवः
सर्वकार्येष्वनन्तरः ॥ १४ ॥
न
ह्येषा
बुद्धिरास्थेया
हनुमन्नङ्गदं
प्रति ।
पिता
हि
बन्धुः
पुत्रस्य
न
माता
हरिसत्तम ॥ १५ ॥
न
हि
मम
हरिराजसंश्रयात्
क्षमतरमस्ति
परत्र
चेह
वा ।
अभिमुखहतवीरसेवितं
शयनमिदं
मम
सेवितुं
क्षमम् ॥ १६ ॥