वीक्षमाणस्तु
मन्दासुः
सर्वतो
मन्दमुच्छ्वसन् ।
आदावेव
तु
सुग्रीवं
ददर्श
त्वात्मजाग्रतः ॥ १ ॥
तं
प्राप्तविजयं
वाली
सुग्रीवं
प्लवगेश्वरः ।
आभाष्य
व्यक्तया
वाचा
सस्नेहमिदमब्रवीत् ॥ २ ॥
सुग्रीव
दोषेण
न
मां
गन्तुमर्हसि
किल्बषात् ।
कृष्यमाणं
भविष्येण
बुद्धिमोहेन
मां
बलात् ॥ ३ ॥
युगपद्विहितं
तात
न
मन्ये
सुखमावयोः ।
सौहार्दं
भ्रातृयुक्तं
हि
तदिदं
तात
नान्यथा ॥ ४ ॥
प्रतिपद्य
त्वमद्यैव
राज्यमेषां
वनौकसाम् ।
मामप्यद्यैव
गच्छन्तं
विद्धि
वैवस्वतक्षयम् ॥ ५ ॥
जीवितं
हि
राज्यं
च
श्रियं
च
विपुलामिमाम् ।
प्रजहाम्येष
वै
तूर्णं
महच्चागर्हितं
यशः ॥ ६ ॥
अस्यां
त्वहमवस्थायां
वीर
वक्ष्यामि
यद्वचः ।
यद्यप्यसुकरं
राजन्
कर्तुमेव
तदर्हसि ॥ ७ ॥
बाष्पपूर्णमुखं
पश्य
भूमौ
पतितमङ्गदम् ।
मम
प्राणैः
प्रियतरं
पुत्रं
पुत्रमिवौरसम् ॥ ८ ॥
त्वमेवास्य
हि
दाता
च
परित्राता
च
सर्वतः ।
भयेष्वभयदश्चैव
यथाऽहं
प्लवगेश्वर ॥ ९ ॥
एष
तारात्मजः
श्रीमांस्त्वया
तुल्यपराक्रमः ।
रक्षसां
तु
वधे
तेषामग्रतस्ते
भविष्यति ॥ १० ॥
अनुरूपाणि
कर्माणि
विक्रम्य
बलवान्
रणे ।
करिष्यत्येष
तारेयस्तरस्वी
तरुणोऽङ्गदः ॥ ११ ॥
सुषेणदुहिता
चेयमर्थसूक्ष्मविनिश्चये ।
औत्पातिके
च
विविधे
सर्वतः
परिनिष्ठिता ॥ १२ ॥
यदेषा
साध्विति
ब्रूयात्
कार्यं
तन्मुक्तसंशयम् ।
नहि
तारामतं
किञ्चिदन्यथा
परिवर्तते ॥ १३ ॥
राघवस्य
च
ते
कार्यं
कर्तव्यमविशङ्कया ।
स्यादधर्मो
ह्यकरणे
त्वां
च
हिंस्याद्विमानितः ॥ १४ ॥
इमां
च
मालामाधत्स्व
दिव्यां
सुग्रीव
काञ्चनीम् ।
उदारा
श्रीः
स्थिता
ह्यस्यां
सम्प्रजह्यान्मृते
मयि ॥ १५ ॥
इत्येमुक्तः
सुग्रीवो
वालिना
भ्रातृसौहृदात् ।
हर्षं
त्यक्त्वा
पुनर्दीनो
ग्रहग्रस्त
इवोडुराट् ॥ १६ ॥
तद्वालिवचनाच्छान्तः
कुर्वन्युक्तमतन्द्रितः ।
जग्रह
सोऽभ्यनुज्ञातो
मालां
तां
चैव
काञ्चनीम् ॥ १७ ॥
तां
मालां
काञ्चनीं
दत्त्वा
वाली
दृष्ट्वाऽऽत्मजं
स्थितम् ।
संसिद्धः
प्रेत्यभावाय
स्नेहादङ्गदमब्रवीत् ॥ १८ ॥
देशकालौ
भजस्वाद्य
क्षममाणः
प्रियाप्रिये ।
सुखदुःखसहः
काले
सुग्रीववशगो
भव ॥ १९ ॥
यथा
हि
त्वं
महाबाहो
लालितः
सततं
मया ।
न
तथा
वर्तमानं
त्वां
सुग्रीवो
बहु
मंस्यते ॥ २० ॥
मास्यामित्रैर्गतं
गच्छेर्मा
शत्रुभिररिन्दम ।
भर्तुरर्थपरो
दान्तः
सुग्रीववशगो
भव ॥ २१ ॥
न
चातिप्रणयः
कार्यः
कर्तव्योऽप्रणयश्च
ते ।
उभयं
हि
महान्
दोषस्तस्मादन्तरदृग्व ॥ २२ ॥
इत्युक्त्वाऽथ
विवृत्ताक्षः
शरसम्पीडितो
भृशम् ।
विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ॥ २३ ॥
ततो
विचुक्रुशुस्तत्र
वानरा
हरियूथपाः ।
परिदेवयमानास्ते
सर्वे
प्लवगपुङ्गवाः ॥ २४ ॥
उद्यानानि
च
शून्यानि
पर्वताः
काननानि
च ।
हते
प्लवगशार्दूले
निष्प्रभा
वानराः
कृताः ॥ २५ ॥
यस्य
वेगेन
महता
काननानि
वनानि
च ।
पुष्पौघेणानुबध्यन्ते
करिष्यति
तदद्य
कः ॥ २६ ॥
येन
दत्तं
महद्युद्धं
गन्धर्वस्य
महात्मनः ।
गोलभस्य
महाबाहोर्दश
वर्षाणि
पञ्च
च ॥ २७ ॥
नैव
रात्रौ
न
दिवसे
तद्युद्धमुपशाम्यति ।
ततस्तु
षोडशे
वर्षे
गोलभो
विनिपातितः ॥ २८ ॥
हत्वा
तं
दुर्विनीतं
तु
वाली
दंष्ट्राकरालवान् ।
सर्वाभयकरोऽस्माकं
कथमेष
निपातितः ॥ २९ ॥
हते
तु
वीरे
प्लवगाधिपे
तदा
प्लवङ्गमास्तत्र
न
शर्म
लेभिरे ।
वनेचराः
सिंहयुते
महावने
यथा
हि
गावो
निहते
गवां
पतौ ॥ ३० ॥
ततस्तु
तारा
व्यसनार्णवाप्लुता
मृतस्य
भर्तुर्वदनं
समीक्ष्य
सा ।
जगाम
भूमिं
परिरभ्य
वालिनं
महाद्रुमं
छिन्नमिवाश्रिता
लता ॥ ३१ ॥