ततः
समुपजिघ्रन्ती
कपिराजस्य
तन्मुखम् ।
पतिं
लोकाच्च्युतं
तारा
मृतं
वचनमब्रवीत् ॥ १ ॥
शेषे
त्वं
विषमे
दुःखमकृत्वा
वचनं
मम ।
उपलोपचिते
वीर
सुदुःखे
वसुधातले ॥ २ ॥
मत्तः
प्रियतरा
नूनं
वानरेन्द्र
मही
तव ।
शेषे
हि
तां
पिरिष्वज्य
मां
च
न
प्रतिभाषसे ॥ ३ ॥
सुग्रीवस्य
वशं
प्राप्तो
विधिरेष
भवत्यहो ।
सुग्रीव
एव
विक्रान्तो
वीर
साहसिकप्रिय ॥ ४ ॥
एषां
विलपितं
कृच्छ्रमङ्गदस्य
च
शेचतः ।
मम
चेमां
गिरं
श्रुत्वा
किं
त्वं
न
प्रतिबुध्यसे ॥ ५ ॥
इदं
तद्वीरशयनं
यत्र
शेषे
हतो
युधि ।
शायिता
निहता
यत्र
त्वयैव
रिपवः
पुरा ॥ ६ ॥
विशुद्धसत्त्वाभिजन
प्रिययुद्ध
मम
प्रिय ।
मामनाथां
विहायैकां
गतस्त्वमसि
मानद ॥ ७ ॥
शूराय
न
प्रदातव्या
कन्या
खलु
विपश्चिता ।
शूरभार्यां
हतां
पश्य
सद्यो
मां
विधवां
कृताम् ॥ ८ ॥
अवभग्नश्च
मे
मानो
भग्ना
मे
साश्वती
गतिः ।
अगाधे
च
निमग्नाऽस्मि
विपुले
शोकसागरे ॥ ९ ॥
अश्मसारमयं
नूनमिदं
मे
हृदयं
दृढम् ।
भर्तारं
निहतं
दृष्ट्वा
यन्नाद्य
शतधा
गतम् ॥ १० ॥
सुहृच्चै
व
हि
भर्ता
च
प्रकृत्या
मम
च
प्रियः ।
आहवे
च
पराक्रान्तः
शूरः
पञ्चत्वमागतः ॥ ११ ॥
पतिहीना
तु
या
नारी
कामं
भवतु
पुत्रिणी ।
धनधान्यैः
सुपूर्णाऽपि
विधवेत्युच्यते
जनैः ॥ १२ ॥
स्वगात्रप्रभवे
वीर
शेषे
रुधिरमण़्डले ।
कृमिरागपरिस्तोमे
त्वमात्मशयने
यथा ॥ १३ ॥
रेणुशोणितसंवीतं
गात्रं
तव
समन्ततः ।
परिरब्धुं
न
शक्नोमि
भुजाभ्यां
प्लवगर्षभ ॥ १४ ॥
कृतकृत्योऽद्य
सुग्रीवो
वैरेऽस्मिन्नतिदारुणे ।
यस्य
रामविमुक्तेन
हृतमेकेषुणा
भयम् ॥ १५ ॥
शरेण
हृदि
लग्नेन
गात्रसंस्पर्शने
तव ।
वार्यामि
त्वां
निरीक्षन्ती
त्वयि
पञ्चत्वमागते ॥ १६ ॥
उद्बबर्ह
शरं
नीलस्तस्य
गात्रगतं
तदा ।
गिरिगह्वरसंलीनं
दीप्तमाशीविषं
यथा ॥ १७ ॥
तस्य
निष्कृष्यमाणस्य
बाणस्य
च
बभौ
द्युतिः ।
अस्तमस्तकसंरुद्धो
रश्मिर्दिनकरादिव ॥ १८ ॥
पेतुः
क्षतजधारास्तु
व्रणेभ्यस्तस्य
सर्वशः ।
ताम्रगैरिकसम्पृक्ता
धारा
इव
धराधरात् ॥ १९ ॥
अवकीर्णं
विमार्जन्ती
भर्तारं
रणरेणुना ।
आस्रैर्नयनजैः
शूरं
सिषेचास्त्रसमाहतम् ॥ २० ॥
रुधिरोक्षितसर्वाङ्गं
दृष्ट्वा
विनिहतं
पतिम् ।
उवाच
तारा
पिङ्गाक्षं
पुत्रमङ्गदमङ्गना ॥ २१ ॥
अवस्थां
पश्चिमां
पश्य
पितुः
पुत्र
सुदारुणाम् ।
सम्प्रसक्तस्य
वैरस्य
गतोऽन्तः
पापकर्मणा ॥ २२ ॥
बालसूर्योदयतनुं
प्रयान्तं
यमसादनम् ।
अभिवादय
राजानं
पितरं
पुत्र
मानदम् ॥ २३ ॥
एवमुक्तः
समुत्थाय
जग्राह
चरणौ
पितुः ।
भुजाभ्यां
पीनवृत्ताभ्यामङ्गदोऽहमिति
ब्रुवन् ॥ २४ ॥
अभिवादयमानं
त्वामङ्गदं
त्वं
यथा
पुरा ।
दीर्घायुर्भव
पुत्रेति
किमर्थं
नाभिभाषसे ॥ २५ ॥
अहं
पुत्रसहाया
त्वामुपासे
गतचेतसम् ।
सिंहेन
निहतं
सद्यो
गौः
सवत्सेव
गोवृषम् ॥ २६ ॥
इष्ट्वा
सङ्ग्रामयज्ञेन
रामप्रहरणाम्भसि ।
अस्मिन्नवभृथे
स्नातः
कथं
पत्न्या
मया
विना ॥ २७ ॥
या
दत्ता
देवराजेन
तव
तुष्टेन
संयुगे ।
शातकुम्भमयीं
मालां
तां
ते
पश्यामि
नेह
किम् ॥ २८ ॥
राजश्रीर्न
जहाति
त्वां
गतासुमपि
मानद ।
सूर्यस्यावर्तमानस्य
शैलराजमिव
प्रभा ॥ २९ ॥
न
मे
वचः
पथ्यमिदं
त्वया
कृतं
न
चास्मि
शक्ता
विनिवारणे
तव ।
हता
सपुत्राऽस्मि
हतेन
संयुगे
सह
त्वया
श्रीर्विजहाति
मामिह ॥ ३० ॥