तां
चाश्रुवेगेन
दुरासदेन
त्वभिप्लुतां
शोकमहार्णवेन ।
पश्यंस्तदा
वाल्यनुजस्तरस्वी
भ्रातुर्वधेनाप्रतिमेन
तेपे ॥ १ ॥
स
बाष्पपूर्णेन
मुखेन
वीक्ष्य
क्षणेन
निर्विण्णमना
मनस्वी ।
जगाम
रामस्य
शनैः
समीपं
भृत्यैर्वृतः
सम्परिदूयमानः ॥ २ ॥
स
तं
समासाद्य
गृहीतचापमुदात्तमाशीविषतुल्यबाणम् ।
यशस्विनं
लक्षणलक्षिताङ्गमवस्थितं
राघवमित्युवाच ॥ ३ ॥
यथाप्रतिज्ञातमिदं
नरेन्द्र
कृतं
त्वया
दृष्टफलं
च
कर्म ।
ममाद्य
भोगेषु
नरेन्द्रपुत्र
मनो
निवृत्तं
सह
जीवितेन ॥ ४ ॥
अस्यां
महिष्यां
तु
भृशं
रुदन्त्यां
पुरे
च
विक्रोशति
दुःखतप्ते ।
हतेऽग्रजे
संशयितेऽङ्गदे
च
न
राम
राज्ये
रमते
मनो
मे ॥ ५ ॥
क्रोधादमर्षादतिविप्रधर्षात्
भ्रातुर्वधो
मेऽनुमतः
पुरस्तात् ।
हते
त्विदानीं
हरियूथपेऽस्मिन्
सुतीव्रमिक्ष्वाकुकुमार
तप्स्ये ॥ ६ ॥
श्रेयोऽद्य
मन्ये
मम
शैलमुख्ये
तस्मिन्निवासश्चिरमृश्यमूके ।
यथा
तथा
वर्तयतः
स्ववृत्त्या
नेमं
निहत्य
त्रिदिवस्य
लाभः ॥ ७ ॥
न
त्वां
जिघांसामि
चरेति
यन्मामयं
महात्मा
मतिमानुवाच ।
तस्यैव
तद्राम
वचोऽनुरूपमिदं
पुनः
कर्म
च
मेऽनुरूपम् ॥ ८ ॥
भ्राता
कथं
नाम
महागुणस्य
भ्रातुर्वधं
राघव
रोचयेत ।
राज्यस्य
दुःखस्य
च
वीर
सारं
न
चिन्तयन्
कामपुरस्कृतः
सन् ॥ ९ ॥
वधो
हि
मे
मतो
नासीत्स्वमाहात्म्यव्यतिक्रमात् ।
ममासीद्
बुद्धिदौरात्म्यात्प्राणहारी
व्यतिक्रमः ॥ १० ॥
द्रुमशाखावभग्नोऽहं
मुहूर्तं
परिनिष्ठनन् ।
सान्त्वयित्वा
त्वनेनोक्तो
न
पुनः
कर्तुमर्हसि ॥ ११ ॥
भ्रातृत्वमार्यभावश्च
धर्मश्चानेन
रक्षितः ।
मया
क्रोधश्च
कामश्च
कपित्वं
च
प्रदर्शितम् ॥ १२ ॥
अचिन्तनीयं
परिवर्जनीयमनीप्सनीयं
स्वनवेक्षणीयम् ।
प्राप्तोऽस्मि
पाप्मानमिमं
नरेन्द्र
भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः ॥ १३ ॥
पाम्पानमिन्द्रस्य
मही
जलं
च
वृक्षाश्च
कामं
जगृहुः
स्त्रियश्च ।
को
नाम
पाप्मानमिमं
क्षमेत
शाखामृगस्य
प्रतिपत्तुमिच्छन् ॥ १४ ॥
नार्हामि
सम्मानमिमं
प्रजानां
न
यौवराज्यं
कुत
एव
राज्यम् ।
अधर्मयुक्तं
कुलनाशयुक्तमेवंविधं
राघव
कर्म
कृत्वा ॥ १५ ॥
पापस्य
कर्ताऽस्मि
विगर्हितस्य
क्षुद्रस्य
लोकापकृतस्य
चैव ।
शोको
महान्
मामभिवर्ततेऽयं
वृष्टेर्यथा
निम्नमिवाम्बुवेगः ॥ १६ ॥
सोदर्यघाताऽपरगात्रवालः
सन्तापहस्ताक्षिशिरोविषाणः ।
एनोमयो
मामभिहन्ति
हस्ती
दृप्तो
नदीकूलमिव
प्रवृद्धः ॥ १७ ॥
अंहो
बतेदं
नृवराविषह्य
निवर्तते
मे
हृदि
साधु
वृत्तम् ।
विवर्णमग्नौ
परितप्यमानं
किट्टं
यथा
राघव
जातरूपम् ॥ १८ ॥
महाबलानां
हरियूथपानामिदं
कुलं
राघव
मन्निमित्तम ।
अस्याङ्गदस्यापि
च
शोकतापादर्धस्थितप्राणमितीव
मन्ये ॥ १९ ॥
सुतः
सुलभ्यः
सुजनः
सुवश्यः
कुतः
सुपुत्रः
सदृशोऽङ्गदेन ।
न
चापि
विद्येत
स
वीर
देशो
यस्मिन्भवेत्
सोदरसन्निकर्षः ॥ २० ॥
यद्यङ्गदो
वीर
वरार्ह
जीवेज्जीवेच्च
माता
परिपालनार्थम् ।
विना
तु
पुत्रं
परितापदीना
तारा
न
जीवेदिति
निश्चितं
मे ॥ २१ ॥
सोऽहं
प्रवेक्ष्याम्यतिदीप्तमग्निं
भ्रात्रा
च
पुत्रेण
च
सख्यमिच्छन् ।
इमे
विचेष्यन्ति
हरिप्रवीराः
सीतां
निदेशे
तव
वर्तमानाः ॥ २२ ॥
कृत्स्नं
तु
ते
सेत्स्यति
कार्यमेतन्मय्यप्रतीते
मनुजेन्द्रपुत्र ।
कुलस्य
हन्तारमजीवनार्हं
रामानुजानीहि
कृतागसं
माम् ॥ २३ ॥
इत्येवमार्तस्य
रघुप्रवीरः
श्रुत्वा
वचो
वाल्यनुजस्य
तस्य ।
सञ्जातबाष्पः
परवीरहन्ता
रामो
मुहूर्तं
विमना
बभूव ॥ २४ ॥
तस्मिन्
क्षणेऽभीक्ष्णमवेक्ष्यमाणः
क्षितिक्षमावान्
भुवनस्य
गोप्ता ।
रामो
रुदन्तीं
व्यसने
निमग्नां
समुत्सुकः
सोऽथ
ददर्श
ताराम् ॥ २५ ॥
तां
चारुनेत्रां
कपिसिंहनाथं
पतिं
समाश्लिष्य
तदा
शयानाम् ।
उत्थापयामासुरदीनसत्त्वां
मन्त्रिप्रधानाः
कपिवीरपत्नीम् ॥ २६ ॥
सा
विस्फुरन्ती
परिरभ्यमाणा
भर्तुः
सकाशादपनीयमाना ।
ददर्श
रामं
शरचापपाणिं
स्वतेजसा
सूर्यमिव
ज्वलन्तम् ॥ २७ ॥
सुसंवृतं
पार्थिवलक्षणैश्च
तं
चारुनेत्रं
मृगशावनेत्रा ।
अदृष्टपूर्वं
पुरुषप्रधानमयं
स
काकुत्स्थ
इति
प्रजज्ञे ॥ २८ ॥
तस्येन्द्रकल्पस्य
दुरासदस्य
महानुभावस्य
समीपमार्या ।
आर्ताऽतितूर्णं
व्यसनाभिपन्ना
जगाम
तारा
परिविह्वलन्ती ॥ २९ ॥
सा
तं
समासाद्य
विशुद्धसत्त्वा
शोकेन
सम्भ्रान्तशरीरभावा ।
मनस्विनी
वाक्यमुवाच
तारा
रामं
रणोत्कर्षणलब्धलक्षम् ॥ ३० ॥
त्वमप्रमेयश्च
दुरासदश्च
जितेन्द्रियश्चोत्तमधार्मिकश्च ।
अक्षय्यकीर्तिश्च
विचक्षणश्च
क्षितिक्षमावान्
क्षतजोपमाक्षः ॥ ३१ ॥
त्वमात्तबाणासनबाणपाणिर्महाबलः
संहननोपपन्नः ।
मनुष्यदेहाभ्युदयं
विहाय
दिव्येन
देहाभ्युदयेन
युक्तः ॥ ३२ ॥
येनैकबाणेन
हतः
प्रियो
मे
तेनेव
मां
त्वं
जहि
सायकेन ।
हता
गमिष्यामि
समीपमस्य
न
मामृते
राम
रमेत
वाली ॥ ३३ ॥
स्वर्गेऽपि
पद्मामलपत्त्रनेत्रः
समेत्य
सम्प्रेक्ष्य
च
मामपश्यन् ।
न
ह्येष
उच्चावचताम्रचूडा
विचित्रवेषाप्सरसोऽभजिष्यत् ॥ ३४ ॥
स्वर्गेऽपि
शेकं
च
विवर्णतां
च
मया
विना
प्राप्स्यति
वीर
वाली ।
रम्ये
नगेन्द्रस्य
तटावकाशे
विदेहकन्यारहितो
यथात्वम् ॥ ३५ ॥
त्वं
वेत्थ
यावद्वनिताविहीनः
प्राप्नोति
दुःखं
पुरुषः
कुमारः ।
तत्त्वं
प्रजानन्
जहि
मां
न
वाली
दुःखं
ममादर्शनजं
भजेत ॥ ३६ ॥
आत्मेयमस्येति
च
मां
जहि
त्वं
न
स्त्रीवधः
स्यान्मनुजेन्द्रपुत्र ।
शास्त्रप्रयोगाद्विविधाच्च
वेदादात्मा
ह्यनन्यः
पुरुषस्य
दाराः ॥ ३७ ॥
दारप्रदानान्न
हि
दानमन्यत्प्रदृश्यते
ज्ञानवतां
हि
लोके ।
त्वं
चापि
मां
तस्य
मम
प्रियस्य
प्रदास्यसे
धर्ममवेक्ष्य
वीर ॥ ३८ ॥
अनेन
दानेन
न
लप्स्यसे
त्वमधर्मयोगं
मम
वीर
घातात् ।
अहं
हि
मातङ्गविलासगामिना
प्लवङ्गमानामृषभेणधीमता ॥ ३९ ॥
विना
वरार्होत्तमहेममालिना
चिरं
न
शक्ष्यामि
नरेन्द्र
जीवितुम् ।
इत्येवमुक्तस्तु
विभुर्महात्मा
तारां
समाश्वास्य
हितं
बभाषे ॥ ४० ॥
मा
वीरभार्ये
विमतिं
कुरुष्व
लोको
हि
सर्वो
विहितो
विधात्रा ।
तं
चैव
सर्वं
सुखदुःखयोगं
लोकोऽब्रवीत्तेन
कृतं
विधात्रा ॥ ४१ ॥
प्रीतिं
परां
प्राप्स्यसि
तां
तथैव
पुत्रस्तु
ते
प्राप्स्यति
यौवराज्यम् ।
धात्रा
विधानं
विहितं
तथैव
न
शूरपत्न्यः
परिदेवयन्ति ॥ ४२ ॥
आश्वासिता
तेन
तु
राघवेण
प्रभावयुक्तेन
परन्तपेन ।
सा
वीरपन्ती
ध्वनता
मुखेन
सुवेषरूपा
विरराम
तारा ॥ ४३ ॥