सुग्रीवं
चैव
तारां
च
साङ्गदं
सहलक्ष्मणः ।
समानशोकः
काकुत्स्थः
सान्त्वयन्निदमब्रवीत् ॥ १ ॥
न
शोकपरितापेन
श्रेयसा
युज्यते
मृतः ।
यदत्रानन्तरं
कार्यं
तत्समाधातुमर्हथ ॥ २ ॥
लोकवृत्तमनुष्ठेयं
कृतं
वो
बाष्पमोक्षणम् ।
न
कालादुत्तरं
किञ्चित्कर्म
शक्यमुपासितुम् ॥ ३ ॥
नियतिः
कारणं
लोके
नियतिः
कर्मसाधनम् ।
नियतिः
सर्वभातानां
नियोगेष्विह
कारणम् ॥ ४ ॥
न
कर्ता
कस्यचित्कश्चिन्नियोगे
चापि
नेश्वरः ।
स्वाभावे
वर्तते
लोकस्तस्य
कालः
परायणम् ॥ ५ ॥
न
कालः
कालमत्येति
न
कालः
परिहीयते ।
स्वभावं
च
समासाद्य
न
कश्चिदतिवर्तते ॥ ६ ॥
न
कालस्यास्ति
बन्धुत्वं
न
हेतुर्न
पराक्रमः ।
न
मित्रज्ञातिसम्बन्धः
कारणं
नात्मनो
वशः ॥ ७ ॥
किन्तु
कालपरीणामो
द्रष्टव्यः
साधु
पश्यता ।
धर्मश्चार्थश्च
कामश्च
कालक्रमसमाहिताः ॥ ८ ॥
इतः
स्वां
प्रकृतिं
वाली
गतः
प्राप्तः
क्रियाफलम् ।
धर्मार्थकामसंयोगैः
पवित्रं
प्लवगेश्वरः ॥ ९ ॥
स्वधर्मस्य
च
संयोगाज्जितस्तेन
महात्मना ।
स्वर्गः
परिगृहीतश्च
प्राणानपरिरक्षता ॥ १० ॥
एषा
वै
नियतिः
श्रेष्ठा
यां
गतो
हरियूथपः ।
तदलं
परितापेन
प्राप्तकालमुपास्यताम् ॥ ११ ॥
वचनान्ते
तु
रामस्य
लक्ष्मणः
परवीरहा ।
अवदत्प्रश्रितं
वाक्यं
सुग्रीवं
गतचेतसम् ॥ १२ ॥
कुरु
त्वमस्य
सुग्रीव
प्रेतकार्यमनन्तरम् ।
ताराङ्गदाभ्यां
सहितो
वालनो
दहनं
प्रति ॥ १३ ॥
समाज्ञापय
काष्ठानि
शुष्काणि
च
बहूनि
च ।
चन्दनादीनि
दिव्यानि
वालिसंस्कारकारणात् ॥ १४ ॥
समाश्वासय
चैनं
त्वमङ्गदं
दीनचेतसम् ।
अङ्गदस्त्वानयेन्माल्यं
वस्त्राणि
विविधानि
च ॥ १५ ॥
घृतं
तैलमथो
गन्धान्यच्चात्र
समनन्तरम् ।
त्वं
तार
शिबिकां
शीघ्रमादायागच्छ
सम्भ्रमात् ॥ १६ ॥
त्वरा
गुणवती
युक्ता
ह्यस्मिन्काले
विशेषतः ।
सज्जीभवन्तु
प्लवगाः
शिबिकावहनोचिताः ॥ १७ ॥
समर्था
बलिनश्चैव
निर्हरिष्यन्ति
वालिनम् ।
एवमुक्त्वा
तु
सुग्रीवं
सुमित्रानन्दवर्द्धनः ॥ १८ ॥
तस्थौ
भ्रातृसमीपस्थो
लक्ष्मणः
परवीरहा ।
लक्ष्मणस्य
वचः
श्रुत्वा
तारः
सम्भ्रान्तमानसः ॥ १९ ॥
प्रविवेश
गुहां
शीघ्रं
शिबिकासक्तमानसः ।
आदाय
शिबिकां
तारः
स
तु
पर्यापतत्पुनः ॥ २० ॥
वानरैरुह्यमानां
तां
शूरैरुद्वहनोचितैः ।
दिव्यां
भद्रासनयुतां
शिबिकां
स्यन्दनोपमाम् ॥ २१ ॥
पक्षिकर्मभिराचित्रां
द्रुमकर्मविभूषिताम् ।
आचितां
चित्रपत्तीभिः
सुनिविष्टां
समन्ततः ॥ २२ ॥
विमानमिव
सिद्धानां
जालवातायनावृताम् ।
सुनियुक्तां
विशालां
च
सुकृतां
विश्वकर्मणा ॥ २३ ॥
दारुपर्वतकोपेतां
चारुकर्मपरिष्कृताम् ।
वराभरणहारैश्च
चित्रमाल्योपशोभिताम् ॥ २४ ॥
पुष्पौघैः
समभिच्छन्नां
पद्ममालाभिरेव
च ।
तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम् ॥ २५ ॥
ईदृशीं
शिबीकां
दृष्ट्वा
रामो
लक्ष्मणमब्रवीत् ।
क्षिप्रं
विनीयतां
वाली
प्रेतकार्यं
विधीयताम् ॥ २६ ॥
ततो
वालिनमुद्यम्य
सुग्रीवः
शिबिकां
तदा ।
आरोपयत
विक्रोशन्नङ्गदेन
सहैव
तु ॥ २७ ॥
आरोप्य
शिबिकां
चैव
वालिनं
गतजीवितम् ।
अलङ्कारैश्च
विविधैर्माल्यैर्वस्त्रैश्च
भूषितम् ॥ २८ ॥
आज्ञापयत्तदा
राजा
सुग्रीवः
प्लवगेश्वरः ।
और्ध्वदैहिकमार्यस्य
क्रियतामनुरूपतः ॥ २९ ॥
विश्राणयन्तो
रत्नानि
विविधानि
बहून्यापि ।
अग्रतः
प्लवगाः
यान्तु
शिबिका
समनन्तरम् ॥ ३० ॥
राज्ञामृद्धिविशेषा
हि
दृश्यन्ते
भुवि
यादृशाः ।
तादृशं
वालिनः
क्षिप्रं
प्राकुर्वन्नौर्ध्वदैहिकम् ॥ ३१ ॥
अङ्गदं
परिगृह्याशु
तारप्रभृतयस्तदा ।
क्रोशन्तः
प्रययुः
सर्वे
वानरा
हतबान्धवाः ॥ ३२ ॥
ततः
प्रणिहिताः
सर्वा
वानर्योऽस्य
वशानुगाः ।
चुक्रुशुर्वीर
वीरेति
भूयः
क्रोशन्ति
ताः
स्त्रियः ॥ ३३ ॥
ताराप्रभृतयः
सर्वा
वानर्यो
हतयूथपाः ।
अनुजग्मुर्हि
भर्तारं
क्रशन्त्यः
करुणस्वनाः ॥ ३४ ॥
तासां
रुदितशब्देन
वानरीणां
वनान्तरे ।
वनानि
गिरयः
सर्वे
विक्रोशन्तीव
सर्वतः ॥ ३५ ॥
पुलिने
गिरिनद्यास्तु
विविक्ते
जलसंवृते ।
चितां
चक्रुः
सुबहवो
वानराः
शोककर्शिताः ॥ ३६ ॥
अवरोप्य
ततः
स्कन्धाच्छिबिकां
वहनोचिताः ।
तस्थुरेकान्तमाश्रित्य
सर्वे
शोकसमन्विताः ॥ ३७ ॥
ततस्तारा
पतिं
दृष्टा
शिबिकातलशायिनम् ।
आरोप्याङ्के
शिरस्तस्य
विललाप
सुदुःखिता ॥ ३८ ॥
हा
महार्ह
महाबाहो
हा
मम
प्रिय
पश्य
माम् ।
जनं
न
पश्यसीमं
त्वं
कस्माच्छोकाभिपीडितम् ॥ ३९ ॥
प्रहृष्टमिव
ते
वक्त्रं
गतासोरपि
मानद ।
अस्तार्कसमवर्णं
च
लक्ष्यते
जीवतो
यथा ॥ ४० ॥
एष
त्वां
रामरूपेण
कालः
कर्षति
वानर ।
येन
स्म
विधवाः
सर्वाः
कृता
एकेषुणा
वने ॥ ४१ ॥
पादैर्विकृष्टमध्वानमागताः
किं
न
बुध्यसे ।
तवेष्टा
ननु
नामैता
भार्याश्चन्द्रनिभाननाः ॥ ४२ ॥
इदानीं
नेक्षसे
कस्मात्सुग्रीवं
प्लवगेश्वरम् ।
एते
हि
सचिवा
राजन्
तारप्रभृतयस्तव ॥ ४३ ॥
विसर्जयैतान्
प्लवगान्
यथोचितमरिन्दम ।
ततः
क्रीडामहे
सर्वा
वनेषु
मदनोत्कटाः ॥ ४४ ॥
एवं
विलपतीं
तारां
पतिशोकपरिप्लुताम् ।
उत्थापयन्ति
स्म
तदा
वानर्यः
शोककर्शिताः ॥ ४५ ॥
सुग्रीवेण
ततः
सार्धमङ्गदः
पितरं
रुदन् ।
चितामारोपयामास
शोकेनाभिहतेन्द्रियः ॥ ४६ ॥
ततोऽग्निं
विधिवद्दत्त्वा
सोऽपसव्यं
चकार
ह ।
पितरं
दीर्घमध्वानं
प्रस्थितं
व्याकुलेन्द्रियः ॥ ४७ ॥
संस्कृत्य
वालिनं
ते
तु
विधिपूर्वं
प्लवङ्गमाः ।
आजग्मुरुदकं
कर्तुं
नदीं
शीतजलां
शिवाम् ॥ ४८ ॥
ततस्ते
सहितास्तत्र
ह्यङ्गदं
स्थाप्य
चाग्रतः ।
सुग्रीवतारासहिताः
सिषिचुर्वालिने
जलम् ॥ ४९ ॥
सुग्रीवेणैव
दीनेन
दीनो
भूत्वा
महाबलः ।
समानशोकः
काकुत्स्थः
प्रेतकार्याण्यकारयत् ॥ ५० ॥
ततस्तु
तं
वालिनमग्र्यपौरुषं
प्रकाशमिक्ष्वाकुवरेषुणा
हतम् ।
प्रदीप्य
दीप्ताग्निसमौजसं
तदा
सलक्ष्मणं
राममुपेयिवान्
हरिः ॥ ५१ ॥