ततः
शोकाभिसन्तप्तं
सुग्रीवं
क्लिन्नवाससम् ।
शाखामृगमहामात्राः
परिवार्योपतस्थिरे ॥ १ ॥
अभिगम्य
महाबाहुं
राममक्लिष्टकारिणम् ।
स्थिताः
प्राञ्जलयः
सर्वे
पितामहमिवर्षयः ॥ २ ॥
ततः
काञ्चनशैलाभस्तरुणार्कनिभाननः ।
अब्रवीत्प्राञ्जलिर्वाक्यं
हनुमान्मारुतात्मजः ॥ ३ ॥
भवत्प्रसादात्सुग्रीवः
पितृपैतामहं
महत् ।
वानराणां
सुदुष्प्रापं
प्राप्तो
राज्यमिदं
प्रभो ॥ ४ ॥
भवता
समनुज्ञातः
प्रविश्य
नगरं
शुभम् ।
संविधास्यति
कार्याणि
सर्वाणि
ससुहृज्जनः ॥ ५ ॥
स्नातोऽयं
विविधैर्गन्धैरौषधैश्च
यथाविधि ।
अर्चयिष्यति
रत्नैश्च
माल्यैश्च
त्वां
विशेषतः ॥ ६ ॥
इमां
गिरिगुहां
रम्यामभिगन्तुमितोऽर्हसि ।
कुरुष्व
स्वामिसम्बन्धं
वानरान्
सम्प्रहर्षयन् ॥ ७ ॥
एवमुक्तो
हनुमता
राघवः
परवीरहा ।
प्रत्युवाच
हनूमन्तं
बुद्धिमान्वाक्यकोविदः ॥ ८ ॥
चतुर्दश
समाः
सौम्य
ग्रामं
वा
यदि
वा
पुरम् ।
न
प्रवेक्ष्यामि
हनुमन्
पितुर्निर्देशपालकः ॥ ९ ॥
सुसमृद्धां
गुहां
रम्यां
सुग्रीवो
वानरर्षभः ।
प्रविष्टो
विधिवद्वीरः
क्षिप्रं
राज्येऽभिषिच्यताम् ॥ १० ॥
एवमुक्त्वा
हनूमन्तं
रामः
सुग्रीवमब्रवीत् ।
वृत्तज्ञो
वृत्तसम्पन्नमुदारबलविक्रमम् ॥ ११ ॥
ज्येष्ठस्य
स
सुतो
ज्येष्ठः
सदृशो
विक्रमेण
ते ।
अङ्गदोऽयमदीनात्मा
यौवराज्यस्य
भाजनम् ॥ १२ ॥
पूर्वोऽयं
वार्षिको
मासः
श्रावणः
सलिलागमः ।
प्रवृत्ताः
सौम्य
चत्वारो
मासा
वार्षिकसञ्ज्ञकाः ॥ १३ ॥
नायमुद्योगसमयः
प्रविश
त्वं
पुरीं
शुभाम् ।
अस्मिन्वत्स्याम्यहं
सौम्य
पर्वते
सहलक्ष्मणः ॥ १४ ॥
इयं
गिरिगुहा
रम्या
विशाला
युक्तमारुता ।
प्रभूतसलिला
सौम्य
प्रभूतकमलोत्पला ॥ १५ ॥
कार्तिके
समनुप्राप्ते
त्वं
रावणवधे
यत ।
एष
नः
समयः
सौम्य
प्रविश
त्वं
स्वमालयम् ॥ १६ ॥
अभिषिक्तः
स्वराज्ये
च
सुहृदः
सम्प्रहर्षय ।
इति
रामाभ्यनुज्ञातः
सुग्रीवो
वानराधिपः ॥ १७ ॥
प्रविवेश
पुरीं
रम्यां
किष्कन्धां
वालिपालिताम् ।
तं
वानरसहस्राणि
प्रविष्टं
वानरेश्वरम् ॥ १८ ॥
अभिवाद्य
प्रविष्टानि
सर्वतः
पर्यवारयन् ।
ततः
प्रकृतयः
सर्वा
दृष्ट्वा
हरिगणेश्वरम् ॥ १९ ॥
प्रणम्य
मूर्ध्ना
पतिता
वसुधायां
समाहिताः ।
सुग्रीवः
प्रकृतीः
सर्वाः
सम्भाष्योत्थाप्य
वीर्यवान् ॥ २० ॥
भ्रातुरन्तःपुरं
सौम्यं
प्रविवेश
महाबलः ।
प्रविश्य
त्वभिनिष्क्रान्तं
सुग्रीवं
प्लवगेश्वरम् ॥ २१ ॥
अभ्यषिञ्चन्त
सुहृदः
सहस्राक्षमिवामराः ।
तस्य
पाण्डुरमाजह्रुश्छत्त्रं
हेमपरिष्कृतम् ॥ २२ ॥
शुक्ले
च
वालव्यजने
हेमदण्डे
यशस्करे ।
तथा
सर्वाणि
रत्नानि
सर्वबीजौषधैरपि ॥ २३ ॥
सक्षीराणां
च
वृक्षाणां
प्ररोहान्
कुसुमानि
च ।
शुक्लानि
चैव
वस्त्राणि
श्वेतं
चैवानुलेपनम् ॥ २४ ॥
सुगन्धीनि
च
माल्यानि
स्थलजान्यम्बुजानि
च ।
अक्षतं
जातरूपं
च
प्रियङ्गुमधुसर्पिषी ॥ २५ ॥
दधि
चर्म
च
वैयाघ्रं
वाराही
चाप्युपानहौ ।
समालम्भनमादाय
रोचनां
समनः
शिलाम् ॥ २६ ॥
आजग्मुस्तत्र
मुदिता
वराः
कन्यास्तु
षोडश ।
ततस्ते
वानरश्रेष्ठं
यथाकालं
यथाविधि ॥ २७ ॥
रत्नैर्वस्त्रैश्च
भक्षैश्च
तोषयित्वा
द्विजर्षभान् ।
ततः
कुशपरिस्तीर्णं
समिद्धं
जातवेदसम् ॥ २८ ॥
मन्त्रपूतेन
हविषा
हुत्वा
मन्त्रविदो
जनाः ।
ततो
हेमप्रतिष्ठाने
वरास्तरणसंवृते ॥ २९ ॥
प्रासादशिखरे
रम्ये
चित्रमाल्योपशोभिते ।
प्राङ्मुखं
विविधैर्मन्त्रैः
स्थापयित्वा
वरासने ॥ ३० ॥
नदीनदेभ्यः
संहृत्य
तीर्थेभ्यश्च
समन्ततः ।
आहृत्य
च
समुद्रेभ्यः
सर्वेभ्यो
वानरर्षभाः ॥ ३१ ॥
अपः
कनककुम्भेषु
निधाय
विमलाः
शुभाः ।
शुभैर्वृषभशृङ्गैश्च
कलशैश्चापि
काञ्चनैः ॥ ३२ ॥
शास्त्रदृष्टेन
विधिना
महर्षिविहितेन
च ।
गजो
गवाक्षो
गवयः
शरभो
गन्धमादनः ॥ ३३ ॥
मैन्दश्च
द्विविदश्चैव
हनुमान्
जाम्बवान्नलः ।
अभ्यषिञ्चन्त
सुग्रीवं
प्रसन्नेन
सुगन्धिना ॥ ३४ ॥
सलिलेन
सहस्राक्षं
वसवो
वासवं
यथा ।
अभिषिक्ते
तु
सुग्रीवे
सर्वे
वानरपुङ्गवाः ॥ ३५ ॥
प्रचुक्रुशुर्महात्मानो
हृष्टास्तत्र
सहस्रशः ।
रामस्य
तु
वचः
कुर्वन्
सुग्रीवो
हरिपुङ्गवः ॥ ३६ ॥
अङ्गदं
सम्परिष्वज्य
यौवराज्येऽभ्यषेचयत् ।
अङ्गदे
चाभिषिक्ते
तु
सानुक्रोशाः
प्लवङ्गमाः ॥ ३७ ॥
साधु
साध्विति
सुग्रीवं
महात्मानोऽभ्यपूजयन् ।
रामं
चैव
महात्मानं
लक्ष्मणं
च
पुनः
पुनः ॥ ३८ ॥
प्रीताश्च
तुष्टुवुः
सर्वे
तादृशे
तत्र
वर्तति ।
हृष्टपुष्टजनाकीर्णा
पताकाध्वजशोभिता ॥ ३९ ॥
बभूव
नगरी
रम्या
किष्किन्धा
गिरिगह्वरे ।
निवेद्य
रामाय
तदा
महात्मने
महाभिषेकं
कपिवाहिनीपतिः ॥ ४० ॥
रुमां
च
भार्यां
प्रतिलभ्य
वीर्यवानवाप
राज्यं
त्रिदशाधिपो
यथा ॥ ४१ ॥