अभिषिक्ते
तु
सुग्रीवे
प्रविष्टे
वानरे
गुहाम् ।
आजगाम
सह
भ्रात्रा
रामः
प्रस्रवणं
गिरिम् ॥ १ ॥
शार्दूलमृगसङ्घुष्टं
सिंहैर्भीमरवैर्वृतम् ।
नानागुल्मलतागूढं
बहुपादपसङ्कुलम् ॥ २ ॥
ऋक्षवानरगोपुच्छैर्मार्जारैश्च
निषेवितम् ।
मेघराशिनिभं
शैलं
नित्यं
शुचिजलाश्रयम् ॥ ३ ॥
तस्य
शैलस्य
शिखरे
महतीमायतां
गुहाम् ।
प्रत्यगृह्णत
वासार्थं
रामः
सौमित्रिणा
सह ॥ ४ ॥
कालयुक्तं
महद्वाक्यमुवाच
रघुनन्दनः ।
विनीतं
भ्रातरं
भ्राता
लक्ष्मणं
लक्ष्मिवर्धनम् ॥ ५ ॥
इयं
गिरिगुहा
रम्या
विशाला
युक्तमारुता ।
अस्यां
वसाव
सौमित्रे
वर्षरात्रमरिन्दम ॥ ६ ॥
गिरिशृङ्गमिदं
रम्यमुन्नतं
पार्थिवात्मज ।
श्वेताभिः
कृष्णताम्राभिः
शिलाभिरुपशोभितम् ॥ ७ ॥
नानाधातुसमाकीर्णं
दरीनिर्झरशोभितम् ।
विविधैर्वृक्षषण्डैश्च
चारुचित्रलतावृतम् ॥ ८ ॥
नानाविहगसङ्घुष्टं
मयूररवनादितम् ।
मालतीकुन्दगुल्मैश्च
सिन्दुवारकुरण़्टकैः ॥ ९ ॥
कदम्बार्जुनसर्जैश्च
पुष्पितैरुपशोभितम् ।
इयं
च
नलिनी
रम्या
फुल्लपङ्कजमण्डिता ॥ १० ॥
नातिदूरे
गुहाया
नौ
भविष्यति
नृपात्मज ।
प्रागुदक्प्रवणे
देशे
गुहा
साधु
भविष्यति ॥ ११ ॥
पश्चाच्चैवोन्नता
सौम्य
निवातेयं
भविष्यति ।
गुहाद्वारे
च
सौमित्रे
शिला
समतला
शुभा ॥ १२ ॥
श्लक्ष्णा
चैवायता
चैव
भिन्नाञ्जनचयोपमा ।
गिरिशृङ्गमिदं
तात
पश्य
चोत्तरतः
शुभम् ॥ १३ ॥
भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम् ।
दक्षिणस्यामपि
दिशि
स्थितं
श्वेतमिवापरम् ॥ १४ ॥
कैलासशिखरप्रख्यं
नानाधातुविभूषितम् ।
प्राचीनवाहिनीं
चैव
नदीं
भृशमकर्दमाम् ॥ १५ ॥
गुहायाः
पूर्वतः
पश्य
त्रिकूटे
जाह्नवीमिव ।
चम्पकैस्तिलैस्तालैस्तमालैरतिमुक्तकैः ॥ १६ ॥
पद्मकैः
सरलैश्चैव
अशोकैश्चैव
शोभिताम् ।
वानीरैस्तिमिशैश्चैव
वकुलैः
केतकैर्धवैः ॥ १७ ॥
हिन्तालैस्तिरिटैर्नीपैर्वेत्रकैः
कृतमालकैः ।
तीरजैः
शोभिता
भाति
नानारूपैस्ततस्ततः ॥ १८ ॥
वसनाभरणोपेता
प्रमदेवाभ्यलङ्कृता ।
शतशः
पक्षिसङ्घैश्च
नानानादैर्विनादिता ॥ १९ ॥
एकैकमनुरक्तैश्च
चक्रवाकैरलङ्कृता ।
पुलिनैरतिरम्यैश्च
हंससारससेवितैः ॥ २० ॥
प्रहसन्तीव
भात्यैषा
नारी
सर्वविभूषिता ।
क्वचिन्नीलोत्पलच्छन्ना
भाति
रक्तोत्पलैः
क्वचित् ॥ २१ ॥
क्वचिदाभाति
शुक्लैश्च
दिव्यैः
कुमुदकुड्मलैः ।
पारिप्लवशतैर्जुष्टा
बर्हिणक्रौञ्चनादिता ॥ २२ ॥
रमणीया
नदी
सौम्य
मुनिसङ्घैर्निषेविता ।
पश्य
चन्दनवृक्षाणां
पड्क्तीः
सुरचिता
इव ॥ २३ ॥
ककुभानां
च
दृश्यन्ते
मनसेवोदिताः
समम् ।
अहो
सुरमणीयोऽयं
देशः
शत्रुनिषूदन ॥ २४ ॥
दृढं
रंस्याव
सौमित्रे
साध्वत्र
निवसावहै ।
इतश्च
नातिदूरे
सा
किष्कन्धा
चित्रकानना ॥ २५ ॥
सुग्रीवस्य
पुरी
रम्या
भविष्यति
नृपात्मज ।
गीतवादित्रनिर्घोषः
श्रूयते
जयतां
वर ॥ २६ ॥
नर्दतां
वानराणां
च
मृदङ्गाडम्बरैः
सह ।
लब्ध्वा
भार्यां
कपिवरः
प्राप्य
राज्यं
सुहृद्वृतः ॥ २७ ॥
ध्रुवं
नन्दति
सुग्रीवः
सम्प्राप्य
महतीं
श्रियम् ।
इत्युक्त्वा
न्यवसत्तत्र
राघवः
सहलक्ष्मणः ॥ २८ ॥
बहुदृश्यदरीकुञ्जे
तस्मिन्
प्रस्रवणे
गिरौ ।
वसतस्तस्य
रामस्य
रतिरल्पापि
नाभवत् ॥ २९ ॥
हृतां
हि
भार्यां
स्मरतः
प्राणेभ्योऽपि
गरीयसीम् ।
उदयाभ्युदितं
दृष्ट्वा
शशाङ्कं
च
विशेषतः ॥ ३० ॥
आविवेश
न
तं
निद्रा
निशासु
शयनं
गतम् ।
तत्समुत्थेन
शोकेन
बाष्पोपहतचेतसम् ॥ ३१ ॥
तं
शोचमानं
काकुत्स्थं
नित्यं
शोकपरायणम् ।
तुल्यदुःखोऽब्रवीद्भ्राता
लक्ष्मणोऽनुनयन्
वचः ॥ ३२ ॥
अलं
वीर
व्यथां
गत्वा
न
त्वं
शोचितुमर्हसि ।
शोचतो
व्यवसीदन्ति
सर्वार्था
विदितं
हि
ते ॥ ३३ ॥
भवान्
क्रियापरो
लोके
भवान्
दैवपरायणः ।
आस्तिको
धर्मशीलश्च
व्यवसायी
च
राघव ॥ ३४ ॥
न
ह्यव्यवसितः
शुत्रुं
राक्षसं
तं
विशेषतः ।
समर्थस्त्वं
रणे
हन्तुं
विक्रमैर्जिह्मकारिणम् ॥ ३५ ॥
समुन्मूलय
शोकं
त्वं
व्यवसायं
स्थिरं
कुरु ।
ततः
सपरिवारं
तं
निर्मूलं
कुरु
राक्षसम् ॥ ३६ ॥
पृथिवीमपि
काकुत्स्थ
ससागरवनाचलाम् ।
परिवर्तयितुं
शक्तः
किमङ्ग
पुन
रावणम् ॥ ३७ ॥
शरत्कालं
प्रतीक्षस्व
प्रावृट्कालोऽयमागतः ।
ततः
सराष्ट्रं
सगणं
रावणं
त्वं
वधिष्यसि ॥ ३८ ॥
अहं
तु
खलु
ते
वीर्यं
प्रसुप्तं
प्रतिबोधये ।
दीप्तैराहुतिभिः
काले
भस्मच्छन्नमिवानलम् ॥ ३९ ॥
लक्ष्मणस्य
तु
तद्वाक्यं
प्रतिपूज्य
हितं
शुभम् ।
राघवः
सुहृदं
स्निग्धमिदं
वचनमब्रवीत् ॥ ४० ॥
वाच्यं
यदनुरक्तेन
स्निग्धेन
च
हितेन
च ।
सत्यविक्रमयुक्तेन
तदुक्तं
लक्ष्मण
त्वया ॥ ४१ ॥
एष
शोकः
परित्यक्तः
सर्वकार्यावसादकः ।
विक्रमेष्वप्रतिहतं
तेजः
प्रोत्साहयाम्यहम् ॥ ४२ ॥
शरत्कालं
प्रतीक्षिष्ये
स्थितोऽस्मि
वचने
तव ।
सुग्रीवस्य
नदीनां
च
प्रसादमनुपालयन् ॥ ४३ ॥
उपकारेण
वीरस्तु
प्रतिकारेण
युज्यते ।
अकृतज्ञोऽप्रतिकृतो
हन्ति
सत्त्ववतां
मनः ॥ ४४ ॥
अथैवमुक्तः
प्रणिधाय
लक्ष्मणः
कृताञ्जलिस्तत्प्रतिपूज्य
भाषितम् ।
उवाच
रामं
स्वभिरामदर्शनं
प्रदर्शयन्
दर्शनमात्मनः
शुभम् ॥ ४५ ॥
यथोक्तमेतत्तव
सर्वमीप्सितं
नरेन्द्र
कर्ता
नचिराद्धरीश्वरः ।
शरत्प्रतीक्षः
क्षमतामिमं
भवान्
जलप्रपातं
रिपुनिग्रहे
धृतः ॥ ४६ ॥
नियम्य
कोपं
प्रतिपाल्यतां
शरत्क्षमस्व
मासांश्चतुरो
मया
सह ।
वसाचलेऽस्मिन्मृगराजसेविते
संवर्धयन्
शत्रुवधे
समुद्यमम् ॥ ४७ ॥