स
तथा
वालिनं
हत्वा
सुग्रीवमभिषिच्य
च ।
वसन्माल्यवतः
पृष्ठे
रामो
लक्ष्मणमब्रवीत् ॥ १ ॥
अयं
स
कालः
सम्प्राप्तः
समयोऽद्य
जलागमः ।
सम्पश्य
त्वं
नभो
मेघैः
संवृतं
गिरिसन्निभैः ॥ २ ॥
नवमासधृतं
गर्भं
भास्करस्य
गभस्तिभिः ।
पीत्वा
रसं
समुद्राणां
द्यौः
प्रसूते
रसायनम् ॥ ३ ॥
शक्यमम्बरमारुह्य
मेघसोपानपङ्क्तिभिः ।
कुटजार्जुनमालाभिरलङ्कर्तुं
दिवाकरम् ॥ ४ ॥
सन्ध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डरैः ।
स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम् ॥ ५ ॥
मन्दमारुतनिश्वासं
सन्ध्याचन्दनरञ्जितम् ।
आपाण्डुजलदं
भाति
कामातुरमिवाम्बरम् ॥ ६ ॥
एषा
धर्मपरिक्लिष्टा
नववारिपरिप्लुता ।
सीतेव
शोकसन्तप्ता
मही
बाष्पं
विमुञ्चति ॥ ७ ॥
मेघोदरविनिर्मुक्ताः
कह्लारसुखशीतलाः ।
शक्यमञ्जलिभिः
पातुं
वाताः
केतकिगन्धिनः ॥ ८ ॥
एष
फुल्लार्जुनः
शैलः
केतकैरधिवासितः ।
सुग्रीव
इव
शान्तारिर्धाराभिरभिषिच्यते ॥ ९ ॥
मेघकृष्णाजिनधरा
धारायज्ञोपवीतिनः ।
मारुतापूरितगुहाः
प्राधीता
इव
पर्वताः ॥ १० ॥
कशाभिरिव
हैमीभिर्विद्युद्भिरिव
ताडितम् ।
अन्तः
स्तनितनिर्घोषं
सवेदनमिवाम्बरम् ॥ ११ ॥
नीलमेघाश्रिता
विद्युत्
स्फुरन्ती
प्रतिभाति
मे ।
स्फुरन्ती
रावणस्याङ्के
वैदेहीव
तपस्विनी ॥ १२ ॥
इमास्ता
मन्मथवतां
हिताः
प्रतिहता
दिशः ।
अनुलिप्ता
इव
घनैर्नष्टग्रहनिशाकराः ॥ १३ ॥
कुटजान्
पश्य
सौमित्रे
पुष्पितान्
गिरिसानुषु ।
मम
शोकाभिभूतस्य
कामसन्दीपनान्
स्थितान् ॥ १४ ॥
रजः
प्रशान्तं
सहिमोऽद्य
वायुर्निदाघदोषप्रसराः
प्रशान्ताः ।
स्थिता
हि
यात्रा
वसुधाधिपानां
प्रवासिनो
यान्ति
नराः
स्वदेशान् ॥ १५ ॥
सम्प्रस्थिता
मानसवासलुब्धाः
प्रियान्विताः
सम्प्रति
चक्रवाकाः ।
अभीक्ष्णवर्षोदकविक्षतेषु
यानानि
मार्गेषु
न
सम्पतन्ति ॥ १६ ॥
क्वचित्प्रकाशं
क्वचिदप्रकाशं
नभः
प्रकीर्णाम्बुधरं
विभाति ।
क्वचित्क्वचित्पर्वतसन्निरुद्धं
रूपं
यथा
शान्तमहार्णवस्य ॥ १७ ॥
व्यामिश्रितं
सर्जकदम्बपुष्पैर्नवं
जलं
पर्वतधातुताम्रम् ।
मयूरकेकाभिरनुप्रयातं
शैलापगाः
शीघ्रतरं
वहन्ति ॥ १८ ॥
रसाकुलं
षट्पदसन्निकाशं
प्रभुज्यते
जम्बुफलं
प्रकामम् ।
अनेकवर्णं
पवनावधूतं
भूमौ
पतत्याम्रफलं
विपक्वम् ॥ १९ ॥
विद्युत्पताकाः
सबलाकमालाः
शैलेन्द्रकूटाकृतिसन्निकाशाः ।
गर्जन्ति
मेघाः
समुदीर्णनादा
मत्ता
गजेन्द्रा
इव
संयुगस्थाः ॥ २० ॥
वर्षोदकाप्यायितशाद्वलानि
प्रवृत्तनृत्तोत्सवबर्हिणानि ।
वनानि
निर्वृष्टबलाहकानि
पश्यापराह्णेष्वधिकं
विभान्ति ॥ २१ ॥
समुद्वहन्तः
सलिलातिभारं
बलाकिनो
वारिधरा
नदन्तः ।
महत्सु
शृङ्गेषु
महीधराणां
विश्रम्य
विश्रम्य
पनः
प्रयान्ति ॥ २२ ॥
मेघाभिकामा
परिसन्पतन्ती
सम्मोदिता
भाति
बलाकपङ्क्तिः ।
वातावधूता
वरपौण्डरीकी
लम्बेव
माला
रचिताऽम्बरस्य ॥ २३ ॥
बालेन्द्रगोपान्तरचित्रितेन
विभाति
भूमिर्नवशाद्वलेन ।
गात्रानुवृत्तेन
शुकप्रभेण
नारीव
लाक्षोक्षितकम्बलेन ॥ २४ ॥
निद्रा
शनैः
केशवमभ्युपैति
द्रुतं
नदी
सागरभ्युपैति ।
हृष्टा
बलाका
घनमभ्युपैति
कान्ता
सकामा
प्रियमभ्युपैति ॥ २५ ॥
जाता
वनान्ताः
शिखिसम्प्रनृत्ता
जाताः
कदम्बाः
सकदम्बशाखाः ।
जाता
वृषा
गोषु
समानकामा
जाता
मही
सस्यवनाभिरामा ॥ २६ ॥
वहन्ति
वर्षन्ति
नदन्ति
भान्ति
ध्यायन्ति
नृत्यन्ति
समाश्वसन्ति ।
नद्यो
घना
मत्तगजा
वनान्ताः
प्रियाविहीनाः
शिखिनः
प्लवङ्गाः ॥ २७ ॥
प्रहर्षिताः
केतकपुष्पगन्धमाघ्राय
हृष्टा
वननिर्झरेषु ।
प्रपातशब्दाकुलिता
गज्रन्द्राः
सार्धं
मयूरैः
समदा
नदन्ति ॥ २८ ॥
धारानिपातैरभिहन्यमानाः
कदम्बशाखासु
विलम्बमानाः ।
क्षणार्जितं
पुष्परसावगाढं
शनैर्मदं
षट्चरणास्त्यजन्ति ॥ २९ ॥
अङ्गारचूर्णोत्करसन्निकाशैः
फलैः
सुपर्याप्तरसैः
समृद्धैः ।
जम्बूद्रुमाणां
प्रविभान्ति
शाखा
निलीयमाना
इव
षट्पदौघैः ॥ ३० ॥
तडित्पताकाभिरलङ्कृतानामुदीर्णगम्भीरमहारवाणाम् ।
विभान्ति
रूपाणि
बलाहकानां
रणोद्यतानामिव
वारणानाम् ॥ ३१ ॥
मार्गानुगः
शैलवनानुसारी
सम्प्रस्थितो
मेघरवं
निशम्य ।
युद्धाभिकामः
प्रतिनागशङ्की
मत्तो
गजेन्दः
प्रतिसन्निवृत्तः ॥ ३२ ॥
क्वचित्प्रगीता
इव
षट्पदौघैः
क्वचित्प्रनृत्ता
इव
नीलकण्ठैः ।
क्वचित्प्रमत्ता
इव
वारणेन्द्रैर्विभान्त्यनेकाश्रयिणो
वनान्ताः ॥ ३३ ॥
कदम्बसर्जार्जुनकन्दलाढ्या
वनान्तभूमिर्नववारिपूर्णा ।
मयूरमत्ताभिरुतप्रनृत्तैरापानभूमिप्रतिमा
विभाति ॥ ३४ ॥
मुक्तासकाशं
सलिलं
पतद्वै
सुनर्मलं
पत्त्रपुटेषु
लग्नम् ।
हृष्टा
विवर्णच्छदना
विहङ्गाः
सुरेन्द्रदत्तं
तृषिताः
पिबन्ति ॥ ३५ ॥
षट्पादतन्त्रीमधुराभिधानं
प्लवङ्गमोदीरितकण्ठतालम् ।
आविष्कृतं
मेघमृदङ्गनादैर्वनेषु
सङ्गीतमिव
प्रवृत्तम् ॥ ३६ ॥
क्वचित्प्रनृत्तैः
क्वचिदुन्नदद्भिः
क्वचिच्च
वृक्षाग्रनिषण्णकायैः ।
व्यालम्बबर्हाभरणैर्मयूरैर्वनेषु
सङ्गीतमिव
प्रवृत्तम् ॥ ३७ ॥
स्वनैर्घनानां
प्लवगाः
प्रबुद्धा
विहाय
निद्रां
चिरसन्निरुद्धाम् ।
अनेकरूपाकृतिवर्णनादा
नवाम्बुधाराभिहता
नदन्ति ॥ ३८ ॥
नद्यः
समुद्वाहितचक्रवाकास्तटानि
शीर्णान्यपवाहयित्वा ।
दृप्ता
नवप्राभृतपूर्णभोगा
द्रुतं
स्वभार्तारमुपोपयान्ति ॥ ३९ ॥
नीलेषु
नीलाः
प्रविभान्ति
सक्ता
मेघेषु
मेघा
नववारिपूर्णाः ।
दवाग्निदग्धेषु
दवाग्निदग्धाः
शैलेषु
शैला
इव
बद्धमूलाः ॥ ४० ॥
प्रहृष्टसन्नादितबर्हिणानि
सशक्रगोपाकुलशाद्वलानि ।
चरन्ति
नीपार्जुनवासितानि
गजाः
सुरम्याणि
वनान्तराणि ॥ ४१ ॥
नवाम्बुधाराहतकेसराणि
द्रुतं
परित्यज्य
सरोरुहाणि ।
कदम्बपुषाणि
सकेसराणि
नवानि
हृष्टा
भ्रमराः
पतन्ति ॥ ४२ ॥
मत्ता
गजेन्द्रा
मुदिता
गजेन्द्रा
वनेषु
विश्रान्ततरा
मृगेन्द्राः ।
रम्या
नगेन्द्रा
निभृता
नरेन्द्राः
प्रक्रीडितो
वारिधरैः
सुरेन्द्रः ॥ ४३ ॥
मेघाः
समुद्भूतसमुद्रनादा
महाजलोघैर्गगनावलम्बाः ।
नदीस्तटाकानि
सरांसि
वापीर्महीं
च
कृत्स्नामपवाहयन्ति ॥ ४४ ॥
वर्षप्रवेगा
विपुलाः
पतन्ती
प्रवान्ति
वाताः
समुदीर्णघोषाः ।
प्रनष्टकूलाः
प्रवहन्ति
शीघ्रं
नद्यो
जलैर्विप्रतिपन्नमार्गाः ॥ ४५ ॥
नरैर्नरन्द्रा
इव
पर्वतेन्द्राः
सुरेन्द्रदत्तैः
पवनोपनीतैः ।
घनाम्बुकुम्भैरभिषिच्यमाना
रूपं
श्रियं
स्वामिव
दर्शयन्ति ॥ ४६ ॥
घनोपगूढं
गगनं
सतारं
न
भास्करो
दर्शनमभ्युपैति ।
नवैर्जलौघैर्धरणी
विसृप्ता
तमोविलिप्ता
न
दिशः
प्रकाशाः ॥ ४७ ॥
महान्ति
कूटानि
महीधराणां
धाराभिधौतान्यधिकं
विभान्ति ।
महाप्रमाणैर्विपुलैः
प्रपातैर्मुक्ताकलापैरिव
लम्बमानैः ॥ ४८ ॥
शैलोपलप्रस्खलमानवेगाः
शैलोत्तमानां
विपुलाः
प्रपाताः ।
गुहासु
सन्नादितबर्हिणासु
हारा
विकीर्यन्त
इवाभिभान्ति ॥ ४९ ॥
शीघ्रप्रवेगा
विपुलाः
प्रपाता
निर्धौतशृङ्गोपतला
गिरीणाम् ।
मुक्ताकलापप्रतिमाः
पतन्तो
महागुहोत्सङ्गतलैर्ध्रियन्ते ॥ ५० ॥
सुरतामर्दविच्छिन्नाः
स्वर्गस्त्रीहारमौक्तिकाः ।
पतन्तीवाकुला
दिक्षु
तोयधराः
समन्ततः ॥ ५१ ॥
निलीयमानैर्विहगैर्निमीलद्भिश्च
पङ्कजैः ।
विकसन्त्या
च
मालत्या
गतोऽस्तं
ज्ञायते
रविः ॥ ५२ ॥
वृत्ता
यात्रा
नरेन्द्राणां
सेना
प्रतिनिवर्तते ।
वैराणि
चैव
मार्गाश्च
सलिलेन
समीकृताः ॥ ५३ ॥
मासि
प्रोष्ठपदे
ब्रह्म
ब्रणानां
विवक्षताम् ।
अयमध्यायसमयः
सामगानामुपस्थितः ॥ ५४ ॥
निवृत्तकर्मायतनो
नूनं
सञ्चितसञ्चयः ।
आषाढीमभ्युपगतो
भरतः
कोसलाधिपः ॥ ५५ ॥
नूनमापूर्यमाणायाः
सरय्वा
वर्धते
रयः ।
मां
समीक्ष्य
समायान्तमयोध्याया
इव
स्वनः ॥ ५६ ॥
इमाः
स्फीतगुणा
वर्षाः
सुग्रीवः
सुखमश्नुते ।
विजितारिः
सदारश्च
राज्ये
महति
च
स्थितः ॥ ५७ ॥
अहं
तु
हृतदारश्च
राज्याच्च
महतश्च्युतः ।
नदीकूलमिव
क्लिन्नमवसीदामि
लक्ष्मण ॥ ५८ ॥
शोकश्च
मम
विस्तीर्णो
वर्षाश्च
भृशदुर्गमाः ।
रावणश्च
महान्
शत्रुरपारं
प्रतिभाति
मे ॥ ५९ ॥
अयात्रां
चैव
दृष्ट्वेमां
मार्गांश्च
भृशदुर्गमान् ।
प्रणते
चैव
सुग्रीवे
न
मया
किञ्चिदीरितम् ॥ ६० ॥
अपि
चातिपरिक्लिष्टं
चिराद्दारैः
समागतम् ।
आत्मकार्यगरीयस्त्वाद्वक्तुं
नेच्छामि
वानरम् ॥ ६१ ॥
स्वयमेव
हि
विश्रम्य
ज्ञात्वा
कालमुपागतम् ।
उपकारं
च
सुग्रीवो
वेत्स्यते
नात्र
संशयः ॥ ६२ ॥
तस्मात्कालप्रतीक्षोऽहं
स्थितोऽस्मि
शुभलक्षण ।
सुग्रीवस्य
नदीनां
च
प्रसादमनुपालयन् ॥ ६३ ॥
उपकारेण
वीरो
हि
प्रतिकारेण
युज्यते ।
अकृतज्ञोऽप्रतिकृतो
हन्ति
सत्त्ववतां
मनः ॥ ६४ ॥
तमेवमुक्तः
प्रणिधाय
लक्ष्मणः
कृताञ्जलिस्तत्प्रतिपूज्य
भाषितम् ।
उवाच
रामं
स्वभिरामदर्शनं
प्रदर्शयन्
दर्शनमात्मनः
शुभम् ॥ ६५ ॥
यथोक्तमेतत्तव
सर्वमीप्सितं
नरेन्द्र
कर्ता
नचिराद्धरीश्वरः ।
शरत्प्रतीक्षः
क्षमतामिमं
भवान्
जलप्रपातं
रिपुनिग्रहे
धृतः ॥ ६६ ॥