गुहां
प्रविष्टे
सुग्रीवे
विमुक्ते
गगने
घनैः ।
वर्षरात्रोषितो
रामः
कामशोकाभिपीडितः ॥ १ ॥
पाण्डरं
गगनं
दृष्ट्वा
विमलं
चन्द्रमण्डलम् ।
शारदीं
रजनीं
चैव
दृष्ट्वा
ज्योत्स्नानुलेपनाम् ॥ २ ॥
कामवृत्तं
च
सुग्रीवं
नष्टां
च
जनकात्मजाम् ।
बुद्ध्वा
कालमतीतं
च
मुमोह
परमातुरः ॥ ३ ॥
स
तु
सञ्ज्ञामुपागम्य
मुहूर्तान्मतिमान्
पुनः ।
मनस्स्थामपि
वैदेहीं
चिन्तयामास
राघवः ॥ ४ ॥
आसीनः
पर्वतस्याग्रे
हेमधातुविभूषिते ।
शारदं
गगनं
दृष्ट्वा
जगाम
मनसा
प्रियाम् ॥ ५ ॥
दृष्ट्वा
च
विमलं
व्योम
गतविद्युद्बलाहकम् ।
सारसारवसङ्घुष्टं
विललापार्तया
गिरा ॥ ६ ॥
सारसारवसन्नादैः
सारसारवनादिनी ।
याऽऽश्रमे
रमते
बाला
साऽद्य
मे
रमते
कथम् ॥ ७ ॥
पुष्पितांश्चासनान्
दृष्ट्वा
काञ्चनानिव
निर्मलान् ।
कथं
सा
रमते
बाला
पश्यन्ती
मामपश्यती ॥ ८ ॥
या
पुरा
कलहंसानां
स्वरेण
कलभाषिणी ।
बुध्यते
चारुसर्वाङ्गी
साऽद्य
मे
बुध्यते
कथम् ॥ ९ ॥
निःस्वनं
चक्रवाकानां
निशम्य
सहचारिणाम् ।
पुण्डरीकविशालाक्षी
कथमेषा
भविष्यति ॥ १० ॥
सरांसि
सरितो
वापीः
काननानि
वनानि
च ।
तां
विना
मृगशावाक्षीं
चरन्नाद्य
सुखं
लभे ॥ ११ ॥
अपि
तां
मद्वियोगाच्च
सौकुमार्याच्च
भामिनीम् ।
न
दूरं
पीडयेत्कामः
शरद्गुणनिरन्तरः ॥ १२ ॥
एवमादि
नरश्रेष्ठो
विललाप
नृपात्मजः ।
विहङ्ग
इव
सारङ्गः
सलिलं
त्रिदशेश्वरात् ॥ १३ ॥
ततश्चञ्चूर्यरम्येषु
फलार्थी
गिरिसानुषु ।
ददर्श
पर्युपावृत्तो
लक्ष्मीवाँल्लक्ष्मणोऽग्रजम् ॥ १४ ॥
तं
चिन्तया
दुस्सहया
परीतं
विसञ्ज्ञमेकं
विजने
मनस्वी ।
भ्रातुर्विषादात्परितापदीनः
समीक्ष्य
सौमित्रिरुवाच
रामम् ॥ १५ ॥
किमार्य
कामस्य
वशङ्गतेन
किमात्मपौरुष्यपराभवेन ।
अयं
सदा
संह्रियते
समाधिः
किमत्र
योगेन
निवर्तितेन ॥ १६ ॥
क्रियाभियोगं
मनसः
प्रसादं
समाधियोगानुगतं
च
कालम् ।
सहायसामर्थ्यमदीनसत्त्वः
स्वकर्महेतुं
च
कुरुष्व
हेतुम् ॥ १७ ॥
न
जानकी
मानववंशनाथ
त्वया
सनाथा
सुलभा
परेण ।
न
चाग्निचूडां
ज्वलितामुपेत्य
न
दह्यते
वीरवरार्ह
कच्चित् ॥ १८ ॥
सलक्षणं
लक्ष्मणमप्रधृष्यं
स्वभावजं
वाक्यमुवाच
रामः ।
हितं
च
पथ्यं
च
नयप्रसक्तं
ससामधर्मार्थसमाहितं
च ॥ १९ ॥
निःसंशयं
कार्यमवेक्षितव्यं
क्रियाविशेषो
ह्यनुवर्तितव्यः ।
ननु
प्रवृत्तस्य
दुरासदस्य
कुमार
कार्यस्य
फलं
न
चिन्त्यम् ॥ २० ॥
अथ
पद्मपलाशाक्षीं
मैथीलीमनुचिन्तयन् ।
उवाच
लक्ष्मणं
रामो
मुखेन
परिशुष्यता ॥ २१ ॥
तर्पयित्वा
सहस्राक्षः
सलिलेन
वसुन्धराम् ।
निर्वर्तयित्वा
सस्यानि
कृतकर्मा
व्यवस्थितः ॥ २२ ॥
स्निग्धगम्भीरनिर्घोषाः
शैलद्रुमपुरोगमाः ।
विसृज्य
सलिलं
मेघाः
परिश्रान्ता
नृपात्मज ॥ २३ ॥
नीलोत्पलदलश्यामाः
श्यामी
कृत्वा
दिशो
दश ।
विमदा
इव
मातङ्गाः
शान्तवेगाः
पयोधराः ॥ २४ ॥
जलगर्भा
महावेगाः
कुटजार्जुनगन्धिनः ।
चरित्वा
विरताः
सौम्य
वृष्टिवाताः
समुद्यताः ॥ २५ ॥
घनानां
वारणानां
च
मयूराणां
च
लक्ष्मण ।
नादः
प्रस्रवणानां
च
प्रशान्तः
सहसाऽनघ ॥ २६ ॥
अभिवृष्टा
महामेघैर्निर्मलाश्चित्रसानवः ।
अनुलिप्ता
इवाभान्ति
गिरयश्चित्रदीप्तिभिः ॥ २७ ॥
दर्शयन्ति
शरन्नद्यः
पुलिनानि
शनैःशनैः ।
नवसङ्गमसव्रीडा
जघनानीव
योषितः ॥ २८ ॥
शाखासु
सप्तच्छदपादपानां
प्रभासु
तारार्कनिशाकराणाम् ।
लीलासु
चैवोत्तमवारणानां
श्रियं
विभज्याद्य
शरत्प्रवृत्ता ॥ २९ ॥
सम्प्रत्यनेकाश्रयचित्रशोभा
लक्ष्मीः
शरत्कालगुणोपनीता ।
सूर्याग्रहस्तप्रतिबोधितेषु
पद्माकरेष्वभ्यधिकं
विभाति ॥ ३० ॥
सप्तच्छदानां
कुसुमोपगन्धी
षट्पादवृन्दैरनुगीयमानः ।
मत्तद्विपानां
पवनोऽनुसारी
दर्पं
वनेष्वभ्यदिकं
करोति ॥ ३१ ॥
अभ्यागतैश्चारुविशालपक्षैः
सरः
प्रियैः
पद्मरजोवकीर्णैः ।
महानदीनां
पुलिनोपयातैः
क्रीडन्ति
हंसाः
सह
चक्रवाकैः ॥ ३२ ॥
मदप्रगर्भेषु
च
वारणेषु
गवां
समूहेषु
च
दर्पितेषु ।
प्रसन्नतोयासु
च
निम्नगासु
विभाति
लक्ष्मीर्बहुधा
विभक्ता ॥ ३३ ॥
नभः
समीक्ष्याम्बुधरैर्विमुक्तं
विमुक्तबर्हाभरणा
वनेषु ।
प्रियास्वसक्ता
विनिवृत्तशोभा
गतोत्सवा
ध्यानपरा
मयूराः ॥ ३४ ॥
मनोज्ञगन्धैः
प्रियकैरनल्पैः
पुष्पातिभारावनताग्रशाखैः ।
सुवर्णगौरैर्नयनाभिरामैरुद्द्योतितानीव
वनान्तराणि ॥ ३५ ॥
प्रियान्वितानां
नलिनीप्रियाणां
वने
रतानां
कुसुमोद्धतानाम् ।
मदोत्कटानां
मदलालसानां
गजोत्तमानां
गतयोऽद्य
मन्दाः ॥ ३६ ॥
व्यभ्रं
नभः
शस्त्रविधौतवर्णं
कृशप्रवाहानि
नदीजलानि ।
कह्लारशीताः
पवनाः
प्रवान्ति
तमोविमुक्ताश्च
दिशः
प्रकाशाः ॥ ३७ ॥
सूर्यातपक्रामणनष्टपङ्का
भूमिश्चिरोद्घाटितसान्द्ररेणुः ।
अन्योन्यवैरामर्षायुतानामुद्योगकालोऽद्य
नराधिपानाम् ॥ ३८ ॥
शरद्गुणाप्यायितरूपशोभाः
प्रहर्षिताः
पांसुसमुक्षिताङ्गाः ।
मदोत्कटाः
सम्प्रति
युद्धलुब्धा
वृषा
गवां
मध्यगता
नदन्ति ॥ ३९ ॥
समन्मथं
तीव्रगतानुरागाः
कुलान्विता
मन्दगतिं
करिण्यः ।
मदान्वितं
सम्परिवार्य
यान्तं
वनेषु
भर्तारमनुप्रयान्ति ॥ ४० ॥
त्यक्त्वा
वराण्यात्मविभूषणानि
बर्हाणि
तीरोपगता
नदीनाम् ।
निर्भर्त्स्यमाना
इव
सारसौघैः
प्रयान्ति
दीना
विमदा
मयूराः ॥ ४१ ॥
वित्रास्य
कारण्डवचक्रवाकान्
महारवैर्भिन्नकटा
गजेन्द्राः ।
सरस्सु
बद्धाम्बुजभूषणेषु
विक्षोभ्य
विक्षोभ्य
जलं
पिबन्ति ॥ ४२ ॥
व्यपेतपङ्कासु
सवालुकासु
प्रसन्नतोयासु
सगोकुलासु ।
ससारसा
रावविनादितासु
नदीषु
हृष्टा
निपनन्ति
हंसाः ॥ ४३ ॥
नदीघनप्रस्रवणोदकानामतिप्रवृद्धानिलबर्हिणानाम् ।
प्लवङ्गमानां
च
गतोत्सवानां
द्रुतं
रवाः
सम्प्रति
सम्प्रनष्टाः ॥ ४४ ॥
अनेकवर्णाः
सुविनष्टकाया
नवोदितेष्वम्बुधरेषु
नष्टाः ।
क्षुधार्दिता
घोरविषा
बिलेभ्यश्चिरोषिता
विप्रसरन्ति
सर्पाः ॥ ४५ ॥
चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका ।
अहो
रागवती
सन्ध्या
जहाति
स्वयमम्बरम् ॥ ४६ ॥
रात्रिः
शशाङ्कोदितसौम्यवक्त्रा
तारागणोन्मीलितचारुनेत्रा ।
ज्योत्स्नांशुकप्रावरणा
विभाति
नारीव
शुक्लांशुकसंवृताङ्गी ॥ ४७ ॥
विपक्वशालिप्रसवानि
भुक्त्वा
प्रहर्षिता
सारसचारुपङ्क्तिः ।
नभः
समाक्रामति
शीघ्रवेगा
वातावधूता
ग्रथितेव
माला ॥ ४८ ॥
सुप्तैकहंसं
कुसुमैरुपेतं
महाह्रदस्थं
सलिलं
विभाति ।
घनैर्विमुक्तं
निशि
पूर्णचन्द्रं
तारा
गणाकीर्णमिवान्तरिक्षम् ॥ ४९ ॥
प्रकीर्णहंसाकुलमेखलानां
प्रबुद्धपद्मोत्पलमालिनीनाम् ।
वाप्युत्तमानामधिकाऽद्य
लक्ष्मीर्वराङ्गनानामिव
भूषितानाम् ॥ ५० ॥
वेणुस्वनव्यञ्जिततूर्यमिश्रः
प्रत्यूषकालानिलसम्प्रवृद्धः ।
सम्मूर्च्छितो
गर्गरगोवृषाणामन्योन्यमापूरयतीव
शब्दः ॥ ५१ ॥
नवैर्नदीनां
कुसुमप्रभासैर्व्याधूयमानैर्मृदुमारुतेन ।
धौतामलक्षौमपटप्रकाशैः
कूलानि
काशैरुपशोभितानि ॥ ५२ ॥
वनप्रचण्डा
मधुपानशौण्डाः
प्रियान्विताः
षट्चरणाः
प्रहृष्टाः ।
वनेषु
मत्ताः
पवनानुयात्रां
कुर्वन्ति
पद्मासनरेणुगौराः ॥ ५३ ॥
जलं
प्रसन्नं
कुमुदं
प्रभासं
क्रौञ्चस्वनः
शालिवनं
विपक्वम् ।
मदुश्च
वायुर्विमलश्च
चन्द्रः
शंसन्ति
वर्षव्यपनीतकालम् ॥ ५४ ॥
मीनोपसन्दर्शितमेखलानां
नदीवधूनां
गतयोऽद्य
मन्दाः ।
कान्तोपभुक्तालसगामिनीनां
प्रभातकालेष्विव
कामिनीनाम् ॥ ५५ ॥
सचक्रवाकानि
सशैवलानि
काशैर्दुकूलैरिव
संवृतानि ।
सपत्त्रलेखानि
सरोचनानि
वधूमुखानीव
नदीमुखानि ॥ ५६ ॥
प्रफुल्लबाणासनचित्रितेषु
प्रहृष्टषट्पादनिकूजितेषु ।
गृहीतचापोद्यतचण्डदण्डः
प्रचण़्डचारोऽद्य
वनेषु
कामः ॥ ५७ ॥
लोकं
सुवृष्ट्या
परितोषयित्वा
नदीस्तटाकानि
च
पूरयित्वा ।
निष्पन्नसस्यां
वसुधां
च
कृत्वा
त्यक्त्वा
नभस्तोयधराः
प्रनष्टाः ॥ ५८ ॥
प्रसन्नसलिलाः
सौम्य
कुररीभिर्विनादिताः ।
चक्रवाकगणाकीर्णा
विभान्ति
सलिलाशयाः ॥ ५९ ॥
असनाः
सप्तवर्णाश्च
कोविदाराश्च
पुष्पिताः ।
दृश्यन्ते
बन्धुजीवाश्च
श्यामाश्च
गिरिसानुषु ॥ ६० ॥
हंससारसचक्राह्वैः
कुररैश्च
समन्ततः ।
पुलिनान्यवकीर्णानि
नदीनां
पश्य
लक्ष्मण ॥ ६१ ॥
अन्योन्यबद्धवैराणां
जिगीषूणां
नृपात्मज ।
उद्योगसमयः
सौम्य
पार्थिवानामुपस्थितः ॥ ६२ ॥
इयं
सा
प्रथमा
यात्रा
पार्थिवानां
नृपात्मज ।
न
च
पश्यामि
सुग्रीवमुद्योगं
वा
तथाविधम् ॥ ६३ ॥
चत्वारो
वार्षिका
मासा
गता
वर्षशतोपमाः ।
मम
शोकाभिभूतस्य
सौम्य
सीतामपश्यतः ॥ ६४ ॥
चक्रवाकीव
भर्तारं
पृष्ठतोऽनुगता
वनम् ।
विषमं
दण्डकारण्यमुद्यानमिव
याऽऽगता ॥ ६५ ॥
प्रियाविहीने
दुःखार्ते
हृतराज्ये
विवासिते ।
कृपां
न
कुरुते
राजा
सुग्रीवो
मयि
लक्ष्मण ॥ ६६ ॥
अनाथो
हृतराज्योऽयं
रावणेन
च
धर्षितः ।
दीनो
दूरगृहः
कामी
मां
चैव
शरणं
गतः ॥ ६७ ॥
इत्येतैः
कारणैः
सौम्य
सुग्रीवस्य
दुरात्मनः ।
अहं
वानरराजस्य
परिभूतः
परन्तप ॥ ६८ ॥
स
कालं
परिसङ्ख्याय
सीतायाः
परिमार्गणे ।
कृतार्थः
समयं
कृत्वा
दुर्मतिर्नावबुद्ध्यते ॥ ६९ ॥
त्वं
प्रविश्य
च
किष्किन्धां
ब्रूहि
वानरपुङ्गवम् ।
मूर्खं
ग्राम्यसुखे
सक्तं
सुग्रीवं
वचनान्मम ॥ ७० ॥
अर्थिनामुपपन्नानां
पूर्वं
चाप्युपकारिणाम् ।
आशां
संश्रुत्य
यो
हन्ति
स
लोके
पुरुषाधमः ॥ ७१ ॥
शुभं
वा
यदि
वा
पापं
यो
हि
वाक्यमुदीरितम् ।
सत्येन
परिगृह्णाति
स
वीरः
पुरुषोत्तमः ॥ ७२ ॥
कृतार्था
ह्यकृतार्थानां
मित्राणां
न
भवन्ति
ये ।
तान्
मृतानपि
क्रव्यादाः
कृतघ्नान्नोपभुञ्जते ॥ ७३ ॥
नूनं
काञ्चनपृष्ठस्य
विकृष्टस्य
मया
रणे ।
द्रष्टुमिच्छति
चापस्य
रूपं
विद्युद्गणोपमम् ॥ ७४ ॥
घोरं
ज्यातलनिर्घोषं
क्रुद्धस्य
मम
संयुगे ।
निर्घोषमिव
वज्रस्य
पुनः
संश्रोतुमिच्छति ॥ ७५ ॥
काममेवं
गतेप्यस्य
परिज्ञाते
पराक्रमे ।
त्वत्सहायस्य
मे
वीर
न
चिन्ता
स्यान्नृपात्मज ॥ ७६ ॥
यदर्थमयमारम्भः
कृतः
परपुरञ्जय ।
समयं
नाभिजानाति
कृतार्थः
प्लवगेश्वरः ॥ ७७ ॥
वर्षासमयकालं
तु
प्रतिज्ञाय
हरीश्वरः ।
व्यतीतांश्चतुरो
मासान्
विहरन्नावबुध्यते ॥ ७८ ॥
सामात्यपरिषत्
क्रीडन्
पानमेवोपसेवते ।
शोकदीनेषु
नास्मासु
सुग्रीवः
कुरुते
दयाम् ॥ ७९ ॥
उच्यतां
गच्छ
सुग्रीवस्त्वया
वत्स
महाबल ।
मम
रोषस्य
यद्रूपं
ब्रूयाश्चैनमिदं
वचः ॥ ८० ॥
न
च
सङ्कुचितः
पन्था
येन
वाली
हतो
गतः ।
समये
तिष्ठ
सुग्रीव
मा
वालिपथमन्वगाः ॥ ८१ ॥
एक
एव
रणे
वाली
शरेण
निहतो
मया ।
त्वां
तु
सत्यादतिक्रान्तं
हनिष्यामि
सबान्धवम् ॥ ८२ ॥
तदेवं
विहिते
कार्ये
यद्धितं
पुरुषर्षभ ।
तत्तद्
ब्रूहि
नरश्रेष्ठ
त्वर
कालव्यतिक्रमः ॥ ८३ ॥
कुरुष्व
सत्यं
मयि
वानरेश्वर
प्रतिश्रुतं
धर्ममवेक्ष्य
शाश्वतम् ।
मा
वालिनं
प्रेत्य
गतो
यमक्षयं
त्वमद्य
पश्येर्मम
चोदितैः
शरैः ॥ ८४ ॥
स
पूर्वजं
तीव्रविवृद्धकोपं
लालप्यमानं
प्रसमीक्ष्य
दीनम् ।
चकार
तीव्रं
मतिमुग्रतेजा
हरीश्वरे
मानववंशनाथः ॥ ८५ ॥