स
कामिनं
दीनमदीनसत्त्वं
शोकाभिपन्नं
समुदीर्णकोपम् ।
नरेन्द्रसूनुर्नरदेवपुत्रं
रामानुजः
पूर्वजमित्युवाच ॥ १ ॥
न
वानरः
स्थास्यति
साधुवृत्ते
न
मंस्यते
कर्मफलानुषङ्गान् ।
न
भोक्ष्यते
वानरराज्यलक्ष्मीं
तथाहि
नाभिक्रमतेऽस्य
बुद्धिः ॥ २ ॥
मतिक्षयाद्ग्राम्यसुखेषु
सक्तस्तव
प्रसादाप्रतिकारबुद्धिः ।
हतोऽग्रजं
पश्यतु
वीर
तस्य
न
राज्यमेवं
विगुणस्य
देयम् ॥ ३ ॥
न
धारये
कोपमुदीर्णवेगं
निहन्मि
सुग्रीवमसत्यमद्य ।
हरिप्रवीरैः
सह
वालिपुत्रो
नरेन्द्रपत्न्या
विचयं
करोतु ॥ ४ ॥
तमात्तबाणासनमुत्पतन्तं
निवेदितार्थं
रणचण्डकोपम् ।
उवाच
रामः
परवीरहन्ता
स्ववेक्षितं
सानुनयं
च
वाक्यम् ॥ ५ ॥
न
हि
वै
त्वद्विधो
लोके
पापमेवं
समाचरेत् ।
पापमार्येण
यो
हन्ति
स
वीरः
पुरुषोत्तमः ॥ ६ ॥
नेदमद्य
त्वया
ग्राह्यं
साधुवृत्तेन
लक्ष्मण ।
तां
प्रीतिमनुवर्तस्व
पूर्ववृत्तं
च
सङ्गतम् ॥ ७ ॥
सामोपहितया
वाचा
रूक्षाणि
परिवर्जयन् ।
वक्तुमर्हसि
सुग्रीवं
व्यतीतं
कालपर्यये ॥ ८ ॥
सोऽग्रजेनानुशिष्टार्थो
यथावत्पुरुषर्षभः ।
प्रविवेष
पुरीं
वीरो
लक्ष्मणः
परवीरहा ॥ ९ ॥
ततः
शुभमतिः
प्राज्ञो
भ्रातुः
प्रियहिते
रतः ।
लक्ष्मणः
प्रतिसंरब्धो
जगाम
भवनं
कपेः ॥ १० ॥
शक्रबाणासनप्रख्यं
धनुः
कालान्तकोपमः ।
प्रगृह्य
गिरिशृङ्गाभं
मन्दरः
सानुमानिव ॥ ११ ॥
यथोक्तकारी
वचनमुत्तरं
चैव
सोत्तरम् ।
बृहस्पतिसमो
बुद्ध्या
मत्वा
रामानुजस्तथा ॥ १२ ॥
कामक्रोधसमुत्थेन
भ्रातुः
कोपाग्निना
वृतः ।
प्रभञ्जन
इवाप्रीतः
प्रययौ
लक्ष्मणस्तदा ॥ १३ ॥
सालतालाश्वकर्णाश्च
तरसा
पातयन्
बहून् ।
पर्यस्यन्
गिरिकूटानि
द्रुमानन्यांश्च
वेगतः ॥ १४ ॥
शिलाश्च
शकलीकुर्वन्
पद्भ्यां
गज
इवाशुगः ।
दूरमेकपदं
त्यक्त्वा
ययौ
कार्यवशाद्
द्रुतम् ॥ १५ ॥
तामपश्यद्वलाकीर्णां
हरि
राजमहापुरीम् ।
दुर्गामिक्ष्वाकुशार्दूलः
किष्किन्धां
गिरिसङ्कटे ॥ १६ ॥
रोषात्
प्रस्फुरमाणोष्ठः
सुग्रीवं
प्रति
लक्ष्मणः ।
ददर्श
वानरान्
भीमान्
किष्किन्धाया
बहिश्चरान् ॥ १७ ॥
शैलशृङ्गाणि
शतशः
प्रवृद्धांश्च
महीरुहान् ।
जगृहुः
कुञ्जरप्रख्या
वानराः
पर्वतान्तरे ॥ १८ ॥
तान्
गृहीतप्रहरणान्
हरीन्
दृष्ट्वा
तु
लक्ष्मणः ।
वभूव
द्विगुणं
क्रुद्धो
बह्विन्धन
इवानलः ॥ १९ ॥
तं
ते
भयपरिताङ्गाः
क्रुद्धं
दृष्ट्वा
प्लवङ्गमाः ।
कालमृत्युयुगान्ताभं
शतशो
विद्रुता
दिशः ॥ २० ॥
ततः
सुग्रीवभवनं
प्रविश्य
हरिपुङ्गवाः ।
क्रोधमागमनं
चैव
लक्ष्मणस्य
न्यवेदयन् ॥ २१ ॥
तारया
सहितः
कामी
सक्तः
कपिवृषो
रहः ।
न
तेषां
कपिवीराणां
शुश्राव
वचनं
तदा ॥ २२ ॥
ततः
सचिवसन्दिष्टा
हरयो
रोमहर्षणाः ।
गिरिकुञ्जरमेघाभा
नगर्या
निर्ययुस्तदा ॥ २३ ॥
नखदंष्ट्रायुधा
घोराः
सर्वे
विकृतदर्शनाः ।
सर्वे
शार्दूलदर्पाश्च
सर्वे
च
विकृताननाः ॥ २४ ॥
दशनागबलाः
केचित्केचिद्दशगुणोत्तराः ।
केचिन्नागसहस्रस्य
बभूवुस्तुल्याविक्रमाः ॥ २५ ॥
कृत्स्नां
हि
कपिभिर्व्याप्तां
द्रुमहस्तैर्महाबलैः ।
अपश्यल्लक्ष्मणः
क्रुद्धः
किष्कन्धां
तां
दुरसदाम् ॥ २६ ॥
ततस्ते
हरयः
सर्वे
प्राकारपरिघान्तरात् ।
निष्क्रम्योदग्रसत्त्वास्तु
तस्थुराविष्कृतं
तदा ॥ २७ ॥
सुग्रीवस्य
प्रमादं
च
पूर्वजं
चार्तमात्मवान् ।
बुद्ध्वा
कोपवशं
वीरः
पुनरेव
जगाम
सः ॥ २८ ॥
स
दीर्घोष्णमहोच्छ्वासः
कोपसंरक्तलोचनः ।
बभूव
नरशार्दूलः
सधूम
इव
पावकः ॥ २९ ॥
बाणशल्यस्फुरज्जिह्वः
सायकासनभोगवान् ।
स्वतेजोविषसङ्घातः
पञ्चास्य
इव
पन्नगः ॥ ३० ॥
तं
दीप्तमिव
कालाग्निं
नागेन्द्रमिव
कोपितम् ।
समासाद्याङ्गदस्त्रासाद्विषादमगमद्
भृशम् ॥ ३१ ॥
सोऽङ्दं
रोषताम्राक्षः
सन्दिदेश
महायशाः ।
सुग्रीवः
कथ्यतां
वत्स
ममागमनमित्युत ॥ ३२ ॥
एष
रामानुजः
प्राप्तस्त्वत्सकाशमरिन्दमः ।
भ्रातुर्व्यसनसन्तप्तो
द्वारि
तिष्ठति
लक्ष्मणः ॥ ३३ ॥
तस्य
वाक्ये
यदि
रुचिः
क्रियतां
साधु
वानर ।
इत्युक्त्वा
शीघ्रमागच्छ
वत्स
वाक्यमरिन्दम ॥ ३४ ॥
लक्ष्मणस्य
वचः
श्रुत्वा
शोकाविष्टोऽङ्गदोऽब्रवीत् ।
पितुः
समीपमागम्य
सौमित्रिरयमागतः ॥ ३५ ॥
अथाङ्गदस्तस्य
वचो
निशम्य
सम्भ्रान्तभावः
परिदीनवक्त्रः ।
निपत्य
तूर्णं
नृपतेस्तरस्वी
ततः
कुमारश्चरणौ
ववन्दे ॥ ३६ ॥
सङ्गृह्य
पादौ
पितुरग्र्यतेजा
जग्राह
मातुः
पुनरेव
पादौ ।
पादौ
रुमायाश्च
निपीडयित्वा
निवेदयामास
ततस्तमर्थम् ॥ ३७ ॥
स
निद्रामदसंवीतो
वानरो
न
विबुद्धवान् ।
बभूव
मदमत्तश्च
मदनेन
च
मोहितः ॥ ३८ ॥
ततः
किलकिलां
चक्रुर्लक्ष्मणं
प्रेक्ष्य
वानराः ।
प्रसादयन्तस्तं
क्रुद्धं
भयमोहितचेतसः ॥ ३९ ॥
ते
महौघनिभं
दृष्ट्वा
वज्राशनिसमस्वनम् ।
सिंहनादं
समं
चक्रुर्लक्ष्मणस्य
समीपतः ॥ ४० ॥
तेन
शब्देन
महता
प्रत्यबुध्यत
वानरः ।
मदविह्वलताम्राक्षो
व्याकुलस्रग्विभूषणः ॥ ४१ ॥
अथाङ्गदवचः
श्रुत्वा
तेनैव
च
समागतौ ।
मन्त्रिणौ
वानरेन्द्रस्य
सम्मतौ
दारदर्शिनौ ॥ ४२ ॥
प्लक्षश्चैव
प्रभावश्च
मन्त्रिणावर्थधर्मयोः ।
वक्तुमुञ्चावचं
प्राप्तं
लक्ष्मणं
तौ
शशंसतुः ॥ ४३ ॥
प्रसादयित्वा
सुग्रीवं
वचनैः
सामनिश्चितैः ।
आसीनं
पर्युपासीनौ
यथा
शक्रं
मरुत्पतिम् ॥ ४४ ॥
सत्यसन्धौ
महाभागौ
भ्रातरौ
रामलक्ष्मणौ ।
वयस्यभावं
सम्प्राप्तौ
राज्यार्हौ
राज्यदायिनौ ॥ ४५ ॥
तयोरेको
धनुष्पाणिर्द्वारि
तिष्ठति
लक्ष्मणः ।
यस्य
भीताः
प्रवेपन्तो
नादान्
मुञ्चन्ति
वानराः ॥ ४६ ॥
स
एष
राघवभ्राता
लक्ष्मणो
वाक्यसारथिः ।
व्यवसायरथः
प्राप्तस्तस्य
रामस्य
शासनात् ॥ ४७ ॥
अयं
च
दयितो
राजन्
तारायास्तनयोऽङ्गदः ।
लक्ष्मणेन
सकाशं
ते
प्रेषितस्त्वरयाऽनघ ॥ ४८ ॥
सोऽयं
रोषपरीताक्षो
द्वारि
तिष्ठति
वीर्यवान् ।
वानरान्वानरपते
चक्षुषा
निर्दहन्निव ॥ ४९ ॥
तस्य
मूर्ध्ना
प्रणम्य
त्वं
सपुत्रः
सह
बन्धुभिः ।
गच्छ
शीघ्रं
महाराज
रोषो
ह्यस्य
निवर्त्यताम् ॥ ५० ॥
यदाह
रामो
धर्मात्मा
तत्कुरुष्व
समाहितः ।
राजंस्तिष्ठ
स्वसमये
भव
सत्यप्रतिश्रवः ॥ ५१ ॥