अथ
प्रतिसमादिष्टो
लक्ष्मणः
परवीरहा ।
प्रविवेष
गुहां
घोरां
किष्किन्धां
रामशासनात् ॥ १ ॥
द्वारस्था
हरयस्तत्र
महाकाया
महाबलाः ।
बभूवुर्लक्ष्मणं
दृष्ट्वा
सर्वे
प्राञ्जलयः
स्थिताः ॥ २ ॥
निःश्वसन्तं
तु
तं
दृष्ट्वा
क्रुद्धं
दशरथात्मजम् ।
बभूवुर्हरयस्त्रस्ता
न
चैनं
पर्यवारयन् ॥ ३ ॥
स
तां
रत्नमयीं
श्रीमान्
दिव्यां
पुष्पितकाननाम् ।
रम्यां
रत्नसमाकीर्णां
ददर्श
महतीं
गुहाम् ॥ ४ ॥
हर्म्यप्रासादसम्बाधां
नानापण्योपशोभिताम् ।
सर्वकामफलैर्वृक्षैः
पुष्पितैरुपशोभिताम् ॥ ५ ॥
देवगन्धर्वपुत्रैश्च
वानरैः
कामरूपिभिः ।
दिव्यमाल्याम्बरधरैः
शोभितां
प्रियदर्शनैः ॥ ६ ॥
मैरेयाणां
मधूनां
च
सम्मोदितमहापथाम् ।
ददर्श
गिरिनद्यश्च
विमलास्तत्र
राघवः ॥ ७ ॥
अङ्गदस्य
गृहं
रम्यं
मैन्दस्य
द्विविदस्य
च ।
गवयस्य
गवाक्षस्य
गजस्य
शरभस्य
च ॥ ८ ॥
विद्युन्मालेश्च
सम्पातेः
सूर्याक्षस्य
हनूमतः ।
वीरबाहोः
सुबाहोश्च
नलस्य
च
महात्मनः ॥ ९ ॥
कुमुदस्य
सुषेणस्य
तारजाम्बवतोस्तथा ।
दधिवक्त्रस्य
नीलस्य
सुपाटलसुनेत्रयोः ॥ १० ॥
एतेषां
कपिमुख्यानां
राजमार्गे
महात्मनाम् ।
ददर्श
गृहमुख्यानि
महासाराणि
लक्ष्मणः ॥ ११ ॥
पाण्डुराभ्रप्रकाशानि
दिव्यमाल्ययुतानि
च ।
प्रभूतधनाधान्यानि
स्त्रीरत्नैः
शोभितानि
च ॥ १२ ॥
पाण्डुरेण
तु
सालेन
परिक्षिप्तं
दुरासदम् ।
वानरेन्द्रगृहं
रम्यं
महेन्द्रसदनोपमम् ॥ १३ ॥
शुक्लैः
प्रासादशिखरैः
कैलासशिखरोपमैः ।
सर्वकामफलैर्वृक्षैः
पुष्पितै
रुपशोभितम् ॥ १४ ॥
महेन्द्रदत्तैः
श्रीमद्भिर्नीलजीमूतसन्निभैः ।
दिव्यपुष्पफलैर्वृक्षैः
शीतच्छायैर्मनोरमैः ॥ १५ ॥
हरिभिः
संवृतद्वारं
बलिभिः
शस्त्रपाणिभिः ।
दिव्यमाल्यावृतं
शुभ्रं
तप्तकाञ्चनतोरणम् ॥ १६ ॥
सुग्रीवस्य
गृहं
रम्यं
प्रविवेश
महाबलः ।
अवार्यमाणः
सौमित्रिर्महाभ्रमिव
भास्करः ॥ १७ ॥
स
सप्त
कक्ष्या
धर्मात्मा
नानाजनसमाकुलाः ।
प्रविश्य
सुमहद्
गुप्तं
ददर्शान्तःपुरं
महत् ॥ १८ ॥
हैमराजतपर्यङ्कैर्बहुभिश्च
वरासनैः ।
महार्हास्तरणोपेतैस्तत्र
तत्रोपशोभितम् ॥ १९ ॥
प्रविशन्नेव
सततं
शुश्राव
मधुरस्वरम् ।
तन्त्रीगीतसमाकीर्णं
समगीतपदाक्षरम् ॥ २० ॥
बह्वीश्च
विविधाकारा
रूपयौवनगर्विताः ।
स्त्रियः
सुग्रीवभवने
ददर्श
स
महाबलः ॥ २१ ॥
दृष्ट्वाऽभिजनसम्पन्नाश्चित्रमाल्यकृतस्नजः ।
फलमाल्यकृतव्यग्रा
भूषणोत्तमभूषिताः ॥ २२ ॥
नातृप्तान्नापि
चाव्यग्रान्नानुदात्तपरिच्छदान् ।
सुग्रीवानुचरांश्चापि
लक्षयामास
लक्ष्मणः ॥ २३ ॥
कूजितं
नूपुराणां
च
काञ्चीनां
निनदं
तथा ।
सन्निशम्य
ततः
श्रीमान्
सौमित्रिर्लज्जितोऽभवत् ॥ २४ ॥
रोषवेगप्रकुपितः
श्रुत्वा
चाभरणस्वनम् ।
चकार
ज्यास्वनं
वीरो
दिशः
शब्देन
पूरयन् ॥ २५ ॥
चारित्रेण
महाबाहुरपकृष्टः
स
लक्ष्मणः ।
तस्थावेकान्तमाश्रित्य
रामशोकसमन्वितः ॥ २६ ॥
तेन
चापस्वनेनाथ
सुग्रीवः
प्लवगाधिपः ।
विज्ञायागमनं
त्रस्तः
सञ्चचाल
वरासनात् ॥ २७ ॥
अङ्गदेन
यथा
मह्यं
पुरस्तात्प्रतिवेदितम् ।
सुव्यक्तमेष
सम्प्राप्तः
सौमित्रिर्भ्रातृवत्सलः ॥ २८ ॥
अङ्गदेन
समाख्यातं
ज्यास्वनेन
च
वानरः ।
बुबुधे
लक्ष्मणं
प्राप्तं
मुखं
चास्य
व्यशुष्यत ॥ २९ ॥
ततस्तारां
हरिश्रेष्ठः
सुग्रीवः
प्रियदर्शनाम् ।
उवाच
हितमव्यग्रस्त्राससम्भ्रान्तमानसः ॥ ३० ॥
किन्नु
तत्कारणं
सुभ्रु
प्रकृत्या
मृदुमानसः ।
सरोष
इव
सम्प्राप्तो
येनायं
राघवानुजः ॥ ३१ ॥
किं
पश्यसि
कुमारस्य
रोषस्थानमनिन्दिते ।
न
खल्वकारणे
कोपमाहरेन्नरसत्तमः ॥ ३२ ॥
यदस्य
कृतमस्माभिर्बुध्यसे
किञ्चिदप्रियम् ।
तद्
बुद्ध्या
सम्प्रधार्याशु
क्षिप्रमर्हसि
भाषितुम् ॥ ३३ ॥
अथवा
स्वयमेवैनं
द्रष्टुमर्हसि
भाषितुम् ।
वचनैः
सान्त्वयुक्तैश्च
प्रसादयितुमर्हसि ॥ ३४ ॥
त्वद्दर्शनविशुद्धात्मा
न
स
कोपं
करिष्यति ।
नहि
स्त्रिषु
महात्मानः
क्वचिर्त्कुवन्ति
दारुणम् ॥ ३५ ॥
त्वया
सान्त्वैरुपक्रान्तं
प्रसन्नेन्द्रियमानसम् ।
ततः
कमलपत्त्राक्षं
द्रक्ष्याम्यहमरिन्दमम् ॥ ३६ ॥
सा
प्रस्खलन्ती
मदविह्वलाक्षी
प्रलम्बकाञ्चीगुणहेमसूत्रा ।
सलक्षणा
लक्ष्मणसन्निधानं
जगाम
तारा
नमिताङ्गयाष्टिः ॥ ३७ ॥
स
तां
समीक्ष्यैव
हरीशपत्नीं
तस्थावुदासीनतया
महात्मा ।
अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः
स्त्रीसन्निकर्षाद्विनिवृत्तकोपः ॥ ३८ ॥
सा
पानयोगाद्विनिवृत्तलज्जा
दृष्टिप्रसादाच्च
नरेन्द्रसूनोः ।
उवाच
तारा
प्रणयप्रगल्भं
वाक्यं
महार्थं
परिसान्त्वपूर्वम् ॥ ३९ ॥
किं
कोपमूलं
मनुजेन्द्रपुत्र
कस्ते
न
सन्तिष्ठति
वाङ्निदेशे ।
कः
शुष्कवृक्षं
वनमापतन्तं
दवाग्निमासीदति
निर्विशङ्कः ॥ ४० ॥
स
तस्या
वचनं
श्रुत्वा
सान्त्वपूर्वमसंशयम् ।
भूयः
प्रणयदृष्टार्थं
लक्ष्मणो
वाक्यमब्रवीत् ॥ ४१ ॥
किमयं
कामवृत्तस्ते
लुप्तधर्मार्थसङ्ग्रहः ।
भर्ता
भर्तृहिते
युक्ते
न
चैनमवबुध्यसे ॥ ४२ ॥
न
चिन्तयति
राज्यार्थं
नास्मान्
शोकपरायणान् ।
सामात्यपरिषत्तारे
पानमेवोपसेवते ॥ ४३ ॥
स
मासांश्चतुरः
कृत्वा
प्रमाणं
प्लवगेश्वरः ।
व्यीतीतांस्तान्मदव्यग्रो
विहरन्नावबुध्यते ॥ ४४ ॥
नहि
धर्मार्थसिद्ध्यर्थं
पानमेवं
प्रशस्यते ।
पानादर्थश्च
धर्मश्च
कामश्च
परिहीयते ॥ ४५ ॥
धर्मलोपो
महांस्तावत्कृते
ह्यप्रतिकुर्वतः ।
अर्थलोपश्च
मित्रस्य
नाशे
गुणवतो
महान् ॥ ४६ ॥
मित्रं
ह्यर्थगुणश्रेष्ठं
सत्यधर्मपरायणम् ।
तद्द्वयं
तु
परित्यक्तं
न
तु
धर्मे
व्यवस्थितम् ॥ ४७ ॥
तदेवं
प्रस्तुते
कार्ये
कार्यमस्माभिरुत्तरम् ।
यत्कार्यं
कार्यतत्त्वज्ञे
तदुदाहर्तुमर्हसि ॥ ४८ ॥
सा
तस्य
धर्मार्थसमाधियुक्तं
निशम्य
वाक्यं
मधुरस्वभावम् ।
तारा
गतार्थे
मनुजेन्द्रकार्ये
विश्वासयुक्तं
तमुवाच
भूयः ॥ ४९ ॥
न
कोपकालः
क्षितिपालपुत्र
न
चातिकोपः
स्वजने
विधेयः ।
त्वदर्थकामस्य
जनस्य
तस्य
प्रमादमप्यर्हसि
वीर
सोढुम् ॥ ५० ॥
कोपं
कथं
नाम
गुणप्रकृष्टः
कुमार
कुर्यादपकृष्टसत्त्वे ।
कस्त्वद्विधः
कोपवशं
हि
गच्छेत्सत्त्वावरुद्धस्तपसः
प्रसूतिः ॥ ५१ ॥
जानामि
रोषं
हरिवीरबन्धोर्जानामि
कार्यस्य
च
कालसङ्गम् ।
जानामि
कार्यं
त्वयि
यत्कृतं
नस्तञ्चापि
जानामि
यदत्र
कार्यम् ॥ ५२ ॥
तच्चापि
जानामि
यथाऽविषह्यं
बलं
नरश्रेष्ठ
शरीरजस्य ।
जानामि
यस्मिंश्च
जनेऽवबद्धं
कामेन
सुग्रीवमसक्तमद्य ॥ ५३ ॥
न
कामतन्त्रे
तव
बुद्धिरस्ति
त्वं
वै
यथा
मन्युवशं
प्रपन्नः ।
न
देशकालौ
हि
न
चार्थधर्मावपेक्षते
कामरतिर्मनुष्यः ॥ ५४ ॥
तं
कामवृत्तं
मम
सन्निकृष्टं
कामाभियोगाच्च
निवृत्तलज्जम् ।
क्षमस्व
तावत्परवीरहन्तस्त्वद्भ्रातरं
वानरवंशनाथम् ॥ ५५ ॥
महर्षयो
धर्मतपोभिकामाः
कामानुकामाः
प्रतिबद्धमोहाः ।
अयं
प्रकृत्या
चपलः
कपिस्तु
कथं
न
सज्जेत
सुखेषु
राजा ॥ ५६ ॥
इत्येवमुक्त्वा
वचनं
महार्थं
सा
वानरी
लक्ष्मणमप्रमेयम् ।
पुनः
सखेलं
मदविह्वलं
च
भर्तुर्हितं
वाक्यमिदं
बभाषे ॥ ५७ ॥
उद्योगस्तु
चिराज्ञप्तः
सुग्रवेण
नरोत्तम ।
कामस्यापि
विधेयेन
तवार्थप्रतिसाधने ॥ ५८ ॥
आगता
हि
महावीर्या
हरयः
कामरूपिणः ।
कोटीशतसहस्राणि
नानानगनिवासिनः ॥ ५९ ॥
तदागच्छ
महाबाहो
चारित्रं
रक्षितं
त्वया ।
अच्छलं
मित्रभावेन
सतां
दारावलोकनम् ॥ ६० ॥
तारया
चाभ्यनुज्ञातस्त्वरया
चापि
चोदितः ।
प्रविवेश
महाबाहुरभ्यन्तरमरिन्दमः ॥ ६१ ॥
ततः
सुग्रवमासीनं
काञ्चने
परमासने ।
महार्हास्तरणोपेते
ददर्शादित्यसन्निभम् ॥ ६२ ॥
दिव्याभरणचित्राङ्गं
दिव्यरूपं
यशस्विनम् ।
दिव्यमाल्याम्बरधरं
महेन्द्रमिव
दुर्जयम् ॥ ६३ ॥
दिव्याभरणमाल्याभिः
प्रमदाभिः
समावृतम् ।
संरब्धतररक्ताक्षो
बभूवान्तकसन्निभः ॥ ६४ ॥
रुमां
तु
वीरः
परिरभ्य
गाढं
वरासनस्थो
वरहेमवर्णः ।
ददर्श
सौमित्रिमदीनसत्त्वं
विशालनेत्रः
सुविशालनेत्रम् ॥ ६५ ॥