तमप्रतिहतं
क्रुद्धं
प्रविष्टं
पुरुषर्षभम् ।
सुग्रीवो
लक्ष्मणं
दृष्ट्वा
बभूव
व्यथितेन्द्रियः ॥ १ ॥
क्रुद्धं
निःश्वसमानं
तं
प्रदीप्तमिव
तेजसा ।
भ्रातुर्व्यसनसन्तप्तं
दृष्ट्वा
दशरथात्मजम् ॥ २ ॥
उत्पपात
हरिश्रेष्ठो
हित्वा
सौवर्णमासनम् ।
महान्महेन्द्रस्य
यथा
स्वलङ्कृत
इव
ध्वजः ॥ ३ ॥
उत्पतन्तमनूत्पेतू
रुमाप्रभृतयः
स्त्रियः ।
सुग्रीवं
गगने
पूर्णचन्द्रं
तारागणा
इव ॥ ४ ॥
संरक्तनयनः
श्रीमान्
विचचाल
कृताञ्जलिः ।
बभूवावस्थितस्तत्र
कल्पवृक्षो
महानिव ॥ ५ ॥
रुमाद्वितीयं
सुग्रीवं
नारीमध्यगतं
स्थितम् ।
अब्रवील्लक्ष्मणः
क्रुद्धः
सतारं
शशिनं
यथा ॥ ६ ॥
सत्त्वाभिजनसम्पन्नः
सानुक्रोशो
जितेन्द्रियः ।
कृतज्ञः
सत्यवादी
च
राजा
लोके
महीयते ॥ ७ ॥
यस्तु
राजा
स्थितेऽधर्मे
मित्राणामुपकारिणाम् ।
मिथ्या
प्रतिज्ञां
कुरुते
को
नृशंसतरस्ततः ॥ ८ ॥
शतमश्वानृते
हन्ति
सहस्रं
तु
गवानृते ।
आत्मानं
स्वजनं
हन्ति
पुरषः
पुरुषानृते ॥ ९ ॥
पूर्वं
कृतार्थो
मित्राणां
न
तत्प्रतिकरोति
यः ।
कृतघ्नः
सर्वभूतानां
स
वध्यः
प्लवगेश्वर ॥ १० ॥
गीतोऽयं
ब्रह्मणा
श्लोकः
सर्वलोकनमस्कृतः ।
दृष्ट्वा
कृतघ्नं
क्रुद्धेन
तं
निबोध
प्लवङ्गम ॥ ११ ॥
ब्रह्मघ्ने
च
सुरापे
च
चोरे
भग्नव्रते
तथा ।
निष्कृतिर्विहिता
सद्भिः
कृतघ्ने
नास्ति
निष्कृतिः ॥ १२ ॥
अनार्यस्त्वं
कृतघ्नश्च
मिथ्यावादी
च
वानर ।
पूर्वं
कृतार्थो
रामस्य
न
तत्प्रतिकरोषि
यत् ॥ १३ ॥
ननु
नाम
कृतार्थेन
त्वया
रामस्य
वानर ।
सीतया
मार्गणे
यत्नः
कर्तव्यः
कृतमिच्छता ॥ १४ ॥
स
त्वं
ग्राम्येषु
भोगेषु
सक्तो
मिथ्याप्रतिश्रवः ।
न
त्वां
रामो
विजानीते
सर्पं
मण्डूकराविणम् ॥ १५ ॥
महाभागेन
रामेण
पापः
करुणवेदिना ।
हरीणां
प्रापितो
राज्यं
त्वं
दुरात्मा
महात्मना ॥ १६ ॥
कृतं
चेन्नाभिजानीषे
रामस्याक्लिष्टकर्मणः ।
सद्यस्त्वं
निशितैर्बाणैर्हतो
द्रक्ष्यसि
वालिनम् ॥ १७ ॥
न
च
सङ्कुचितः
पन्था
येन
वाली
हतो
गतः ।
समये
तिष्ठ
सुग्रीव
मा
वालिपथमन्वगाः ॥ १८ ॥
न
नूनमिक्ष्वाकुवरस्य
कार्मुकच्युतान्
शरान्
पश्यसि
वज्रसन्निभान् ।
ततः
सुखं
नाम
निषेवसे
सुखी
न
रामकार्यं
मनसाऽप्यवेक्षसे ॥ १९ ॥