इत्युक्तस्तारया
वाक्यं
प्रश्रितं
धर्मसंहितम् ।
मृदुस्वभावः
सौमित्रिः
प्रतिजग्राह
तद्वचः ॥ १ ॥
तस्मिन्
प्रतिगृहीते
तु
वाक्ये
हरिगणेश्वरः ।
लक्ष्मणात्सुमहत्त्रासं
वस्त्रं
क्लिन्नमिवात्यजत् ॥ २ ॥
ततः
कण्ठगतं
माल्यं
चित्रं
बहुगुणं
महत् ।
चिच्छेद
विमदश्चासीत्सुग्रीवो
वानरेश्वरः ॥ ३ ॥
स
लक्ष्मणं
भीमबलं
सर्ववानरसत्तमः ।
अब्रवीत्प्रश्रितं
वाक्यं
सुग्रीवः
सम्प्रहर्षयन् ॥ ४ ॥
प्रनष्टा
श्रीश्च
कीर्तिश्च
कपिराज्यं
च
शाश्वतम् ।
रामप्रसादात्सौमित्रे
पुनः
प्राप्तमिदं
मया ॥ ५ ॥
कः
शक्तस्तस्य
देवस्य
ख्यातस्य
स्वेन
कर्मणा ।
तादृशं
विक्रमं
वीर
प्रतिकर्तुमरिन्दम ॥ ६ ॥
सीतां
प्रप्स्यति
धर्मात्मा
वधिष्यति
च
रावणम् ।
सहायमात्रेण
मया
राघवः
स्वेन
तेजसा ॥ ७ ॥
सहायकृत्यं
किं
तस्य
येन
सप्त
महाद्रुमाः ।
शैलश्च
वसुधा
चैव
बाणेनैकेन
दारिताः ॥ ८ ॥
धनुर्विस्फारयाणस्य
यस्य
शब्देन
लक्ष्मण ।
सशैला
कम्पिता
भूमिः
सहायैस्तस्य
किन्नु
वै ॥ ९ ॥
अनुयात्रां
नरेन्द्रस्य
करिष्येऽहं
नरर्षभ ।
गच्छतो
रावणं
हन्तुं
वैरिणं
सपुरःसरम् ॥ १० ॥
यदि
किञ्चिदतिक्रान्तं
विश्वासात्
प्रणयेन
वा ।
प्रेष्यस्य
क्षमितव्यं
मे
न
कश्चिन्नापराध्यति ॥ ११ ॥
इति
तस्य
ब्रुवाणस्य
सुग्रीवस्य
महात्मनः ।
अभवील्लक्ष्मणः
प्रीतः
प्रेम्णा
चैवमुवाच
ह ॥ १२ ॥
सर्वथा
हि
मम
भ्राता
सनाथो
वानरेश्वर ।
त्वया
नाथेन
सुग्रीव
प्रश्रितेन
विशेषतः ॥ १३ ॥
यस्ते
प्रभावः
सुग्रीव
य़च्च
ते
शौचमार्जवम् ।
अर्हस्त्वं
कपिराज्यस्य
श्रियं
भोक्तुमनुत्तमाम् ॥ १४ ॥
सहायेन
च
सुग्रीव
त्वया
रामः
प्रतापवान् ।
वधिष्यति
रणे
शत्रूनचिरान्नात्र
संशयः ॥ १५ ॥
धर्मज्ञस्य
कृतज्ञस्य
सङ्ग्रामेष्वनिवर्तिनः ।
उपपन्नं
च
युक्तं
च
सुग्रीव
तव
भाषितम् ॥ १६ ॥
दोषज्ञः
सति
सामर्थ्ये
कोऽन्ये
भाषितुमर्हति ।
वर्जयित्वा
मम
ज्येष्ठं
त्वां
च
वानरसत्तम ॥ १७ ॥
सदृशश्चासि
रामस्य
विक्रमेण
बलेन
च ।
सहायो
दैवतैर्दत्तश्चिराय
हरिपुङ्गव ॥ १८ ॥
किन्तु
शीघ्रमितो
वीर
निष्क्राम
त्वं
मया
सह ।
सान्त्वय
स्ववयस्यं
त्वं
भार्याहरणकर्शितम् ॥ १९ ॥
यच्च
शोकाभिभूतस्य
श्रुत्वा
रामस्य
भाषितम् ।
मया
त्वं
परुषाण्युक्तस्तच्च
त्वं
क्षन्तुमर्हसि ॥ २० ॥