एवमुक्तस्तु
सुग्रीवो
लक्ष्मणेन
महात्मना ।
हनुमन्तं
स्थितं
पार्श्वे
सचिवं
त्विदमब्रवीत् ॥ १ ॥
महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु
च ।
मन्दरे
पाण्डुशिखरे
पञ्चशैलेषु
ये
स्थिताः ॥ २ ॥
तरुणादित्यवर्णेषु
भ्राजमानेषु
सर्वतः ।
पर्वतेषु
समुद्रान्ते
पश्चिमायां
तु
ये
दिशि ॥ ३ ॥
आदित्यभवने
चैव
गिरौ
सन्ध्याभ्रसन्निभे ।
पद्मतालवनं
भीमं
संश्रिता
हरिपुङ्गवाः ॥ ४ ॥
अञ्जनाम्बुदसङ्काशाः
कुञ्जरप्रतिमौजसः ।
अञ्जने
पर्वते
चैव
ये
वसन्ति
प्लवङ्गमाः ॥ ५ ॥
मनःशिलागुहावासा
वानराः
कनकप्रभाः ।
मेरुपार्श्वगताश्चैव
ये
धूम्रगिरिसंश्रिताः ॥ ६ ॥
तरुणादित्यवर्णाश्च
पर्वते
च
महारुणे ।
पिबन्तो
मधु
मैरेयं
भीमवेगाः
प्लवङ्गमाः ॥ ७ ॥
वनेषु
च
सुरम्येषु
सुगन्धिषु
महत्सु
च ।
तापसानां
च
रम्येषु
वनान्तेषु
समन्ततः ॥ ८ ॥
तांस्तान्
समानय
क्षिप्रं
पृथिव्यां
सर्ववानरान् ।
सामदानादिभिः
कल्पैराशु
प्रेषय
वानरान् ॥ ९ ॥
प्रेषिताः
प्रथमं
ये
च
मया
दूता
महाजवाः ।
त्वरणार्थं
तु
भूयस्त्वं
हरीन्सम्प्रेषयापरान् ॥ १० ॥
ये
प्रसक्ताश्च
कामेषु
दीर्घसूत्राश्च
वानराः ।
इहानयस्व
तान्
सर्वान्
शीघ्रं
तु
मम
शासनात् ॥ ११ ॥
अहोभिर्दशभिर्ये
हि
नागच्छन्ति
ममाज्ञया ।
हन्तव्यास्ते
दुरात्मानो
राजशासनदूषकाः ॥ १२ ॥
शतान्यथ
सहस्राणां
कोट्यश्च
मम
शासनात् ।
प्रयान्तु
कपिसिंहानां
दिशो
मम
मते
स्थिताः ॥ १३ ॥
मेघपर्वतसङ्काशाश्छादयन्त
इवाम्बरम् ।
घोररूपाः
कपिश्रेष्ठा
यान्तु
मच्छासनादितः ॥ १४ ॥
ते
गतिज्ञा
गतिं
गत्वा
पृथिव्यां
सर्ववानराः ।
आनयन्तु
हरीन्
सर्वांस्त्वरिताः
शासनान्मम ॥ १५ ॥
तस्य
वानरराजस्य
श्रुत्वा
वायुसुतो
वचः ।
दिक्षु
सर्वासु
विक्रान्तान्
प्रेषयामास
वानरान् ॥ १६ ॥
ते
पदं
विष्णुविक्रान्तं
पतत्ित्रज्योतिरध्वगाः ।
प्रयाताः
प्रहिता
राज्ञा
हरयस्तत्क्षणेन
वै ॥ १७ ॥
ते
समुद्रेषु
गिरिषु
वनेषु
च
सरस्सु
च ।
वानरा
वानरान्
सर्वान्
रामहेतोरचोदयन् ॥ १८ ॥
मृत्युकालोपमस्याज्ञां
राजराजस्य
वानराः ।
सुग्रीवस्याययुः
श्रुत्वा
सुग्रीवभयदर्शिनः ॥ १९ ॥
ततस्तेऽञ्जनसङ्काशा
गिरेस्तस्मान्महाजवाः ।
तिस्रः
कोट्यः
प्लवङ्गानां
निर्ययुर्यत्र
राघवः ॥ २० ॥
अस्तं
गच्छति
यत्रार्कस्तस्मिन्
गिरिवरे
स्थिताः ।
तप्तहेममहाभासस्तस्मात्कोट्यो
दश
च्युताः ॥ २१ ॥
कैलासशिखरेभ्यश्च
सिंहकेसरवर्चसाम् ।
ततः
कोटिसहस्राणि
वानराणामुपागमन् ॥ २२ ॥
फलमूलेन
जीवन्तो
हिमवन्तमुपाश्रिताः ।
तेषां
कोटिसहस्राणां
सहस्रं
समवर्तत ॥ २३ ॥
अङ्गारकसमानानां
भीमानां
भीमकर्मणाम् ।
विन्ध्याद्
वानरकोटीनां
सहस्राण्यपतन्
द्रुतम् ॥ २४ ॥
क्षीरोदवेलानिलयास्तमालवनवासिनः ।
नारिकेलाशनाश्चैव
तेषां
सङ्ख्या
न
विद्यते ॥ २५ ॥
वनेभ्यो
गह्वरेभ्यश्च
सरिद्भ्यश्च
महाजवा ।
आगच्छद्वानरी
सेना
पिबन्तीव
दिवाकरम् ॥ २६ ॥
ये
तु
त्वरयितुं
याता
वानराः
सर्ववानरान् ।
ते
वीरा
हिमवच्छैलं
ददृशुस्तं
महाद्रुमम् ॥ २७ ॥
तस्मिन्
गिरिवरे
रम्ये
यज्ञो
माहेश्वरः
पुरा ।
सर्वदेवमनस्तोषो
बभौ
दिव्यो
मनोहरः ॥ २८ ॥
अन्ननिष्यन्दजातानि
मूलानि
च
फलानि
च ।
अमृतास्वादकल्पानि
ददृशुस्तत्र
वानराः ॥ २९ ॥
तदन्नसम्भवं
दिव्यं
फलं
मूलं
मनोहरम् ।
यः
कश्चित्सकृदश्नाति
मासं
भवति
तर्पितः ॥ ३० ॥
तानि
मूलानि
दिव्यानि
फलानि
च
फलाशनाः ।
औषधानि
च
दिव्यानि
जगृहुर्हरियूथपाः ॥ ३१ ॥
तस्माच्च
यज्ञायतनात्
पुष्पाणि
सुरभीणि
च ।
आनिन्युर्वानरा
गत्वा
सुग्रीवप्रियकारणात् ॥ ३२ ॥
ते
तु
सर्वे
हरिवराः
पृथिव्यां
सर्ववानरान् ।
सञ्चोदयित्वा
त्वरिता
यूथानां
जग्मुरग्रतः ॥ ३३ ॥
ते
तु
तेन
मुहूर्तेन
यूथपाः
शीघ्रगामिनः ।
किष्किन्धां
त्वरया
प्राप्ताः
सुग्रीवो
यत्र
वानरः ॥ ३४ ॥
ते
गृहीत्वौषधीः
सर्वाः
फलं
मूलं
च
वानराः ।
तं
प्रतिग्राहयामासुर्वचनं
चेदमब्रुवन् ॥ ३५ ॥
सर्वे
परिगताः
शैलाः
समुद्राश्च
वनानि
च ।
पृथिव्यां
वानराः
सर्वे
शासनादुपयान्ति
ते ॥ ३६ ॥
एवं
श्रुत्वा
ततो
हृष्टः
सुग्रीवः
प्लवगाधिपः ।
प्रतिजग्राह
तत्प्रीतस्तेषां
सर्वमुपायनम् ॥ ३७ ॥