प्रतिहृह्य
च
तत्सर्वमुपायनमुपाहृतम् ।
वानरान्
सान्त्वयित्वा
च
सर्वानेव
व्यसर्जयत् ॥ १ ॥
विसर्जयित्वा
स
हनीन्
शूरांस्तान्कृतकर्मणः ।
मेने
कृतार्थमात्मानं
राघवं
च
महाबलम् ॥ २ ॥
अब्रवीत्प्रश्रितं
वाक्यं
सुग्रीवं
सम्प्रहर्षयन् ।
किष्किन्धाया
विनिष्क्राम
यदि
ते
सौम्य
रोचते ॥ ३ ॥
तस्य
तद्वचनं
श्रुत्वा
लक्ष्मणस्य
सुभाषितम् ।
सुग्रीवः
परमप्रीतो
वाक्यमेतदुवाच
ह ॥ ४ ॥
एवं
भवतु
गच्छावः
स्थेयं
त्वच्छासने
मया ।
तमेवमुक्त्वा
सुग्रीवो
लक्ष्मणं
शुभलक्षणम् ॥ ५ ॥
विसर्जयामास
तदा
तारामन्याश्च
योषितः ।
एतेत्युच्चैर्हरिवरान्
सुग्रीवः
समुदाहरत् ॥ ६ ॥
तस्य
तद्वचनं
श्रुत्वा
हरयः
शीघ्रमाययुः ।
बद्धाञ्जलिपुटाः
सर्वे
ये
स्युः
स्त्रीदर्शनक्षमाः ॥ ७ ॥
तानुवाच
ततः
प्राप्तान्
राजाऽर्कसदृशप्रभः ।
उपस्थापयत
क्षिप्रं
शिबिकां
मम
वानराः ॥ ८ ॥
श्रुत्वा
तु
वचनं
तस्य
हरयः
शीघ्रविक्रमाः ।
समुपस्थापयामासुः
शिबिकां
प्रियदर्शनाम् ॥ ९ ॥
तामुपस्थापितां
दृष्ट्वा
शिबिकां
वानराधिपः ।
लक्ष्मणारुह्यातां
शीघ्रमिति
सौमित्रिमब्रवीत् ॥ १० ॥
इत्युक्त्वा
काञ्चनं
यानं
सुग्रीवः
सूर्यसन्निभम् ।
बृहद्भिर्हरिभिर्युक्तमारुरोह
सलक्ष्मणः ॥ ११ ॥
पाण्डुरेणातपत्रेण
ध्रियमाणेन
मूर्धनि ।
शुक्लैश्च
वालव्यजनैर्धूयमानैः
समन्ततः ॥ १२ ॥
शङ्खभेरीनिनादैश्च
हरिभिश्चाभिनन्दितः ।
निर्ययौ
प्राप्य
सुग्रीवो
राज्यश्रियमनुत्तमाम् ॥ १३ ॥
स
वानरशतैस्तीक्ष्णैर्बहुभिः
शस्त्रपाणिभिः ।
परिकीर्णो
ययौ
तत्र
यत्र
रामो
व्यवस्थितः ॥ १४ ॥
स
तं
देशमनुप्राप्य
श्रेष्ठं
रामनिषेवितम् ।
अवातरन्महातेजाः
शिबिकायाः
सलक्ष्मणः ॥ १५ ॥
आसाद्य
च
ततो
रामं
कृताञ्जलिपुटोऽभवत् ।
कृताञ्जलौ
स्थिते
तस्मिन्
वानराश्चाभवंस्तथा ॥ १६ ॥
तटाकमिव
तद्
दृष्ट्वा
रामः
कुड्मलपङ्कजम् ।
वानराणां
महत्सैन्यं
सुग्रीवे
प्रीतिमानभूत् ॥ १७ ॥
पादयोः
पतितं
मूर्ध्ना
तमुत्थाप्य
हरीश्वरम् ।
प्रेम्णा
च
बहुमानाच्च
राघवः
परिषस्वजे ॥ १८ ॥
परिष्वज्य
च
धर्मात्मा
निषीदेति
ततोऽब्रवीत् ।
तं
निषण्णं
ततो
दृष्ट्वा
क्षितौ
रामोऽब्रवीद्वचः ॥ १९ ॥
धर्ममर्थं
च
कामं
च
यस्तु
काले
निषेवते ।
विभज्य
सततं
वीर
स
राजा
हरिसत्तम ॥ २० ॥
हित्वा
धर्मं
तथाऽर्थं
च
कामं
यस्तु
निषेवते ।
स
वृक्षाग्रे
यथा
सुप्तः
पतितः
प्रतिबुध्यते ॥ २१ ॥
अमित्राणां
वधे
युक्तो
मित्राणां
सङ्ग्रहे
रतः ।
त्रिवर्गफलभोक्ता
तु
राजा
धर्मेण
युज्यते ॥ २२ ॥
उद्योगसमयस्त्वेष
प्राप्तः
शत्रुविनाशन ।
सञ्चिन्त्यतां
हि
पिङ्गेश
हरिभिः
सह
मन्त्रिभिः ॥ २३ ॥
एवमुक्तस्तु
सुग्रीवो
रामं
वचनमब्रवीत् ।
त्वत्प्रसादान्महाबाहो
पुनः
प्राप्तमिदं
मया ॥ २४ ॥
तव
देव
प्रसादाच्च
भ्रातुश्च
जयतां
वर ।
कृतं
न
प्रतिकुर्याद्यः
पुरुषाणां
स
दूषकः ॥ २५ ॥
एते
वानरमुख्याश्च
शतशः
शत्रुसूदन ।
प्राप्ताश्चादाय
बलिनः
पृथिव्यां
सर्ववानरान् ॥ २६ ॥
ऋक्षाश्चावहिताः
शूरा
गोलाङ्गूलाश्च
राघव ।
कान्तारवनदुर्गाणामभिज्ञा
घोरदर्शनाः ॥ २७ ॥
देवगन्धर्वपुत्राश्च
वानराः
कामरूपिणः ।
स्वैः
स्वैः
परिवृताः
सैन्यैर्वर्तन्ते
पथि
राघव ॥ २८ ॥
शतैः
शतसहस्रैश्च
कोटिभिश्च
प्लवङ्गमाः ।
अयुतैश्चावृता
वीराः
शङ्कुभिश्च
परन्तप ॥ २९ ॥
समुद्रैश्च
परार्धैश्च
हरयो
हरियूथपाः ।
आगमिष्यन्ति
ते
राजन्
महेन्द्रसमविक्रमाः ॥ ३० ॥
ते
त्वामभिगमिष्न्यन्ति
राक्षसं
ये
सबान्धवम् ।
निहत्य
रावणं
सङ्ख्ये
ह्यानयिष्यान्ति
मैथिलीम् ॥ ३१ ॥
ततस्तमुद्योगमवेक्ष्य
बुद्धिमान्
हरिप्रवीरस्य
निदेशवर्तिनः ।
बभूव
हर्षाद्वसुधाधिपात्मजः
प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ ३२ ॥