अथ
प्रस्थाप्य
सुग्रीवस्तान्
हरीन्
दक्षिणां
दिशम् ।
अब्रवीन्मेघसङ्काशं
सुषेणं
नाम
यूथपम् ॥ १ ॥
तारायाः
पितरं
राजा
श्वशुरं
भीमविक्रमम् ।
अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य
प्रणम्य
च ॥ २ ॥
मरीचिपुत्रं
मारीचमर्चिष्मन्तं
महाकपिम् ।
वृतं
कपिवरैः
शूरैर्महेन्द्रसदृशद्युतिम् ॥ ३ ॥
बुद्धिविक्रमसम्पन्नं
वैनतेयसमद्युतिम् ।
मरीचिपुत्रान्
मारीचानर्चिर्मालान्महाबलान् ॥ ४ ॥
द्वाभ्यां
शतसहस्राभ्यां
कपीनां
कपिसत्तमाः ।
सुषेणप्रमुखा
यूयं
वैदेहीं
परिमार्गत ॥ ५ ॥
सुराष्ट्रान्
सहबाह्लीकान्
शूरान्
भीमांस्तथैव
च ।
स्फीतान्
जनपदान्
रम्यान्
विपुलानि
पुराणि
च ॥ ६ ॥
पुन्नागगहनं
कुक्षिं
वकुलोद्दालकाकुलम् ।
तथा
केतकषण्डांश्च
मार्गध्वं
हरियूथपाः ॥ ७ ॥
प्रत्यक्स्रोतोगमाश्चैव
नद्यः
शीतजलाः
शिवाः ।
तापसानामरण्यानि
कान्तारा
गिरयश्च
ये ॥ ८ ॥
ततः
स्थलीं
मरुप्रायामत्युच्चशिरसः
शिलाः ।
गिरिजालावृतां
दुर्गां
मार्गित्वा
पश्चिमां
दिशम् ॥ ९ ॥
ततः
पश्चिममासाद्य
समुद्रं
द्रष्टुमर्हथ ।
तिमिनक्रायुतजलमक्षोभ्यमथ
वानराः ॥ १० ॥
ततः
केतकषण्डेषु
तमालगहनेषु
च ।
कपयो
विहरिष्यन्ति
नारिकेलवनेषु
च ॥ ११ ॥
तत्र
सीतां
च
मार्गध्वं
निलयं
रावणस्य
च ।
वेलातटनिविष्टेषु
पर्वतेषु
वनेषु
च ॥ १२ ॥
अवन्तीमङ्गलोपां
च
तथा
चालक्षितं
वनम् ।
राष्ट्राणि
च
विशालानि
पत्तनानि
ततस्ततः ॥ १३ ॥
सिन्धुसागरयोश्चैव
सङ्गमे
तत्र
पर्वतः ।
महान्
हेमगिरिर्नाम
शतशृङ्गो
महाद्रुमः ॥ १४ ॥
तस्य
प्रस्थेषु
रम्येषु
सिंहाः
पक्षगमाः
स्थिताः ।
तिमिमत्स्यगजांश्चैव
नीडान्यारोपयन्ति
ते ॥ १५ ॥
दृप्तास्तृप्ताश्च
मातङ्गास्तोयदस्वननिःस्वनाः ।
विचरन्ति
विशालेऽस्मिन्
तोयपूर्णे
समन्ततः ॥ १६ ॥
तस्य
शृङ्गं
दिवस्पर्शं
काञ्चनं
चित्रपादपम् ।
सर्वमाशु
विचेतव्यं
कपिभिः
कामरूपिभिः ॥ १७ ॥
कोटिं
तत्र
समुद्रे
तु
काञ्चनीं
शतयोजनाम् ।
दुर्दर्शां
पारियात्रस्य
गतां
द्रक्ष्यथ
वानराः ॥ १८ ॥
कोट्यस्तत्र
चतुर्विंशद्गन्धर्वाणां
तरस्विनाम् ।
वसन्त्यग्निनिकाशानां
घोराणां
कामरूपिणाम् ॥ १९ ॥
पावकार्चिःप्रतीकाशाः
समवेताः
सहस्रशः ।
नात्यासादयितव्यास्ते
वानरैर्भीमविक्रमैः ॥ २० ॥
नादेयं
च
फलं
तस्माद्देशात्
किञ्चित्
प्लवङ्गमैः ।
दुरासदा
हि
ते
वीराः
सत्त्ववन्तो
महाबलाः ॥ २१ ॥
तत्र
यत्नश्च
कर्तव्यो
मार्गितव्या
च
जानकी ।
न
हि
तेभ्यो
भयं
किञ्चित्
कपित्वमनुवर्तताम् ॥ २२ ॥
तत्र
वैडूर्यवर्णाभो
वज्रसंस्थानसंस्थितः ।
नानाद्रुमलताकीर्णो
वज्रो
नाम
महागिरिः ॥ २३ ॥
श्रीमान्
समुदितस्तत्र
योजनानां
शतं
समम् ।
गुहास्तत्र
विचेतव्याः
प्रयत्नेन
प्लवङ्गमाः ॥ २४ ॥
चतुर्भागे
समुद्रस्य
चक्रवान्नाम
पर्वतः ।
तत्र
चक्रं
सहस्रारं
निर्मितं
विश्वकर्मणा ॥ २५ ॥
तत्र
पञ्चजनं
हत्वा
हयग्रीवं
च
दानवम् ।
आजहार
ततश्चक्रं
शङ्खं
च
पुरुषोत्तमः ॥ २६ ॥
तस्य
सानुषु
चित्रेषु
विशालासु
गुहासु
च ।
रावणः
सह
वैदेह्या
मार्गितव्यस्ततस्ततः ॥ २७ ॥
योजनानां
ततः
षष्टिर्वराहो
नाम
पर्वतः ।
सुवर्णशृङ्गः
सुश्रीमानगाधे
वरुणालये ॥ २८ ॥
तत्र
प्राग्ज्योतिषं
नाम
जातरूपमयं
पुरम् ।
यस्मिन्वसति
दुष्टात्मा
नरको
नाम
दानवः ॥ २९ ॥
तत्र
सानुषु
चित्रेषु
विशालासु
गुहासु
च ।
रावणः
सह
वैदेह्या
मार्गितव्यस्ततस्ततः ॥ ३० ॥
तमतिक्रम्य
शैलेन्द्रं
काञ्चनान्तरनिर्दरः ।
पर्वतः
सर्वसौवर्णो
धाराप्रस्रवणायुतः ॥ ३१ ॥
तं
गजाश्च
वराहाश्च
सिंहा
व्याघ्राश्च
सर्वतः ।
अभिगर्जन्ति
सततं
तेन
शब्देन
दर्पिताः ॥ ३२ ॥
यस्मिन्
हरिहयः
श्रीमान्
महेन्द्रः
पाकशासनः ।
अभिषिक्तः
सुरै
राजा
मेघवान्नाम
पर्वतः ॥ ३३ ॥
तमतिक्रम्य
शैलेन्द्रं
महेन्द्रपरिपालितम् ।
षष्टिं
गिरिसहस्राणि
काञ्चनानि
गमिष्यथ ॥ ३४ ॥
तरुणादित्यवर्णानि
भ्राजमानानि
सर्वतः ।
जातरूपमयैवृक्षैः
शोभितानि
सुपुष्पितैः ॥ ३५ ॥
तेषां
मध्ये
स्थितो
राजा
मेरुरुत्तरपर्वतः ।
आदित्येन
प्रसन्नेन
शैलो
दत्तवरः
पुरा ॥ ३६ ॥
तेनैवमुक्तः
शैलेन्द्रः
सर्व
एव
त्वदाश्रयाः ।
मत्प्रसादाद्
भविष्यन्ति
दिवा
रात्रौ
च
काञ्चनाः ॥ ३७ ॥
त्वयि
ये
चापि
वत्स्यन्ति
देवगन्धर्वदानवाः ।
ते
भविष्यन्ति
रक्ताश्च
प्रभया
काञ्चनप्रभाः ॥ ३८ ॥
विश्वेदेवाश्च
मरुतो
वसवश्च
दिवौकसः ।
आगम्य
पश्चिमां
सन्ध्यां
मेरुमुत्तरपर्वतम् ॥ ३९ ॥
आदिच्यमुपतिष्ठन्ति
तैश्च
सुर्योऽभिपूजितः ।
अदृश्यः
सर्वभूतानामस्तं
गच्छति
पर्वतम् ॥ ४० ॥
योजनानां
सहस्राणि
दश
तानि
दिवाकरः ।
मुहूर्तार्धेन
तं
शीघ्रमभियाति
शिलोच्चयम् ॥ ४१ ॥
शृङ्गे
तस्य
महद्दिव्यं
भवनं
सूर्यसन्निभम् ।
प्रासादगणसम्बाधं
विहितं
विश्वकर्मणा ॥ ४२ ॥
शोभितं
तरुभिश्चित्रैर्नानापक्षिसमाकुलैः ।
निकेतं
पाशहस्तस्य
वरुणास्य
महात्मनः ॥ ४३ ॥
अन्तरा
मेरुमस्तं
च
तालो
दशशिरा
महान् ।
जातरूपमयः
श्रीमान्
भ्राजते
चित्रवेदिकः ॥ ४४ ॥
तेषु
सर्वेषु
दुर्गेषु
सरस्सु
च
सरित्सु
च ।
रावणः
सह
वैदेह्या
मार्गितव्यस्ततस्ततः ॥ ४५ ॥
यत्र
तिष्ठति
धर्मज्ञस्तपसा
स्वेन
भावितः ।
मेरुसावर्णिरित्येन
ख्यातो
वै
ब्रह्मणा
समः ॥ ४६ ॥
प्रष्टव्यो
मेरुसावर्णिर्महर्षिः
सूर्यसन्निभः ।
प्रणम्य
शिरसा
भूमौ
प्रवृत्तिं
मैथिलीं
प्रति ॥ ४७ ॥
एतावज्जीवलोकस्य
भास्करो
रजनीक्षये ।
कृत्वा
वितिमिरं
सर्वमस्तं
गच्छति
पर्वतम् ॥ ४८ ॥
एतावद्वानरैः
शक्यं
गन्तुं
वानरपुङ्गवाः ।
अभास्करममर्यादं
न
जानीमस्ततः
परम् ॥ ४९ ॥
अस्तपर्वतमासाद्य
पूर्णे
मासे
निवर्तत ।
ऊर्ध्वं
मासान्न
वस्तव्यं
वसन्
वध्यो
भवेन्मम ॥ ५० ॥
सहैव
शूरो
युष्माभिः
श्वशुरो
मे
गमिष्यति ।
श्रोतव्यं
सर्वमेतस्य
भवद्भिर्दिष्टकारिभिः ॥ ५१ ॥
गुरुरेष
महाबाहुः
श्वशुरो
मे
महाबलः ।
भवन्तश्चापि
विक्रान्ताः
प्रमाणं
सर्वकर्मसु ॥ ५२ ॥
दृष्टायां
तु
नरेन्द्रस्य
पत्न्याममिततेजसः ।
कृतकृत्या
भविष्यामः
कृतस्य
प्रतिकर्मणा ॥ ५३ ॥
अतोऽन्यदपि
यत्कार्यं
कार्यस्यास्य
हितं
भवेत् ।
सम्प्रधार्यं
भवद्भिश्च
देशकालार्थसंहितम् ॥ ५४ ॥
ततः
सुषेणप्रमुखाः
प्लवङ्गाः
सुग्रीवाक्यं
निपुणं
निशम्य ।
आमन्त्र्य
सर्वे
प्लवगाधिपं
ते
जग्मुर्दिशं
तां
वरुणाभिगुप्ताम् ॥ ५५ ॥