ततः
सन्दिश्य
सुग्रीवः
श्वशुरं
पश्चिमां
दिशम् ।
वीरं
शतवलिं
नाम
वानरं
वानरर्षभः ॥ १ ॥
उवाच
राजा
धर्मज्ञः
सर्ववानरसत्तमम् ।
वाक्यमात्महितं
चैव
रामस्य
च
हितं
तथा ॥ २ ॥
वृतः
शतसहस्रेण
त्वद्विधानां
वनौकसाम् ।
वैवस्वसुतैः
सार्धं
प्रतिष्ठस्व
स्वमन्त्रिभिः ॥ ३ ॥
दिशं
ह्युदीचीं
विक्रान्तां
हिमशैलावतंसकाम् ।
सर्वतः
परिमार्गध्वं
रामपत्नीमनिन्दिताम् ॥ ४ ॥
अस्मिन्
कार्ये
विनिर्वृते
कृते
दाशरथेः
प्रिये ।
ऋणान्मुक्ता
भविष्यामः
कृतार्थार्थविदां
वराः ॥ ५ ॥
कृतं
हि
प्रियमस्माकं
राघवेण
महात्मना ।
तस्य
चेत्
प्रतिकारोऽस्ति
सफलं
जीवितं
भवेत् ॥ ६ ॥
अर्थितः
कार्यनिर्वृत्तिमकर्तुरपि
यश्चरेत् ।
तस्य
स्यात्
सफलं
जन्म
किं
पुनः
पूर्वकारिणः ॥ ७ ॥
एतां
बुद्धिमवस्थाय
दृश्यते
जानकी
यथा ।
तथा
भवद्भिः
कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ८ ॥
अयं
हि
सर्वभूतानां
मान्यस्तु
नरसत्तमः ।
अस्मासु
चागतप्रीती
रामः
परपुरञ्जयः ॥ ९ ॥
इमानि
वनगुर्गाणि
नद्यः
शैलान्तराणि
च ।
भवन्तः
परिमार्गन्तु
बुद्धिविक्रमसम्पदा ॥ १० ॥
तत्र
म्लेच्छान्पुलिन्दांश्च
शूरसेनांस्तथैव
च ।
प्रस्थलान्
भरतांश्चैव
कुरूंश्च
सह
मद्रकैः ॥ ११ ॥
काम्बोजान्
यवनांश्चैव
शकानारट्टकानपि ।
बाह्लीकानृषिकांश्चैव
पौरवानथ
टङ्कणान् ॥ १२ ॥
चीनान्
परमचीनांश्च
नीहारांश्च
पुनःपुनः ।
अन्वीक्ष्य
दरदांश्चैव
हिमवन्तं
तथैव
च ॥ १३ ॥
लौध्रपद्मकषण्डेषु
देवदारुवनेषु
च ।
रावणः
सह
वैदेह्या
मार्गितव्यस्ततस्ततः ॥ १४ ॥
ततः
सोमाश्रमं
गत्वा
देवगन्धर्वसेवितम् ।
कालं
नाम
महासानुं
पर्वतं
तु
गमिष्यथ ॥ १५ ॥
महत्सु
तस्य
शैलस्य
निर्दरेषु
गुहासु
च ।
विचिनुध्वं
महाभागां
रामपत्नीं
ततस्ततः ॥ १६ ॥
तमतिक्रम्य
शैलेन्द्रं
हेमगर्भं
महागिरिम् ।
ततः
सुदर्शन्नं
नाम
गन्तुमर्हथ
पर्वतम् ॥ १७ ॥
ततो
देवसखो
नाम
पर्वतः
पतगालयः ।
नानापक्षिगणाकीर्णो
विविधद्रुमभूषितः ॥ १८ ॥
तस्य
काननषण्डेषु
निर्झरेषु
गुहासु
च ।
रावणः
सह
वैदेह्या
मार्गितव्यस्ततस्ततः ॥ १९ ॥
तमतिक्रम्य
चाकाशं
सर्वतः
शतयोजनम् ।
अपर्वतनदीवृक्षं
सर्वसत्त्वविवर्जितम् ॥ २० ॥
तं
तु
शीघ्रमतिक्रम्य
कान्तारं
रोमहर्षणम् ।
कैलासं
पाण्डुरं
शैलं
प्राप्य
हृष्टा
भविष्यथ ॥ २१ ॥
तत्र
पाण्डुरमेघाभं
जाम्बूनदपरिष्कृतम् ।
कुबेरभवनं
दिव्यं
निर्मितं
विश्वकर्मणा ॥ २२ ॥
विशाला
नलिनी
यत्र
प्रभूतकमलोत्पला ।
हंसकारण्डवाकीर्णा
ह्यप्सरोगणसेविता ॥ २३ ॥
तत्र
वैश्रवणो
राजा
सर्वभूतनमस्कृतः ।
धनदो
रमते
श्रीमान्
गुह्यकैः
सह
यक्षराट् ॥ २४ ॥
तस्य
चन्द्रनिकाशेषु
पर्वतेषु
गुहासु
च ।
रावणः
सह
वैदेह्या
मार्गितव्यस्ततस्ततः ॥ २५ ॥
क्रौञ्चं
तु
गिरिमासाद्य
बिलं
तस्य
सुदुर्गमम् ।
अप्रमत्तैः
प्रवेष्टव्यं
दुष्प्रवेशं
हि
तत्स्मृतम् ॥ २६ ॥
वसन्ति
हि
महात्मानास्तत्र
सूर्यसमप्रभाः ।
देवैरप्यर्चिताः
सम्यग्
देवरूपा
महर्षभः ॥ २७ ॥
कौञ्चस्य
तु
गुहाश्चान्याः
सानूनि
शिखाराणि
च ।
निर्दराश्च
नितम्बाश्च
विचेतव्यास्ततस्ततः ॥ २८ ॥
क्रौञ्चस्य
शिखरं
चापि
निरीक्ष्य
च
ततस्ततः ।
अवृक्षं
कामशैलं
च
मानसं
विहगालयम् ॥ २९ ॥
न
गतिस्तत्र
भूतानां
देवदानवरक्षसाम् ।
स
च
सर्वैर्विचेतव्यः
ससानुप्रस्थभूधरः ॥ ३० ॥
क्रौञ्चं
गिरिमतिक्रम्य
मैनाको
नाम
पर्वतः ।
मयस्य
भवनं
यत्र
दानवस्य
स्वयं
कृतम् ॥ ३१ ॥
मैनाकस्तु
विचेतव्यः
ससानुप्रस्थकन्दरः ।
स्त्रीणामश्वमुखीनां
च
निकेतास्तत्र
तत्र
तु ॥ ३२ ॥
तं
देशं
समतिक्रम्य
आश्रमं
सिद्धसेवितम् ।
सिद्धा
वैखानसास्तत्र
वालखिल्याश्च
तापसाः ॥ ३३ ॥
वन्द्यास्ते
तु
तपस्तिद्धास्तपसा
वीतकल्मषाः ।
प्रष्टव्या
चापि
सीतायाः
प्रवृत्तिर्विनयान्वितैः ॥ ३४ ॥
हेमपुष्करसञ्छन्नं
तस्मिन्
वैखानसं
सरः ।
तरुणादित्यसङ्काशैर्हंसैर्विचरितं
शुभैः ॥ ३५ ॥
औपवाह्यः
कुबेरस्य
सार्वभौम
इति
स्मृतः ।
गजः
पर्येति
तं
देशं
सदा
सह
करेणुभिः ॥ ३६ ॥
तत्सरः
समतिक्रम्य
नष्टचन्द्रदिवाकरम् ।
अनक्षत्रगणं
व्योम
निष्पयोदमनादितम् ॥ ३७ ॥
गभस्तिभिरिवार्कस्य
स
तु
देशः
प्रकाशते ।
विश्राम्यद्भिस्तपस्मिद्धैर्देवकल्पैः
स्वयम्प्रभैः ॥ ३८ ॥
तं
तु
देशमतिक्रम्य
शैलोदा
नाम
निम्नगा ।
उभयोस्तीरयोस्तस्याः
कीचका
नाम
वेणवः ॥ ३९ ॥
ते
नयन्ति
परं
तीरं
सिद्धान्
प्रत्यानयन्ति
च ।
उत्तराः
कुरवस्तत्र
कृतपुण्यप्रतिश्रयाः ॥ ४० ॥
ततः
काञ्चनपद्माभिः
पद्मिनीभिः
कृतोदकाः ।
नीलवैडूर्यपत्त्राभिर्नद्यास्तत्र
सहस्रशः ॥ ४१ ॥
रक्तोत्पलवनैश्चात्र
मण्डिताश्च
हिरण्मयैः ।
तरुणादित्यसदृशैर्भान्ति
तत्र
जलाशयाः ॥ ४२ ॥
महार्हमणिपत्रैश्च
काञ्चनप्रभकेसरैः ।
नीलोत्पलवनैश्चित्रैः
स
देशः
सर्वतो
वृतः ॥ ४३ ॥
निस्तुलाभिश्च
मुक्ताभिर्मणिभिश्च
महाधनैः ।
उद्भूतपुलिनास्तत्र
जातरूपैश्च
निम्नगाः ॥ ४४ ॥
सर्वरत्नमयैश्चित्रैरवगाढा
नगोत्तमैः ।
जातरूपमयैश्चापि
हुताशनसमप्रभैः ॥ ४५ ॥
नित्यपुष्पफलास्तत्र
नगाः
पत्ररथाकुलाः ।
दिव्यागन्धरसस्पर्शाः
सर्वकामान्
स्रवन्ति
च ॥ ४६ ॥
नानाकाराणि
वासांसि
फलन्त्यन्ये
नगोत्तमाः ।
स्त्रीणां
चाप्यनुरूपाणि
पुरुषाणां
तथैव
च ॥ ४७ ॥
सर्वर्तुसखसेव्यानि
फलन्त्यन्ये
नगोत्तमाः ।
महार्हाणि
च
चित्राणि
हैमान्यन्ये
नगोत्तमाः ॥ ४८ ॥
शयनानि
प्रसूयन्ते
चित्रास्तरणवन्ति
च ।
मनःकान्तानि
माल्यानि
फलन्त्यत्रापरे
द्रुमाः ॥ ४९ ॥
पानानि
च
महार्हाणि
भक्ष्याणि
विविधानि
च ।
गन्धर्वाः
किन्निराः
सिद्धा
नागा
विद्याधरास्तथा ॥ ५० ॥
रमन्ते
सहितास्तत्र
नारीभिर्भास्करप्रभाः ।
सर्वे
सुकृतकर्माणः
सर्वे
रतिपरायणाः ॥ ५१ ॥
सर्वे
कामार्थसहिता
वसन्ति
सहयोषितः ।
गीतवादित्रनिर्घोषः
सोत्कृष्टहसितस्वनः ॥ ५२ ॥
श्रूयते
सततं
तत्र
सर्वभूतमनोहरः ।
तत्र
नामुदितः
कश्चिन्नास्ति
कश्चिदसत्प्रियः ॥ ५३ ॥
अहन्यहनि
वर्धन्ते
गुणास्तत्र
मनोरमाः ।
समतिक्रम्य
तं
देशमुत्तरः
पयसां
निधिः ॥ ५४ ॥
इन्द्रलोकगता
ये
च
ब्रह्मलोकगताश्च
ये ।
देवास्तं
समवेक्षन्ते
गिरिराजं
दिवं
गताः ॥ ५५ ॥
स
तु
देशो
विसूर्योऽपि
तस्य
भासा
प्रकाशते ।
सूर्यलक्ष्म्याऽभिविज्ञेयस्तपतेव
विवस्वता ॥ ५६ ॥
भगवानपि
विश्वात्मा
शम्भुरेकादशात्मकः ।
ब्रह्मा
वसति
देवेशो
ब्रह्मर्षिपरिवारितः ॥ ५७ ॥
न
कथञ्चन
गन्तव्यं
कुरूणामुत्तरेण
वः ।
अन्येषामपि
भूतानां
नातिक्रामति
वै
गतिः ॥ ५८ ॥
स
हि
सोमगिरिर्नाम
देवानामपि
दुर्गमः ।
तमालोक्य
ततः
क्षिप्रमुपावर्त्तितुमर्हथ ॥ ५९ ॥
एतावद्वानरैः
शक्यं
गन्तुं
वानरपुङ्गवाः ।
अभास्करममर्यादं
न
जानीमस्ततः
परम् ॥ ६० ॥
सर्वमेतद्विचेतव्यं
यन्मया
परिकीर्तितम् ।
यदन्यदपि
नोक्तं
च
तत्रापि
क्रियतां
मतिः ॥ ६१ ॥
ततः
कृतं
दाशरथेर्महत्
प्रियं
महत्तरं
चापि
ततो
मम
प्रियम् ।
कृतं
भविष्यत्यनिलानलोपमा
विदेहजादर्शनजेन
कर्मणा ॥ ६२ ॥
ततः
कृतार्थाः
सहिताः
सबान्धावा
मयाऽर्चिताः
सर्वगुणैर्मनोरमैः ।
चरिष्यथोर्वीं
प्रतिशान्तशत्रवः
सहप्रिया
भूतधराः
प्लवङ्गमाः ॥ ६३ ॥