विशेषेण
तु
सुग्रीवो
हनुमत्यर्थमुक्तवान् ।
स
हि
तस्मिन्
हरिश्रेष्ठे
निश्चितार्थोऽर्थसाधने ॥ १ ॥
अब्रवीच्च
हनूमन्तं
विक्रान्तमनिलात्मजम् ।
सुग्रीवः
परमप्रीतः
प्रभुः
सर्ववनौकसाम् ॥ २ ॥
न
भूमौ
नान्तरिक्षे
वा
नाम्बरे
नामरालये ।
नाप्सु
वा
गतिसङ्गं
ते
पश्यामि
हरिपुङ्गव ॥ ३ ॥
सासुराः
सहगन्धर्वाः
सनागनरदेवताः ।
विदिताः
सर्वलोकास्ते
ससागरधराधराः ॥ ४ ॥
गतिर्वेगश्च
तेजश्च
लाघवं
च
महाकपे ।
पितुस्ते
सदृशं
वीर
मारुतस्य
महौजसः ॥ ५ ॥
तेजसा
वापि
ते
भूतं
समं
भुवि
न
विद्यते ।
तद्यथा
लभ्यते
सीता
तत्
त्वमेवोपपादय ॥ ६ ॥
त्वय्येव
हनुमान्
स्वस्ति
बलं
बुद्धिः
पराक्रमः ।
देशकालानुवृत्तिश्च
नयश्च
नयपण्डित ॥ ७ ॥
ततः
कार्यसमासङ्गमवगम्य
हनूमति ।
विदित्वा
हनुमानं
च
चिन्तयामास
राघवः ॥ ८ ॥
सर्वथा
निश्चितार्थोऽयं
हनूमति
हरीश्वरः ।
निश्चितार्थकरश्चापि
हनुमान्
कार्यसाधने ॥ ९ ॥
तदेवं
प्रस्थितस्यास्य
परिज्ञातस्य
कर्मभिः ।
भर्त्रा
परिगृहीतस्य
ध्रुवः
कार्यफलोदयः ॥ १० ॥
व्यवसायोत्तरं
व्यवसायेन
उत्तरं
श्रेष्ठम् ।
कृतार्थः
संवृत्त
इव,
अमन्यतेति
शेषः ॥ ११ ॥
ददौ
तस्य
ततः
प्रीतः
स्वनामाङ्कोपशोभितम् ।
अङ्गुलीयमभिज्ञानं
राजपुत्र्याः
परन्तपः ॥ १२ ॥
अनेन
त्वां
हरिश्रेष्ठ
चिह्नेन
जनकात्मजा ।
मत्सकाशादनुप्राप्तमनुद्विग्नाऽनुपश्यति ॥ १३ ॥
व्यवसायश्च
ते
वीर
सत्त्वयुक्तश्च
विक्रमः ।
सुग्रीवस्य
च
सन्देशः
सिद्धिं
कथयतीव
मे ॥ १४ ॥
स
तं
गृह्य
हरिश्रेष्ठः
स्थाप्य
मूर्ध्नि
कृताञ्जलिः ।
वन्दित्वा
चरणौ
चैव
प्रस्थितः
प्लवगोत्तमः ॥ १५ ॥
स
तत्प्रकर्षन्
हरिणां
बलं
महद्बभूव
वीरः
पवनात्मजः
कपिः ।
गताम्बुदे
व्योम्नि
विशुद्धमण्डलः
शशीव
नक्षत्रगणोपशोभितः ॥ १६ ॥
अतिबल
बलमाश्रितस्तवाहं
हरिवरविक्रम
विक्रमैरनल्पैः ।
पवनसुत
यथाऽभिगम्यते
सा
जनकसुता
हनुमान्
तथा
कुरुष्व ॥ १७ ॥