समस्तानब्रवीद्भूयो
रामकार्यार्थसिद्धये ।
एवमेतद्विचेतव्यं
यन्मया
परिकीर्तितम् ॥ १ ॥
तदुग्रशासनं
भर्तुर्विज्ञाय
हरिपुङ्गवाः ।
शलभा
इव
सञ्छाद्य
मेदिनीं
सम्प्रतस्थिरे ॥ २ ॥
रामः
प्रस्रवणे
तस्मिन्
न्यवसत्सहलक्ष्मणः ।
प्रतीक्षमाणस्तं
मासं
यः
सीताधिगमे
कृतः ॥ ३ ॥
उत्तरां
तु
दिशं
रम्यां
गिरिराजसमावृताम् ।
प्रतस्थे
सहसा
वीरो
हरिः
शतवलिस्तदा ॥ ४ ॥
पूर्वां
दिशं
प्रति
ययौ
विनतो
हरियूथपः ।
ताराङ्गदादिसहितः
प्लवगो
मारुतात्मजः ॥ ५ ॥
पश्चिमां
तु
भृशं
घोरां
सुषेणः
प्लवगेश्वरः ।
प्रतस्थे
हरिशार्दूलो
दिशं
वरुणपालिताम् ॥ ६ ॥
ततः
सर्वा
दिशो
राजा
चोदयित्वा
यथा
तथम् ।
कपिसेनापतीन्
मुख्यान्
मुमोद
सुखितः
सुखम् ॥ ७ ॥
एवं
सम्बोधिताः
सर्वे
राज्ञा
वानरयूथपाः ।
स्वां
स्वां
दिशमभिप्रेत्य
त्वरिताः
सम्प्रतस्थिरे ॥ ८ ॥
नदन्तश्चोन्नदन्तश्च
गर्जन्तश्च
प्लवङ्गमाः ।
क्ष्वेलन्तो
धावमानाश्च
विनदन्तो
महाबलाः ॥ ९ ॥
अहमेको
हनिष्यामि
प्राप्तं
रावणमाहवे ।
ततश्चोन्मथ्य
सहसा
हरिष्ये
जनकात्मजाम् ॥ १० ॥
वेपमानां
श्रमेणाद्य
भवद्भिः
स्थीयतामिह ।
एक
एवाहरिष्यामि
पातालादपि
जानकीम् ॥ ११ ॥
विमथिष्याम्यहं
वृक्षान्
पातयिष्याम्यहं
गिरीन् ।
धरणीं
दारयिष्यामि
क्षोभयिष्यामि
सागरान् ॥ १२ ॥
अहं
योजनसङ्ख्यायाः
प्लविता
नात्र
संशयः ।
शतं
योजनसङ्ख्यायाः
शतं
समधिकं
ह्यहम् ॥ १३ ॥
भूतले
सागरे
वापि
शैलेषु
च
वनेषु
च ।
पातालस्यापि
वा
मध्ये
न
ममाच्छिद्यते
गतिः ॥ १४ ॥
इत्येकैकं
तदा
तत्र
वानरा
बलदर्पिताः ।
ऊचुश्च
वचनं
तत्र
हरिराजस्य
सन्निधौ ॥ १५ ॥