सह
ताराङ्गदाभ्यां
तु
गत्वा
स
हनुमान्
कपिः ।
सुग्रीवेण
यथोद्दिष्टं
तं
देशमुपचक्रमे ॥ १ ॥
स
तु
दूरमुपागम्य
सर्वैस्तैः
कपिसत्तमैः ।
विचिनोति
स्म
विन्ध्यस्य
गुहाश्च
गहनानि
च ॥ २ ॥
पर्वताग्रान्नदीदुर्गान्
सरांसि
विपुलान्
द्रुमान् ।
वृक्षषण्डांश्च
विविधान्
पर्वतान्
घनपादपान् ॥ ३ ॥
अन्वेषमाणास्ते
सर्वे
वानराः
सर्वतो
दिशम् ।
न
सीतां
दद्दशुर्वीरा
मैथिलीं
जनकात्मजाम् ॥ ४ ॥
अन्वेषमाणा
दुर्धर्षा
न्यवसंस्तत्र
तत्र
ह ।
स
तु
देशो
दुरन्वेषो
गुहागहनवान्
महान् ॥ ५ ॥
निर्जलं
निर्जनं
शून्यं
गहनं
रोमहर्षणम् ।
त्यक्त्वा
तु
तं
तदा
देशं
सर्वे
वै
हरियूथपाः ॥ ६ ॥
तादृशान्यप्यरण्यानि
विचित्य
भृशपीडिताः ।
देशमन्यं
दुराधर्षं
विविशुश्चाकुतोभयाः ॥ ७ ॥
यत्र
वन्ध्यफला
वृक्षा
विपुष्पाः
पर्णवर्जिताः ।
निस्तोयाः
सरितो
यत्र
मूलं
यत्र
सुदुर्लभम् ॥ ८ ॥
न
सन्ति
महिषा
यत्र
न
मृगा
न
च
हस्तिनः ।
शार्दूलाः
पक्षिणो
वापि
ये
चान्ये
वनगोचराः ॥ ९ ॥
स्निग्धपत्त्राः
स्थले
यत्र
पद्मिन्यः
फुल्लपङ्कजाः ।
प्रेक्षणीयाः
सुगन्धाश्च
भ्रमरैश्चापि
वर्जिताः ॥ १० ॥
कण्डुर्नाम
महाभागः
सत्यवादी
तपोधनः ।
महर्षिः
परमामर्षी
नियमैर्दुष्प्रधर्षणः ॥ ११ ॥
तस्य
तस्मिन्वने
पुत्रो
बालः
षोडशवार्षिकः ।
प्रनष्टो
जीवितान्ताय
क्रुद्धस्तत्र
महामुनिः ॥ १२ ॥
तेन
धर्मात्मना
शप्तं
कृत्स्नं
तत्र
महद्वनम् ।
अशरण्यं
दुराधर्षं
मृगपक्षिविवर्जितम् ॥ १३ ॥
तस्य
ते
काननान्तांश्च
गिरीणां
कन्दराणि
च ।
प्रभवानि
नदीनां
च
विचिन्वन्ति
समाहिताः ॥ १४ ॥
तत्र
चापि
महात्मानो
नापश्यन्
जनकात्मजाम् ।
हर्तारं
रावणं
वापि
सुग्रीवप्रियकारिणः ॥ १५ ॥
ते
प्रविश्याशु
तं
भीमं
लतागुल्मसमावृतम् ।
ददृशुः
क्रूरकर्माणमसुरं
सुरनिर्भयम् ॥ १६ ॥
तं
दृष्ट्वा
वानरा
घोरं
स्थितं
शैलमिवापरम् ।
गाढं
परिहिताः
सर्वे
दृष्ट्वा
तान्
पर्वतोपमान् ॥ १७ ॥
सोऽपि
तान्वानरान्
सर्वान्
नष्टाः
स्थेत्यब्रवीद्वली ।
अभ्यधावत
सङ्क्रुद्धो
मुष्टिमुद्यम्य
संहितम् ॥ १८ ॥
तमापतन्तं
सहसा
वालिपुत्रोऽङ्गदस्तदा ।
रावणोऽयमिति
ज्ञात्वा
तलेनाभिजघान
ह ॥ १९ ॥
स
वालिपुत्राभिहतो
वक्त्राच्छोणितमुद्वमन् ।
असुरोऽभ्यपतद्भूमौ
पर्यस्त
इव
पर्वतः ॥ २० ॥
तेपि
तस्मिन्निरुच्छ्वासे
वानरा
जितकाशिनः ।
व्यचिन्वन्
प्रायशस्तत्र
सर्वं
तद्गिरिगह्वरम् ॥ २१ ॥
विचितं
तु
ततः
कृत्वा
सर्वे
ते
काननं
पुनः ।
अन्यदेवापरं
घोरं
विविशुर्गिरिगह्वरम् ॥ २२ ॥
ते
विचित्य
पुनः
खिन्ना
विनिष्पत्य
समागताः ।
एकान्ते
वृक्षमूले
तु
निषेदुर्दीनमानसाः ॥ २३ ॥