अथाङ्गदस्तदा
सर्वान्
वानरानिदमब्रवीत् ।
परिश्रान्तो
महाप्राज्ञः
समाश्वस्य
शनैर्वचः ॥ १ ॥
वनानि
गिरयो
नद्यो
दुर्गाणि
गहनानि
च ।
दर्यो
गिरिगुहाश्चैव
विचितानि
समन्ततः ॥ २ ॥
तत्र
तत्र
सहास्माभिर्जानकी
न
च
दृश्यते ।
तद्वा
रक्षो
हृता
येन
सीता
सुरसुतोपमा ॥ ३ ॥
कालश्च
वो
महान्
यातः
सुग्रीवश्चोग्रशासनः ।
तस्माद्भवन्तः
सहिता
विचिन्वन्तु
समन्ततः ॥ ४ ॥
विहाय
तन्द्रीं
शोकं
च
निद्रां
चैव
समुत्थिताम् ।
विचिनुध्वं
यथा
सीतां
पश्यामो
जनकात्मजाम् ॥ ५ ॥
अनिर्वेदं
च
दाक्ष्यं
च
मनसश्चापराजयः ।
कार्यसिद्धिकराण्याहुस्तस्मादेतद्
ब्रवीम्यहम् ॥ ६ ॥
अद्यापि
तद्वनं
दुर्गं
विचिन्वन्तु
वनौकसः ।
खेदं
त्यक्त्वा
पुनः
सर्वैर्वनमेतद्विचीयताम् ॥ ७ ॥
अवश्यं
क्रियमाणस्य
दृश्यते
कर्मणः
फलम् ।
अलं
निर्वेदमागम्य
नहि
नो
मीलनं
क्षमम् ॥ ८ ॥
सुग्रीवः
कोपनो
राजा
तीक्ष्णदण्डश्च
वानरः ।
भेतव्यं
तस्य
सततं
रामस्य
च
महात्मनः ॥ ९ ॥
हितार्थमेतदुक्तं
वः
क्रियतां
यदि
रोचते ।
उच्यतां
वा
क्षमं
यन्नः
सर्वेषामेव
वानराः ॥ १० ॥
अङ्गदस्य
वचः
श्रुत्वा
वचनं
गन्धमादनः ।
उवाचाव्यक्तया
वाचा
पिपासाश्रमखिन्नया ॥ ११ ॥
सदृशं
खलु
वो
वाक्यमङ्गदो
यदुवाच
ह ।
हितं
चैवानुकूलं
च
क्रियतामस्य
भाषितम् ॥ १२ ॥
पुनर्मार्गामहै
शैलान्
कन्दरांश्च
दरीस्तथा ।
काननानि
च
शून्यानि
गिरिप्रस्रवणानि
च ॥ १३ ॥
यथोद्दिष्टानि
सर्वाणि
सुग्रीवेण
महात्मना ।
विचिन्वन्तु
वनं
सर्वे
गिरिदुर्गाणि
सर्वशः ॥ १४ ॥
ततः
समुत्थाय
पुनर्वानरास्ते
महाबलाः ।
विन्ध्यकाननसङ्कीर्णां
विचेरुर्दक्षिणां
दिशम् ॥ १५ ॥
ते
शारदाभ्रप्रतिमं
श्रीमद्रजतपर्वतम् ।
शृङ्गवन्तं
दरीमन्तमधिरुह्य
च
वानराः ॥ १६ ॥
तत्र
कोद्रवनं
रम्यं
सप्तपर्णवनानि
च ।
व्यचिन्वंस्ते
हरिवराः
सीतादर्शनकाङ्क्षिणः ॥ १७ ॥
तस्याग्रमधिरूढास्ते
श्रान्ता
विपुलविक्रमाः ।
न
पश्यन्ति
स्म
वैदेहीं
रामस्य
महिषीं
प्रियाम् ॥ १८ ॥
ते
तु
दृष्टिगतं
कृत्वा
तं
शैलं
बहुकन्दरम् ।
अवारोहन्त
हरयो
वीक्षमाणाः
समन्ततः ॥ १९ ॥
अवरुह्य
ततो
भूमिं
श्रान्ता
विगतचेतसः ।
स्थित्वा
मुहूर्तं
तत्राथ
वृक्षमूलमुपाश्रिताः ॥ २० ॥
ते
मुहूर्तं
समाश्वस्ताः
किञ्चिद्भग्नपरिश्रमाः ।
पुनरेवोद्यताः
कृत्स्नां
मार्गितुं
दक्षिणां
दिशम् ॥ २१ ॥
हनुमत्प्रमुखास्ते
तु
प्रस्थिताः
प्लवगर्षभाः ।
विन्ध्यमेवादितस्तावद्विचेरुस्ते
ततस्ततः ॥ २२ ॥