एवमुक्तः
शुभं
वाक्यं
तापस्या
धर्मसंहितम् ।
उवाच
हनुमान्
वाक्यं
तामनिन्दितचेष्टिताम् ॥ १ ॥
शरणं
त्वां
प्रपन्नाः
स्मः
सर्वे
वै
धर्मचारिणि ।
यः
कृतः
समयोऽस्माकं
सुग्रीवेण
महात्मना ॥ २ ॥
स
च
कालो
ह्यतिक्रान्तो
बिले
च
परिवर्तताम् ।
सा
त्वमस्माद्विलाद्
घोरादुत्तारयितुमर्हसि ॥ ३ ॥
तस्मात्सुग्रीववचनादतिक्रान्तान्
गतायुषः ।
त्रातुमर्हसि
नः
सर्वान्
सुग्रीवभयकर्शितान् ॥ ४ ॥
महच्च
कार्यमस्माभिः
कर्तव्यं
धर्मचारिणि ।
तच्चापि
न
कृतं
कार्यमस्माभिरिहवासिभिः ॥ ५ ॥
एवमुक्ता
हनुमता
तापसी
वाक्यमब्रवीत् ।
जीवता
दुष्करं
मन्ये
प्रविष्टेन
निवर्तितुम् ॥ ६ ॥
तपसस्तु
प्रभावेन
नियमोपार्जितेन
च ।
सर्वानेव
बिलादस्मादुद्धरिष्यामि
वानरान् ॥ ७ ॥
निमीलयत
चक्षूंषि
सर्वे
वानरपुङ्गवाः ।
नहि
निष्क्रमितुं
शक्यमनिमीलितलोचनैः ॥ ८ ॥
ततः
सम्मीलिताः
सर्वे
सुकुमाराङ्गुलैः
करैः ।
सहसा
पिदधुर्दृष्टिं
हृष्टा
गमनकाङ्क्षया ॥ ९ ॥
वानरास्तु
महात्मानो
हस्तरुद्धमुखास्तदा ।
निमेषान्तरमात्रेण
बिलादुत्तारितास्तया ॥ १० ॥
ततस्तान्वानरान्सर्वांस्तापसी
धर्मचारिणी ।
निःसृतान्
विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥ ११ ॥
एष
विन्ध्यो
गिरिः
श्रीमान्नानाद्रुमलताकुलः ।
एष
प्रस्रवणः
शैलः
सागरोऽयं
महोदधिः ॥ १२ ॥
स्वस्ति
वोऽस्तु
गमिष्यामि
भवनं
वानरर्षभाः ।
इत्युक्त्वा
तद्बिलं
श्रीमत्
प्रविवेश
स्वयम्प्रभा ॥ १३ ॥
ततस्ते
ददृशुर्घोरं
सागरं
वरुणालयम् ।
अपारमभिगर्जन्तं
घोरैरूर्मिभिरावृतम् ॥ १४ ॥
मयस्य
मायाविहितं
गिरिदुर्गं
विचिन्वताम् ।
तेषां
मासो
व्यतिक्रान्तो
यो
राज्ञा
समयः
कृतः ॥ १५ ॥
विन्ध्यस्यतु
गिरेः
पादे
सम्प्रपुष्पितपादपे ।
उपविश्य
महात्मानश्चिन्तामापेदिरे
तदा ॥ १६ ॥
ततः
पुष्पातिभाराग्रान्
लताशतसमावृतान् ।
द्रुमान्
वासन्तिकान्दृष्ट्वा
बभूवुर्भयशङ्किताः ॥ १७ ॥
ते
वसन्तमनुप्राप्तं
प्रतिबुद्ध्वा
परस्परम् ।
नष्टसन्देशकालार्था
निपेतुर्धरणीतले ॥ १८ ॥
ततस्तान्कपिवृद्धांस्तु
शिष्टां
श्चैव
वनौकसः ।
वाचा
मधुरयाऽऽभाष्य
यथावदनुमान्य
च ॥ १९ ॥
स
तु
सिंहवृषस्कन्धः
पीनायतभुजः
कपिः ।
युवराजो
महाप्राज्ञ
अङ्गदो
वाक्यमब्रवीत् ॥ २० ॥
शासनात्कपिराजस्य
वयं
सर्वे
विनिर्गताः ।
मासः
पूर्णो
बिलस्थानां
हरयः
किन्न
बुध्यते ॥ २१ ॥
वयमाश्वयुजे
मासि
कालसङ्ख्याव्यवस्थिताः ।
प्रस्थिताः
सोऽपि
चातीतः
किमतः
कार्यमुत्तरम् ॥ २२ ॥
भवन्तः
प्रत्ययं
प्राप्ता
नीतिमार्गविशारदाः ।
हितेष्वभिरता
भर्तुर्निसृष्टाः
सर्वकर्मसु ॥ २३ ॥
कर्मस्वप्रतिमाः
सर्वे
दिक्षु
विश्रुतपौरुषाः ।
मां
पुरस्कृत्य
निर्याताः
पिङ्गाक्षप्रतिचोदिताः ॥ २४ ॥
इदानीमकृतार्थानां
मर्तव्यं
नात्र
संशयः ।
हरिराजस्य
सन्देशमकृत्वा
कः
सुखी
भवेत् ॥ २५ ॥
तस्मिन्नतीते
काले
तु
सुग्रीवेण
कृते
स्वयम् ।
प्रायोपवेशनं
युक्तं
सर्वेषां
च
वनौकसाम् ॥ २६ ॥
तीक्ष्णः
प्रकृत्या
सुग्रीवः
स्वामिभावे
व्यवस्थितः ।
न
क्षमिष्यति
नः
सर्वानपराधकृतो
गतान् ॥ २७ ॥
अप्रवृत्तौ
च
सीतायाः
पापमेव
करिष्यति ।
तस्मात्क्षममिहाद्यैव
प्रायोपविशनं
हि
नः ॥ २८ ॥
ध्रुवं
नो
हिंसिता
राजा
सर्वान्
प्रतिगतानितः ।
वधेनाप्रतिरूपेण
श्रेयान्
मृत्युरिहैव
नः ॥ २९ ॥
न
चाहं
यौवराज्येन
सुग्रीवेणाभिषेचितः ।
नरेन्द्रेणाभिषिक्तोऽस्मि
रामेणाक्लिष्टकर्मणा ॥ ३० ॥
स
पूर्वं
बद्धवैरो
मां
राजा
दृष्ट्वा
व्यतिक्रमम् ।
घातयिष्यति
दण्डेन
तीक्ष्णेन
कृतनिश्चयः ॥ ३१ ॥
किं
मे
सुहृद्भिर्व्यसनं
पश्यद्भिर्जीवितान्तरे ।
इहैव
प्रायमासिष्ये
पुण्ये
सागररोधसि ॥ ३२ ॥
एतच्छ्रुत्वा
कुमारेण
युवराजेन
भाषितम् ।
सर्वे
ते
वानरश्रेष्ठाः
करुणं
वाक्यमब्रुवन् ॥ ३३ ॥
तीक्ष्णः
प्रकृत्या
सुग्रीवः
प्रियासक्तश्च
राघवः ।
अदृष्टायां
तु
वैदेह्यां
दृष्ट्वा
चैव
समागतान् ॥ ३४ ॥
राघवप्रियकामार्थं
घातयिष्यत्यसंशयम् ।
न
क्षमं
चापराद्धानां
गमनं
स्वामिपार्श्वतः ॥ ३५ ॥
इहैव
सीतामन्विष्य
प्रवृत्तिमुपलभ्य
वा ।
नो
चेद्गच्छाम
तं
वीरं
गमिष्यामो
यमक्षयम् ॥ ३६ ॥
प्लवङ्गमानां
तु
भयार्दितानां
श्रुत्वा
वचस्तार
इदं
बभाषे ।
अलं
विषादेन
बिलं
प्रविश्य
वसाम
सर्वे
यदि
रोचते
वः ॥ ३७ ॥
इदं
हि
मायाविहितं
सुदुर्गमं
प्रभूतवृक्षोदकभोज्यपेयकम् ।
इहास्ति
नो
नैव
भयं
पुरन्दरान्न
राघवाद्वानरराजतोऽपि
वा ॥ ३८ ॥
श्रुत्वाऽङ्गदस्यापि
वचोऽनुकूलमूचुश्च
सर्वे५
हरयः
प्रतीताः ।
यथा
न
हिंस्येम
तथा
विधानमसक्तमद्यैव
विधीयतां
नः ॥ ३९ ॥