तथा
ब्रुवति
तारे
तु
ताराधिपतिवर्चसि ।
अथ
मेने
हृतं
राज्यं
हनुमानङ्गदेन
तत् ॥ १ ॥
बुद्ध्या
ह्यष्टाङ्गया
युक्तं
चतुर्बलसमन्वितम् ।
चतुर्दशगुणं
मेने
हनुमान्
वालिनः
सुतम् ॥ २ ॥
आपूर्यमाणं
शश्वच्च
तेजोबलपराक्रमैः ।
शशिनं
शुक्लपक्षादौ
वर्धमानमिव
श्रिया ॥ ३ ॥
बृहस्पतिसमं
बुद्ध्या
विक्रमे
सदृशं
पितुः ।
शुश्रूषमाणं
तारस्य
शुक्रस्येव
पुरन्दरम् ॥ ४ ॥
भर्तुरर्थे
परिश्रान्तं
सर्वशास्त्रविदां
वरम् ।
अभिसन्धातुमारेभे
हनुमानङ्गदं
ततः ॥ ५ ॥
स
चतुर्णामुपायानां
तृतीयमुपवर्णयन् ।
भेदयामास
तान्
सर्वान्
वानरान्वाक्य
सम्पदा ॥ ६ ॥
तेषु
सर्वेषु
भिन्नेषु
ततोऽभीषयदङ्गदम् ।
भीषणैर्बहुभिर्वाक्यैः
कोपोपायसमन्वितैः ॥ ७ ॥
त्वं
समर्थतरः
पित्रा
युद्धे
तारेय
वै
धुरम् ।
दृढं
धारयितुं
शक्तः
कपिराज्यं
यथा
पिता ॥ ८ ॥
नित्यमस्थिरचित्ता
हि
कपयो
हरिपुङ्गवः ।
नाज्ञाप्यं
विषहिष्यन्ति
पुत्रदारान्
विना
त्वया ॥ ९ ॥
त्वां
नैते
ह्यनुयुञ्जेयुः
प्रत्यक्षं
प्रवदामि
ते ।
यथाऽयं
जाम्बवान्नीलः
सुहोत्रश्च
महाकपिः ॥ १० ॥
न
ह्यहं
त
इमे
सर्वे
सामदानादिभिर्गुणैः ।
दण्डेन
वा
त्वया
शक्याः
सुग्रीवादपकर्षितुम् ॥ ११ ॥
विगृह्यासनमप्याहुर्दुर्बलेन
बलीयसः ।
आत्मरक्षाकरस्तस्मान्न
विगृह्णीत
दुर्बलः ॥ १२ ॥
यां
चेमां
मन्यसे
धात्रीमेतद्बिलमिति
श्रुतम् ।
एतल्लक्ष्मणबाणानामीषत्कार्यं
विदारेणे ॥ १३ ॥
स्वल्पं
हि
कृतमिन्द्रेण
क्षिपता
ह्यशनिं
पुरा ।
लक्ष्मणो
निशितैर्बाणैर्भिन्द्यात्पत्त्रपुटं
यथा ॥ १४ ॥
लक्ष्मणस्य
तु
नाराचा
बहवः
सन्ति
तद्विधाः ।
वज्राशनिसमस्पर्शा
गिरीणामपि
दारणाः ॥ १५ ॥
अवस्थाने
यदैव
त्वमासिष्यसि
परन्तप ।
तदेव
हरयः
सर्वे
त्यक्ष्यन्ति
कृतनिश्चयाः ॥ १६ ॥
स्मरन्तः
पत्रदाराणां
नित्योद्विग्ना
बुभुक्षिताः ।
खेदिता
दुःखशय्याभिस्त्वां
करिष्यन्ति
पृष्ठतः ॥ १७ ॥
स
त्वं
हीनः
सुहृद्भिश्च
हितकामैश्च
बन्धुभिः ।
तृणादपि
भृशोद्विग्नः
स्पन्दमानाद्भविष्यसि ॥ १८ ॥
न
च
जातु
न
हिंस्युस्त्वां
घोरा
लक्ष्मणसायकाः ।
अपवृत्तं
जिघांसन्तो
महावेगा
दुरासदाः ॥ १९ ॥
अस्माभिस्तु
गतं
सार्धं
विनीतवदुपस्थितम् ।
आनुपूर्व्यात्तु
सुग्रीवो
राज्ये
त्वां
स्थापयिष्यति ॥ २० ॥
धर्मकामः
पितृव्यस्ते
प्रीतिकामो
दृढव्रतः ।
शुचिः
सत्यप्रतिज्ञश्च
न
त्वां
जातु
जिघांसति ॥ २१ ॥
प्रियकामश्च
ते
मासुस्तदर्थं
चास्य
जीवितम् ।
तस्यापत्यं
च
नास्त्यन्यत्
तस्मादङ्गद
गम्यताम् ॥ २२ ॥